सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

अनेकविषयमुक्तश्लोकाः

stotra-e323306b
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

यस्य प्रसादकलया बधिरः शृणोति पंगुः प्रधावति जवेन च वक्ति मूकः । अंधः प्रपश्यति सुतं लभते च वंध्या तं देवमेव वरदं शरणं गतोऽस्मि ।।१ ।।

आशैलादद्रिकन्याचरणकिसलय न्यासधन्योपकण्ठात् आरक्षोनीतसीतामुखकमल समुल्लासहेतोश्च सेतोः। आचप्राच्यप्रतीच्य क्षितिधरयुगला च्चन्द्रसूर्यावतंसात् मीमांसाशास्त्रयुग्म श्रमविमलमना मृग्यतां मादृशोऽन्यः ।।२ ।।

न वयं कवयस्तु केवलं न वयं केवलतन्त्रपारगाः। अपि तु प्रतिवादिवारण प्रकटाटोपविपाटनक्षमाः।। ३।।

वन्दे गोविन्दतातौ मुनिमथ मनवै लक्ष्मणार्यं महान्तं ध्यायेयं यामुनार्यं मम हृदि तनवैराममेवाभियायाम्। पद्माक्षं प्रेक्षिषीय प्रथममपि मुनि नाथ मीडे शठारि स्तौमि प्रेक्षेय लक्ष्मी शरण मशरण: श्रीधरं संश्रयेयम् ।। ४।।

त्वं मेऽहं मे कुतस्तत् तदपि कुत इदं वेदमूलप्रमाणात् एत च्चानादिसिद्धादनुभवविभवात् सोऽपि साक्रोश एव । क्वाक्रोशः कस्य गीतादिषु मम विदितः कोऽत्र साक्षी सुधीः स्यात् हन्त! त्वत्पक्षपाती स इति नृकलहे मृग्यमध्यस्थवत्त्वम् ।। ५।।

अविद्यातो देवे परिबृढतया वा विदितया स्वभक्तेः भूम्ना वा जगति गतिमन्यामविदुषाम् । गतिर्गम्यश्चासौ हरि रिति जितन्ताह्वयमनो: रहस्यं व्याजहे स खलु भगवान् शौनकमुनिः ।।६ ।।

पुरा सूत्रै या॑सः श्रुतिशतशिशेऽर्थं ग्रथितवान् विववे तं श्राव्यं वकुलधरतामेत्य स पुनः । उभावेतौ ग्रंथौ घटयितु मलं युक्तिभि- रसौ पुनर्जज्ञे रामावरज इति स ब्रह्ममुकुरः।।७ ।।

अर्वांचो यत्पदसरसिजद्वंद्व माश्रित्य पूर्वे मूर्जा यस्यान्वय मुपगता देशिका मुक्ति मापुः । सोऽयं रामानुजमुनि रपि स्वीयमुक्तिं करस्थां यत्संबन्धा दमनुत कथं वर्ण्यते कूरनाथः ।।८ ।।

श्रीमद्वारवरं महद्धि बलिपीठाग्नं फणीन्द्रह्रदं गोपीनां रमणं वराहवपुषं श्रीभट्टनाथं मुनिम् । श्रीमंतं शठवैरिणं कलिरिपुं श्रीभक्तिसारं मुनि पूर्ण लक्ष्मणयोगिनं मुनिवरा नाद्या नथ द्वारपौ ।। ९ ।।

श्रीमन्मज्जनमण्डपं सरसिजां हेतीशभोगीश्वरी रामं नीलमणिं महानसवर तायं नृसिंहं प्रभुम् । सेनान्यं करिभूधरं तदुपरि श्रीपुण्यकोट्यां हरिं तन्मध्ये वरदं रमासहचरं वंदे तदीयैर्वृतम् ।।१० ।।

काषायशोभि कमनीयशिखानिवेशम् दण्डत्रयोज्ज्वलकरं विमलोपवीतम्। उद्यद्दिनेशनिभमुल्लसदूर्ध्वपुण्ड्रं रूपं तवास्तु यतिराज! दृशो ममाग्रे ।।११ ।।

एतानि तानि भुवनत्रयपावनानि संसाररोग शकलीकरणौषधानि । जिह्वातले मम लिखानि यथा शिलायां रामानुजेति चतुराण्यमृताक्षराणि ।।१२ ।।

नमः प्रणवशोभितं नवकषायखण्डाम्बरं त्रिदण्डपरिमण्डितं त्रिविधतत्त्वनिर्वाहकम्। दयाञ्चितदृगञ्चलं दलितवादि वाग्वैभवं शमादिगुणसागरं शरणमेमि रामानुजम् ।। १३ ।।

न चेद् रामानुजेत्येषा चतुरा चतुरक्षरी। कामवस्थां प्रपद्यन्ते जन्तवो हन्त! मादृशः।। पुण्याम्भोजविकासाय पापध्वान्तक्षयाय च श्रीमानाविरभूद्भूमौ रामानुजदिवाकरः।।१४ ।।

तृणीकृतविरिञ्चादिनिरङ्कुशविभूतयः। रामानुजपदाम्भोजसमाश्रयणशालिनः।। सत्यं सत्यं पुनस्सत्यं यतिराजो जगद्गुरुः। स एव सर्वलोकानामुद्धर्ता नास्ति संशयः।।१५ ।।

देवाधीशनृसिंहपाण्डवमहादूतप्रवालप्रभान् श्रीवैकुण्ठपतिं त्रिविक्रमहरिं नीरेशमेघेश्वरौ । नीलव्योमविभुं महोरगहरिं ज्योत्स्नेन्दुवक्त्रं हरिं चोरेशं कृतचिन्तभक्तहृदयावासं मुकुन्दाह्वयम् ।। १६ ।।

कामावासपतिं नृकेसरिवरं दीपप्रकाशप्रभुं श्रीयुक्ताष्टभुजास्पदेशमनघं श्रीमद्यथोक्तक्रियम् । इत्यष्टादशदिव्यमंगलवपुर्देवान् सरोयोगिना साकं निस्तुलकाञ्च्यभिख्यनगरीनाथान् नमामस्सदा।।१७ ।।

पाठ जप: 0/108