मङ्गलाशासनम् कर्पूर आरती
श्रियः कान्ताय कल्याण निधये निधयेऽर्थिनां श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १
लक्ष्मीचरणलाक्षाङ्कसाक्षिश्रीवत्सवक्षसे । क्षेमङ्कराय सर्वेषां श्रीरङ्गेशाय मङ्गलम् ॥ २॥
समस्तजीवमोक्षाय श्रीरङ्गपुरवासिने । कन्द्वादमुनिपूज्याय श्रीनिवासाय मङ्गलम् ॥ ३॥
अस्तु श्रीस्तनकस्तूरीवासनावासितोरसे । श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥ ४॥
कमलाकुच कस्तूरी कर्दमाङ्गित वक्षसे । यादवाद्रिनिवासाय सम्पत्पुत्राय मङ्गलम् ॥ ५॥
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥ ६॥
श्रीमद्गोपालबालाय गोदाभीष्टप्रदायिने । श्रीसत्यासहिताथास्तु कृष्णदेवाय मङ्गलम् ॥ ७॥
नीलाचलनिवासाय नित्याय परमात्मने । सुभद्राप्राणनाथाय जगन्नाथाय मङ्गलम् ॥ ८॥
आजन्मनः षोडशाब्दं स्तन्याद्यनभिलाषिणे । श्रीशानुभवपुष्टाय शठकोपाय मङ्गलम् ॥ ९॥
श्रीमत्यै विष्णुचित्तार्यमनोनन्दनहेतवे । नन्दनन्दनसुन्दर्यै गोदायै नित्य मङ्गलम् ॥ १०॥
श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः । कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ ११॥
मङ्गलाशासन परैर्मदाचार्य पुरोगमैः सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १२॥
श्रीमते रम्यजामात्रे मुनीन्द्राय महात्मने श्रीरङ्गवासिने भूयात् नित्यश्रीर्नित्यमङ्गलम् ॥ १३॥