সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শ্রীবিদ্যাগণেশাষ্টোত্তরশতনামস্তোত্রম্

श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 1
23px

श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम्

श्रीमद्विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् । वक्ष्यामि श‍ृणु देवेशि सावधानेन चेतसा ॥ १॥ सर्वपापप्रशमनं सर्वविघ्ननिवारकम् । सर्वरोगहरं दिव्यं साधकाभीष्टदायकम् ॥ २॥ ब्रह्मादयः सुराः सर्वे वसिष्ठाद्या मुनीश्वराः । विद्यागणाधिनाथस्य चक्राराधनतत्पराः ॥ ३॥ स्तोत्रेणानेन सम्पूज्य जप्त्वा रवेः पदे स्थिताः । सुखिनोऽद्यापि दृश्यन्ते सद्यः सन्तुष्टमानसाः ॥ ४॥ तादृशं परमं दिव्यं प्रत्यक्षफलदायकम् । यः पठेत् प्रातरुत्थाय चिन्तयेन्मूनि बालकम् ॥ ५॥ स सर्वदुरितान्मु(क्त्वा)क्तो सर्वान् कामानवाप्नुयात् । चक्रपूजाविधानेन प्रयाणे समुपस्थिते ॥ ६॥ शोभनेषु समस्तेषु कार्येध्वन्येषु बुद्धिमान् । स्तोत्रेणानेन सम्पूज्य जप्त्वाभीष्टमवाप्नुयात् ॥ ७॥ धान्यकामी लभेद्धान्यं धनकामी धनं लभेत् । सन्तानकामी सन्तानं क्षेत्रार्थी क्षेत्रमुत्तमम् ॥ ८॥ सर्वं लभेत् सर्वकामी निष्कामी तत्फलं लभेत् । (अथ स्तोत्रम् ।) ॐ विद्यागणपतिर्विघ्नहरो गजमुखोऽव्ययः ॥ ९॥ विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः । विश्वसृग्विश्वभुग्विश्वसंहर्ता विश्वगोपनः ॥ १०॥ विश्वानुग्राहकः सत्यः शिवतुल्यः शिवात्मजः । विचित्रनर्तनो वीरो विश्वसन्तोषवर्धनः ॥ ११॥ विमर्शी विमलाचारो विश्वाकारो विनायकः । स्वतन्त्रः सुलभः स्वर्चः सुमुखः सुखबोधकः ॥ १२॥ सूर्याग्निशशिदृक् सोमकलाचूडः सुखासनः । स्वप्रकाशः सुधावक्त्रः स्वयं व्यक्तः स्मृतिप्रियः ॥ १३॥ शक्तीशः शङ्करः शम्भुः प्रभुर्विभुरुमासुतः । शान्तः शतमखाराध्यश्चतुरश्चक्रनायकः ॥ १४॥ कालजित् करुणामूर्तिरव्यक्तः शाश्वतः शुभः । उग्रकर्मोदितानन्दी शिवभक्तः शिवान्तरः ॥ १५॥ चैतन्यधृतिरव्यग्रः सर्वज्ञः सर्वशत्रुभृत् । सर्वाग्रः समरानन्दी संसिद्धगणनायकः ॥ १६॥ साम्बप्रमोदको वज्री मानसो मोदकप्रियः । एकदन्तो बृहत्कुक्षिः दीर्घतुण्डो विकर्णकः ॥ १७॥ ब्रह्माण्डकन्दुकश्चित्रवर्णश्चित्ररथासनः । तेजस्वी तीक्ष्णधिषणः शक्तिवृन्दनिषेवितः ॥ १८॥ परापराश्च पश्यन्ती प्राणनाथः प्रमत्तहृत् । सङ् क्लिष्टमध्यमःस्पष्टो वैखरीजनकः शुचिः ॥ १९॥ धर्मप्रवर्तकः कामो भूमिस्फुरितविग्रहः । तपस्वी तरुणोल्लासी योगिनीभोगतत्परः ॥ २०॥ जितेन्द्रियो जयश्रीको जन्ममृत्युविदारणः । जगद्गुरुरमेयात्मा जङ्गमस्थावरात्मकः ॥ २१॥ नमस्कारप्रियो नानामतभेदविभेदकः । नयवित् समदृक् शूरः सर्वलोकैकशासनः ॥ २२॥ विशुद्धविक्रमो वृद्धः संवृद्धः ससुहृद्गणः । सर्वसाक्षी सदानन्दी सर्वलोकप्रियङ्करः ॥ २३॥ सर्वातीतः समरसः सत्यावासः सतां गतिः । इति विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ॥ २४॥ यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः । तस्य साधकवर्यस्य सर्वावस्थासु सर्वदा । नासाध्यमस्ति किमपि विद्याविघ्नेश्वरात्मनः ॥ २५॥ ॥ इति महाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे शङ्करविरचिते श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम् ॥
পাঠ জপ: 0/108