सनातन देव
॥ स्वागतगीतम् त्वदीयं स्वागतं कुर्मः ॥
stotra-e402e92a
स्वागतगीतम्
रचना - श्रीवासुदेवद्विवेदी शास्त्री
महामहनीय मेधाविन्, त्वदीयं स्वागतं कुर्मः। गुरो गीर्वाणभाषायाः, त्वदीयं स्वागतं कुर्मः।।
दिनं नो धन्यतममेतत्, इयं मङ्गलमयी वेला। वयं यद्बालका एते, त्वदीयं स्वागतं कुर्मः।।
न काचिद् भावना भक्तिः, न काचित् साधना शक्तिः। परं श्रद्धाकुसुमाञ्जलिभिः, त्वदीयं स्वागतं कुर्मः।।
किमधिकं ब्रूमहे श्रीमन्, निवेदनमेतदेवैकम् । न बाला विस्मृतिं नेयाः, त्वदीयं स्वागतं कुर्मः।।