சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஸாஷ்டாங்க³ த³ண்ட³வத்

साष्टाङ्ग दण्डवत्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

साष्टाङ्ग दण्डवत्

ओम् भगवन्नाशयणाभिमतानुरूप स्वरूपरूप
 गुणविभव ऐश्वर्य शीलादि अनवधिकातिशय 
असंख्येय कल्याणगुणगणां पद्मवनालयां भगवतीं
 श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेवदिव्य-
महिषीम् अखिलजगन्मातरम् अस्मन्मातरम्
अशरण्यशरण्याम् अनन्यशरण: शरणमहं प्रपद्ये ॥

अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्टः कथमहमितो दुःखजलधे-
रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥

न धर्मनिष्ठोऽस्मि न चात्मवेदी
न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनोऽनन्यगतिश्शरण्यः
त्वत्पादमूलं शरणं प्रपद्ये ॥

ओम् 
ஜப எண்ணிக்கை: 0/108