|| अथ सरस्वती पूजा पद्धतिः ||
|| अथ सरस्वती पूजा पद्धतिः ||
या कुन्देन्दु-तुषारहार-धवला या शुभ्र-वस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युत-शंकर-प्रभृतिभिर्देवै: सदा पूजिता सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ॥ १ ॥
अथ सरस्वती पूजा आरभ्यते
ॐ सर्वेभ्यो गुरुभ्यो नम: । ॐ सर्वेभ्यो देवेभ्यो नम: । ॐ सर्वेभ्यो ब्राह्मणेभ्यो नम: । प्रारंभ कार्यं निर्विघ्नमस्तु। शुभं शोभनमस्तु। इष्ट देवता कुलदेवता सुप्रसन्ना वरदा भवतु। अनुज्ञां देहि । शुद्धासन उपविश्य आचम्य (शुद्ध आसन मे वैठ कर आचमन करे) ॐ केशवाय नम: , ॐ नारायणाय नम: , ॐ माधवाया नम: , हाथ थोएं ॐ गोविन्दाय । प्राणायाम: ॐ प्रणवस्य परब्रह्म ऋषि: । परमात्मा देवता । दैवी गायत्री छन्द: । प्राणायामे विनियोग: । ॐ भू: । ॐ भुव: । ॐ स्व: । ॐ मह: । ॐ जन: । ॐ तप: । ॐ सत्यं । ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो न: प्रचोदयात् । ॥ प्राणायाम करके हाथ थोवे॥
॥॥ अविघ्नमस्तु ॥॥ सुमुखश्च एकदंतश्च कपिलो गजकणर्क: । लंबोदरश्च विकटो विघ्ननाशो गणाधिप: ॥ धूम्रकेतुर्गणाध्यक्षो बालचन्द्रो गजानन: । द्वादशैतानि नामानि य: पठेत्श्रुणुयादपि ॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटेश्चैव विघ्न: तस्य न जायते॥ सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके। शरण्ये त्र्यंबके देवी नारायणी नमोऽस्तुते॥ विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान्। सरस्वतीं प्रणम्यादौ सर्व कार्यार्थ सिद्धये॥
अथ ध्यानम् सरस्वती माया दृष्टा वीणापुस्तकधारिणी । हंसवाहनसंयुक्ता विद्यादानं करोतु मे ॥ प्रथमं भारती नाम, द्वितीयं च सरस्वती । तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ॥ पञ्चमं जगती ख्याता, षष्ठं वागीश्वरी तथा । सप्तमं कौमुदी प्रोक्ता, अष्टमं ब्रहचारिणी ॥ नवमं बुद्धिदात्री च, दशमं वरदायिनी । एकादशं चन्द्रकान्ति:, द्वादशं भुवनेश्वरी ॥ द्वादशैतानि नामानि त्रिसन्ध्यं य: पठेन्नर: । जिह्वाग्रे वसते नित्यं ब्रह्मरूपा सरस्वती ॥
अक्षत फुल लेकर संकल्प करे संकल्प हरि ॐ तत्सत् अद्येह श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञाय प्रवर्तमानस्य अद्य ब्रह्मणो.द्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे वैवस्वत मन्वन्तरे अमुक देशे अमुक क्षेत्रेशालिवाहनीयशाके के वर्तमाने अमुक नाम संवत्सरे उत्तरायणे, अमुक ऋतौ अमुक मासे, अमुक पक्षे अमुक तिथौ अमुक नक्षत्रे अमुक वासरे सर्व ग्रहेषु यथा राशि स्थान स्थितेषु सत्सु येवं गुणविशेषेण विशिष्टायां शुभपुण्यतिथौ मम आत्मन श्रुति स्मृति पुराणोक्त फलप्राप्यर्थं विशेषत विद्याध्याने सफलता प्राप्त्यर्थं अमुक गोत्रस्य परिवारान्वितस्य मम ज्ञाताज्ञातपापक्षयपूर्वक अस्मदादीनां सबालवनितानां विद्यान्रागिणां सर्वेषां बालकानां बालिकानां च श्रीवागीश्वरी सरस्वती-सुप्रसादसिद्धिद्वारा सर्वविधविद्या -प्राप्त्यर्थं ज्ञानविवृद्धयर्थं श्रीसरस्वती देवीप्रीत्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यै: पुराणोक्त मन्त्रै: ध्यानावाहनादि षोडशोपचारै: सरस्वती देवीं उद्दिश्य, सरस्वती देवीं प्रीत्यर्थं इयं पूजनं एवं सरस्वती स्तोत्रं पठनं तत्रादौ दीपकलशगणेशाम्बिकापूजनं च करिष्ये वा करिष्यामहे ।
।। अथ दीपपूजनम् ।।
दिप प्रज्वलन
ॐ स्थिरोभव व्वीड्वंगऽआशुर्भववार्ज्यवन् पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः
दीपनारायणको आवाहन करके पञ्चोपचारसे पूजा करें
ॐ पृष्टोदिवि पृष्टोऽअग्निः पृथिव्याम्पृष्टो विश्वाऽओषधीराविवेश वैश्वानरः सहसा पृष्टोऽअग्निः सनो दिवासरिषस्पातुनक्तम् ।।
ॐ भुर्भूवः स्वः प्रत्यक्ष कर्मसाक्षिणे दीपस्थ नारायणायनमः आवाहयामि,स्थापयामि, यथामिलितोपचारैः पूजयामि, गन्धाक्षतपुष्पाणि समर्पयामि, नमस्करोमि ।।
प्रार्थना करें
शुभं भवतु कल्याणमारोग्यं सुखसम्पदः । कर्मणां साक्षीरुपस्त्वं दीपज्योतिर्नमोऽस्तुते ।।
भो दीप ! देवरुपस्त्वं कर्मसाक्षीह्यविघ्नकृत् । यावत् पूजा समाप्तिः स्यात्तावत्वं सुस्थिरो भव ।।
ॐ भुर्भूवः स्वः दीपनारायणाय नमः प्रार्थनार्थेपुष्पं समर्पयामि,नमस्करोमि ।।
।। इति दीपपूजाविधिः ।।
कलशस्थापनम्
कलशमें रोलीसे स्वस्तिकका चिह्न बनाकर गलेमें तीन धागावाली मौली लपेटे और कलशको एक ओर रख ले। कलश स्थापित किये जानेवाली भूमि अथवा पाटेपर कुङ्कुम या रोलीसे अष्टदलकमल बनाकर निम्न मन्त्रसे भूमिका स्पर्श करे-
भूमिका स्पर्श- ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथिवीं यच्छ पृथिवीं दृ गुँ ह पृथिवीं मा हि गुँ सीः ॥
निम्नलिखित मन्त्र पढ़कर पूजित भूमिपर सप्तधान्य' अथवा गेहूँ, चावल या जौ रख दे- धान्यप्रक्षेप- ॐ धान्यमसि धिनुहि देवान् प्राणाय त्वो दानाय त्वा व्यानाय त्वा । दीर्घामनु प्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि ॥
इस धान्यपर निम्नलिखित मन्त्र पढ़कर कलशकी स्थापना करे- कलश-स्थापन- ॐ आ जिघ्र कलशं मह्या त्वा विशन्त्विन्दवः । पुनरूर्जा नि वर्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयि ॥
कलशमें जल- ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमा सीद ॥ (इस मन्त्रसे जल छोड़े।)
कलशमें चन्दन- ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः । त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥ (चन्दन छोड़े।)
कलशमें सर्वौषधि- ॐ या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनै नु बभ्रूणामहः शतं धामानि सप्त च ॥ (सर्वौषधि छोड़ दे।)
कलशमें दूब- ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥ (दूब छोड़े।)
कलशपर पञ्चपल्लव ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥ (पञ्चपल्लव रख दे।)
कलशमें पवित्री ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम् ॥ (कुश छोड़ दे ।)
कलशमें सप्तमृत्तिका ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः। (सप्तमृत्तिका छोड़े।)
कलशमें सुपारी- ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व गुँ हसः ॥ (सुपारी छोड़े।)
कलशमें पञ्चरत्न ॐ परि वाजपतिःकविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे। (पञ्चरत्न छोड़े ।)
कलशमें द्रव्य- ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ (द्रव्य छोड़े ।)
निम्नलिखित मन्त्र पढ़कर कलशको वस्त्रसे अलंकृत करे- कलशपर वस्त्र- ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः । वासो अग्ने विश्वरूप सं व्ययस्व विभावसो ॥
कलशपर पूर्णपात्र- ॐ पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत। वस्नेव विक्रीणावहा इषमूर्ज शतक्रतो ॥
चावलसे भरे पूर्णपात्रको कलशपर स्थापित करे और उसपर लाल कपड़ा लपेटे हुए नारियलको निम्न मन्त्र पढ़कर रखे- कलशपर नारियल- ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः ॥
अब कलशमें देवी-देवताओंका आवाहन करना चाहिये। सबसे पहले हाथमें अक्षत और पुष्प लेकर निम्नलिखित मन्त्रसे वरुणका आवाहन करे- कलशमें वरुणका ध्यान और आवाहन - ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशः स मा न आयुः प्र मोषीः ॥ अस्मिन् कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकमावाहयामि ।
ॐ भूर्भुवः स्वः भो वरुण ! इहागच्छ, इह तिष्ठ, स्थापयामि, पूजयामि, मम पूजां गृहाण । 'ॐ अपां पतये वरुणाय नमः' कहकर अक्षत-पुष्प कलशपर छोड़ दे।
फिर हाथमें अक्षत-पुष्प लेकर चारों वेद एवं अन्य देवी- देवताओंका आवाहन करे- कलशमें देवी-देवताओंका आवाहन- कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागरा सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः । अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ॥ आयान्तु देवपूजार्थं दुरितक्षयकारकाः । गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥
इस तरह जलाधिपति वरुणदेव तथा वेदों, तीर्थों, नदों, नदियों, सागरों, देवियों एवं देवताओंके आवाहनके बाद हाथमें अक्षत-पुष्प लेकर निम्नलिखित मन्त्रसे कलशकी प्रतिष्ठा करे-
प्रतिष्ठा- ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो ३म्प्रतिष्ठ ॥ कलशे वरुणाद्यावाहितदेवताः सुप्रतिष्ठिता वरदा भवन्तु । ॐ वरुणाद्यावाहितदेवताभ्यो नमः ।- यह कहकर अक्षत-पुष्प कलशके पास छोड़ दे।
ध्यान- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, ध्यानार्थे पुष्पं समर्पयामि। (पुष्प समर्पित करे।)
आसन- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, आसनार्थे अक्षतान् समर्पयामि। (अक्षत रखे।)
पाद्य- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, पादयोः पाद्यं समर्पयामि। (जल चढ़ाये।)
अर्घ्य ॐ वरुणाद्यावाहितदेवताभ्यो नमः, हस्तयोरर्घ्यं समर्पयामि। (जल चढ़ाये।)
स्नानीय जल- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, स्नानीयं जलं समर्पयामि। (स्नानीय जल चढ़ाये ।)
स्नानाङ्ग आचमन- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, स्नानान्ते आचमनीयं जलं समर्पयामि। (आचमनीय जल चढ़ाये ।)
पञ्चामृतस्नान- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, पञ्चामृतस्नानं समर्पयामि । (पञ्चामृतसे स्नान कराये ।)
गन्धोदकस्नान- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, गन्धोदकस्नानं समर्पयामि। (जलमें मलयचन्दन मिलाकर स्नान कराये ।)
शुद्धोदकस्नान- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, स्नानान्ते शुद्धोदकस्नानं समर्पयामि । (शुद्ध जलसे स्नान कराये।)
आचमन- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल चढ़ाये ।)
वस्त्र - ॐ वरुणाद्यावाहितदेवताभ्यो नमः, वस्त्रं समर्पयामि (वस्त्र चढ़ाये ।)
आचमन- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, वस्त्रान्ते आचमनीयं जलं समर्पयामि। (आचमनके लिये जल चढ़ाये ।)
यज्ञोपवीत- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, यज्ञोपवीतं समर्पयामि। (यज्ञोपवीत चढ़ाये ।)
आचमन- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि। (आचमनके लिये जल चढ़ाये ।)
उपवस्त्र- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, उपवस्त्रं (उपवस्त्रार्थे रक्तसूत्रम्) समर्पयामि । (उपवस्त्र चढ़ाये ।)
उपवस्त्रान्ते आचमनीयं समर्पयामि आचमन- ॐ वरुणाद्यावाहितदेवताभ्यो जलं समर्पयामि। (आचमनके लिये जल चढ़ाये ।)
चन्दन- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, चन्दनं समर्पयामि। (चन्दन लगाये।)
अक्षत- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, अक्षतान् समर्पयामि । (अक्षत समर्पित करे।)
पुष्प ( पुष्पमाला ) - ॐ वरुणाद्यावाहितदेवताभ्यो नमः, पुष्पं (पुष्पमालाम्) समर्पयामि। (पुष्प और पुष्पमाला चढ़ाये।)
नानापरिमल-द्रव्य- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, नानापरिमलद्रव्याणि समर्पयामि। (विविध परिमल द्रव्य समर्पित करे।)
सुगन्धित द्रव्य- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, सुगन्धितद्रव्यं समर्पयामि । (सुगन्धित द्रव्य (इत्र आदि) चढ़ाये।)
धूप- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, धूपमाघ्रापयामि। (धूप आघ्रापित कराये।)
दीप- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, दीपं दर्शयामि । (दीप दिखाये।)
हस्तप्रक्षालन- दीप दिखाकर हाथ धो ले।
नैवेद्य- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, सर्वविधं नैवेद्यं निवेदयामि। (नैवेद्य निवेदित करे।)
आचमन आदि- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, आचमनीयं जलम्, मध्ये पानीयं जलम्, उत्तरापोऽशने, मुखप्रक्षालनार्थे, हस्तप्रक्षालनार्थे च जलं समर्पयामि। (आचमनीय एवं पानीय तथा मुख और हस्त-प्रक्षालनके लिये जल चढ़ाये।)
करोद्वर्तन- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, करोद्वर्तनं समर्पयामि । (करोद्वर्तनके लिये गन्ध समर्पित करे।)
ताम्बूल- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, ताम्बूलं समर्पयामि । (सुपारी, इलायची, लौंगसहित पान चढ़ाये ।)
दक्षिणा- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि। (द्रव्य-दक्षिणा चढ़ाये ।)
आरती- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, आरार्तिकं समर्पयामि। (आरती करे।)
पुष्पाञ्जलि- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि। (पुष्पाञ्जलि समर्पित करे।)
प्रदक्षिणा- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, प्रदक्षिणां समर्पयामि । (प्रदक्षिणा करे।)
हाथमें पुष्प लेकर इस प्रकार प्रार्थना करे-
प्रार्थना- देवदानवसंवादे मथ्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ॥ त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥ त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः । त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव । सांनिध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥ नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमङ्गलाय । सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते ॥ 'ॐ अपां पतये वरुणाय नमः ।'
नमस्कार- ॐ वरुणाद्यावाहितदेवताभ्यो नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि। (इस नाम-मन्त्रसे नमस्कारपूर्वक पुष्प समर्पित करे।)
अब हाथमें जल लेकर निम्नलिखित वाक्यका उच्चारणकर जल कलशके पास छोड़ते हुए समस्त पूजन-कर्म भगवान् वरुणदेवको निवेदित करे-
समर्पण- कृतेन अनेन पूजनेन कलशे वरुणाद्यावाहितदेवताः प्रीयन्तां न मम ।
इति कलश पूजनम्
।। अथ गणेशाम्बिकापूजन विधि ।।
ॐ अद्यहेत्यादि देशकालौ स्मृत्वा अद्येह (अमुक) गोत्रोत्पन्नः, (अमुक) नाम्नो नाम्नि (शर्मा वर्मा गुप्तो) ऽहं मम श्रुतिस्मृतिपुराणोक्तफलप्राप्तये करिष्यमाण (अमुकामुक)कर्मणो निर्विघ्नतया सिद्घये भगवतो गणेशस्य यथामिलितोपचारै पूजन अहं करिष्ये । (वयं करिष्यामहे)
गणेशाम्बिकापूजन (पूजामें जो वस्तु विद्यमान न हो, उसके लिये 'मनसा परिकल्प्य समर्पयामि' कहे। जैसे, आभूषणके लिये 'आभूषणं मनसा परिकल्प्य समर्पयामि' ।)
हाथमें अक्षत लेकर ध्यान करे-
भगवान् गणेशका ध्यान- गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् । उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥
भगवती गौरीका ध्यान- नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ श्रीगणेशाम्बिकाभ्यां नमः, ध्यानं समर्पयामि ।
भगवान् गणेशका आवाहन- ॐ गणानां त्वा गणपति गुँ हवामहे प्रियाणां त्वा प्रियपति गुँ हवामहे निधीनां त्वा निधिपति गुँ हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष । माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते ॥ ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च । हाथके अक्षत गणेशजीपर चढ़ा दे। फिर अक्षत लेकर गणेशजीकी दाहिनी ओर गौरीजीका
भगवती गौरीका आवाहन- ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् । लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥ ॐ भूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि, पूजयामि च ।
प्रतिष्ठा- ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ गुँ समिमं दधातु। विश्वे देवास इह मादयन्तामो३ म्प्रतिष्ठ॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च। अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ गणेशाम्बिके! सुप्रतिष्ठिते वरदे भवेताम् । प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः। (आसनके लिये अक्षत समर्पित करे) ।
पाद्य, अर्घ्य, आचमनीय, ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनो- बाहुभ्यां पूष्णो हस्ताभ्याम् । एतानि पाद्यार्ध्याचमनीयस्नानीयपुनराचमनीयानि स्नानीय, पुनराचमनीय समर्पयामि गणेशाम्बिकाभ्यां नमः। (इतना कहकर जल चढ़ा दे) ।
दुग्धस्नान- ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्। पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पयःस्नानं समर्पयामि।(दूधसे स्नान कराये) ।
दधिस्नान- ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्रण आयू गुँ षि तारिषत् ॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दधिस्नानं समर्पयामि । (दधिसे स्नान कराये) ।
घृतस्नान- ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ॥ घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, घृतस्नानं समर्पयामि ॥ (घृतसे स्नान कराये) ।
मधुस्नान- ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिव गुँ रजः । मधु द्यौरस्तु नः पिता ॥
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि । (मधुसे स्नान कराये।)
शर्करास्नान- ॐ अपा गुँ रसमुद्वयस गुँ सूर्ये सन्त गुँ समाहितम् । अपा गुँ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
इक्षुसारसमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शर्करास्नानं समर्पयामि। (शर्करासे स्नान कराये) ।
पञ्चामृतस्नान–
ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पञ्चामृतस्नानं समर्पयामि। (पञ्चामृतसे स्नान कराये।)
गन्धोदकस्नान- ॐ अ गुँ शुना ते अ गुँ शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥
मलयाचलसम्भूतचन्दनेन विनिःसृतम् । इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, गन्धोदकस्नानं समर्पयामि। (गन्धोदकसे स्नान कराये।)
शुद्धोदकस्नान- ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥
गङ्गा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि । (शुद्ध जलसे स्नान कराये।)
आचमन- शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि। (आचमनके लिये जल दे।)
वस्त्र- ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः ॥
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि। (वस्त्र समर्पित करे।)
आचमन- वस्त्रान्ते आचमनीयं जलं समर्पयामि। (आचमनके लिये जल दे।)
उपवस्त्र- ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः । वासो अग्ने विश्वरूप गुँ सं व्ययस्व विभावसो ॥
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति । उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं समर्पयामि)। (उपवस्त्र समर्पित करे ।)
आचमन- उपवस्त्रान्ते आचमनीयं जलं समर्पयामि। (आचमनके लिये जल दे।)
यज्ञोपवीत- ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, यज्ञोपवीतं समर्पयामि। (यज्ञोपवीत समर्पित करे।)
आचमन- यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि। (आचमनके लिये जल दे।)
चन्दन-
ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः । त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥ श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ! चन्दनं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, चन्दनानुलेपनं समर्पयामि। (चन्दन अर्पित करे।)
अक्षत-
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि (अक्षत चढ़ाये।)
पुष्पमाला-
ॐ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि। (पुष्पमाला समर्पित करे।)
दूर्वा-
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥ दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि। (दूर्वाङ्कुर चढ़ाये।)
सिन्दूर-
ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् । शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सिन्दूरं समर्पयामि । (सिन्दूर अर्पित करे।)
अबीर-गुलाल -
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा गुँ सं परि पातु विश्वतः ॥
अबीरं च गुलालं च हरिद्रादिसमन्वितम् । नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि। (अबीर आदि चढ़ाये।)
सुगन्धिद्रव्य- ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा गुँ सं परि पातु विश्वतः
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् । गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि। (सुगन्धित द्रव्य अर्पण करे।)
धूप- ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः । देवानामसि वह्नितम गुँ सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥
वनस्पतिरसोद्भूतो गन्धाढ्यो उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि ।(धूप दिखाये।)
दीप- ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा। अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ॥ ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने । त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि ।(दीप दिखाये।)
हस्तप्रक्षालन- 'ॐ हृषीकेशाय नमः' कहकर हाथ धो ले।
नैवेद्य-नैवेद्यको प्रोक्षितकर गन्ध-पुष्पसे आच्छादित करे। तदनन्तर जलसे चतुष्कोण घेरा लगाकर भगवान् के आगे रखे।
ॐ नाभ्या आसीदन्तरिक्ष गुँ शीर्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥ ॐ अमृतोपस्तरणमसि स्वाहा । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा। ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ अमृतापिधानमसि स्वाहा ।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च। आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि ।(नैवेद्य निवेदित करे।) नैवेद्यान्ते आचमनीयं जलं समर्पयामि। (जल समर्पित करे।)
ऋतुफल- ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । नो मुञ्चन्त्व गुँ हसः ॥
इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि। (ऋतुफल अर्पित करे।) फलान्ते आचमनीयं जलं समर्पयामि। (आचमनीय जल अर्पित करे।)
उत्तरापोऽशन- उत्तरापोऽशनार्थे जलं समर्पयामि। गणेशाम्बिकाभ्यां नमः ।(जल दे।)
करोद्वर्तन- ॐ अ गुँ शुना ते अ गुँ शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥
चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम्। करोद्वर्तनकं देव गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तनकं चन्दनं समर्पयामि। (मलयचन्दन समर्पित करे।)
ताम्बूल- यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि ।(इलायची, लौंग-सुपारीके साथ ताम्बूल अर्पित करे।)
दक्षिणा- ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो: । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ।। ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि। (द्रव्य दक्षिणा समर्पित करे।)
आरती- ॐ इद गुँ हविः प्रजननं मे अस्तु दशवीर गुँ सर्वगण गुँ स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मे वरदो भव ।। आ रात्रि पार्थिव गुँ रजः पितुरप्रायि धामभिः । दिवः सदा गुँ सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं समर्पयामि। (कर्पूरकी आरती करे, आरतीके बाद जल गिरा दे।)
पुष्पाञ्जलि- ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
ॐ गणानां त्वा गणपति गुँ हवामहे प्रियाणां त्वा प्रियपति गुँ हवामहे निधीनां त्वा निधिपति गुँ हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ (यजुर्वेद २३ । १९)
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥(शु० य० २३ । १८)
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च। पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पाञ्जलिं समर्पयामि। (पुष्पाञ्जलि अर्पित करे।)
प्रदक्षिणा- ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषा गुँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ (यजु० १६ । ६१)
यानि कानि च पापानि जन्मान्तरकृतानि च। तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि। (प्रदक्षिणा करे।)
विशेषार्घ्य- ताम्रपात्रमें जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्रको हाथमें लेकर निम्नलिखित मन्त्र पढ़े-
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक । भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥ द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो । वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥ अनेन सफलार्घ्येण वरदोऽस्तु सदा मम । ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्यं समर्पयामि। (विशेषार्घ्य दे।)
प्रार्थना- विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥
तब वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया । सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि। (साष्टाङ्ग नमस्कार करे।)
गणेशपूजने कर्म यन्न्यूनमधिकं कृतम् । तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥ अनया पूजया गणेशाम्बिके प्रीयेताम्, न मम ।ऐसा कहकर समस्त पूजनकर्म भगवानको समर्पित कर दे तथा पुनः नमस्कार करे।
।। इति गणेशाम्बिकापूजन विधिः ।।
अथ सरस्वती पूजा
आह्वानम् सर्वलोकस्य जननीं सर्वविद्यां प्रदायिनीम् । सर्वदेवमयीमीशां देवीमावाहयाम्यहम् ॥ ॐ महासरस्वत्यै नम:, महासरस्वतीमावाहयामि, आवाहनार्थे पुष्पाणि समर्पयामि । ( आह्वान के लिए पुष्प अर्पित करें ।) आसनम् तप्तकांचनवर्णाभं मुक्तामणिविराजितम् । अमलं कमलं दिव्यमासनं प्रतिगृह्यताम् ॥ ॐ महासरस्वत्यै नम: - आसनं समर्पयामि । (पुष्प अर्पित करें ।) पाद्यम् गंगादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम् । पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते ॥ ॐ महासरस्वत्यै नम: - पादयो: पाद्यं समर्पयामि । (पाद्य अर्पित करें ।) अर्घ्यम् अष्टगन्धसमायुक्तं स्वणर्पात्रप्रपूरितम् । अर्घ्यं गृहाणमद्यतं महादेवि नमोऽस्तु ते ॥ ॐ महासरस्वत्यै नम:- हस्तयोरर्घ्यं समर्पयामि । (चन्दन मिश्रित जल अर्घ्यपात्र से देवी के हाथों में दें ।) आचमनम् सर्वलोकस्य या विद्या ब्रह्मविष्ण्वादिभि: स्तुता । ॐ महासरस्वत्यै नम:- आचमनीयं जलं समर्पयामि । (जल चढ़ाएँ ।) स्नानम् मन्दाकिन्या: समानीतैर्हेमाम्भोरुहवासितै: । स्नानं कुरुष्व देवेशि सलिलैश्च सुगन्धिभि: ॥ (स्नानीय जल अर्पित करें ।) स्नानान्ते आचमनीयं जलं समर्पयामि । (ॐ महासरस्वत्यै नम:’ बोलकर आचमन हेतु जल दें ।) दुग्ध स्नानम् कामधेनुसमुत्पन्नां सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पय: स्नानार्थमर्पितम् ॥ ॐ महासरस्वत्यै नम:, पय: स्नानं समर्पयामि । पय: स्नानान्ते शुद्धोदकस्नानं समर्पयामि । (कच्चे दूध से स्नान कराएँ, पुन: शुद्ध जल से स्नान कराएँ ।) दधिस्नानम् पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन: सुरभि नो मुखा करत्प्र ण आयू गुँ षि तारिषत् । ॐ महासरस्वत्यै नम:, दधिस्नानं समर्पयामि । दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि । (दधि से स्नान कराएँ, फिर शुद्ध जल से स्नान कराएँ ।) घृतस्नानम् नवनीतसमुत्पन्नं सर्वसंतोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ घृतं घृतपावन: पिबत वसां वसापावन: पिबतान्तरिक्षस्य हविरसि स्वाहा । दिश: प्रदिश आदिशो विदिश उद्दिशो दिग्भ्य: स्वाहा ॥ ॐ महासरस्वत्यै नम: -घृतस्नानं समर्पयामि । घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि । (घृत स्नान कराकर शुद्ध जल से स्नान कराएँ ।) मधुस्नानम् तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु । तेज: पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव: । माध्वीर्न: सन्त्वोषधी: ॥ मधु नक्तमुतोषसो मधुमत्पार्थिव(गुँ) रज: । मधु द्यौरस्तु न: पिता ॥ मधुमान्ना वनस्पतिर्मधुमाँ(गुँ) अस्तु सूर्य: । माध्वीर्गावो भवंतु न: ॥ ॐ महासरस्वत्यै नम:- मधुस्नानं समर्पयामि । मधुस्नानन्ते शुद्धोदकस्नानं समर्पयामि । (शहद स्नान कराकर शुद्ध जल से स्नान कराएँ ।)
शर्करास्नानम् इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका । मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ॥ ॐ अपा गुं रसमुद्वयस गुं सूर्ये सन्त गुं समाहित्म । अपा गुं रसस्य यो रसस्तं वो गृह्याम्युत्तममुपयामगृहीतोसीन्द्राय त्वा जुष्टं गुह्ढाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥ ॐ महासरस्वत्यै नम:- शर्करास्नानं समर्पयामि शर्करा स्नानान्ते पुन: शुद्धोदक स्नानं समर्पयामि । (शर्करा स्नान कराकर जल से स्नान कराएँ ।) पञ्चामृत स्नानम् (दूध, दही, घी, शकर एवं शहद मिलाकर पंचामृत बनाएँ व निम्न मंत्र से स्नान कराएँ ।) पयो दधि घृतं चैव मधुशर्करयान्वितम् । पंचामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ पंच नद्य: सरस्वतीमपि यन्ति सस्त्रोतस: । सरवस्ती तु पञ्चधा सो देशेऽभवत्(सरित् ॥ ॐ महासरस्वत्यै नम: - पंचामृतस्नानं समर्पयामि, पंचामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि । (पंचामृत स्नान व जल से स्नान कराएँ ।) गन्धोदक स्नानम् मलयाचलसम्भूतं चन्दनागरुसम्भवम् । चन्दनं देवदेवेशि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ महासरस्वत्यै नम:, गन्धोदकस्नानं समर्पयामि । (चंदनयुक्त जल से स्नान कराएँ ।) (नोट : ( जो व्यक्ति श्री सूक्त, पुरुष सूक्त अथवा सहस्रनाम आदि से पुष्पार्चन अथवा जल अभिषेक करना चाहते हैं, वे अर्चन अथवा अभिषेक करें फिर शुद्धोदक स्नान कराएँ अथवा सीधे शुद्धोदक स्नान कराएँ ।) शुद्धोदक स्नान : मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ महासरस्वत्यै नम:, शुद्धोदकस्नानं समर्पयामि । (गंगाजल अथवा शुद्ध जल से स्नान कराएँ ।) अब आचमन : पश्चात् ’ॐ महासरस्वत्यै नम:’ से आचमन कराएँ । वस्त्र : दिव्याम्बरं नूतनं हि क्षौमं त्वतिमनोहरम् । दीयमानं मया देवि गृहाण जगदम्बिके ॥ ॐ उपैतु मां देवसख: कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे ॥ ॐ महासरस्वत्यै नम:, वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि । (वस्त्र अर्पित करें, आचमनीय जल दें ।) उपवस्त्र : कंचुकीमुपवस्त्रं च नानारत्नै: समन्वितम् । गृहाण त्वं मया दत्तं मंगले जगदीश्र्वरि ॥ ॐ महासरस्वत्यै नम:, उपवस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि । (उपवस्त्र चढ़ाएँ, आचमन के लिए जल दें ।) यज्ञोपवीत : ॐ तस्मादअकूवा अजायंत ये के चोभयादत: । गावोह यज्ञिरे तस्मात्तस्माज्जाता अजावय: ॥ ॐ यज्ञोपवीतं परमं वस्त्रं प्रजापतये: त्सहजं पुरस्तात ॥ आयुष्यम अग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तुतेज: । ॐ महासरस्वत्यै नम: । यज्ञोपवीतं समर्पयामि । आभूषण :
रत्नकंकणवैदूर्यमुक्ताहारादिकानि च । सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व भो: ॥ ॐ महासरस्वत्यै नम: , नानाविधानि कुंडलकटकादीनि आभूषणानि समर्पयामि । (आभूषण समर्पित करें ।)
गन्ध :
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥ ॐ महासरस्वत्यै नम:, गन्धं समर्पयामि । (केसर मिश्रित चन्दन अर्पित करें ।)
रक्तचन्दन :
रक्तचन्दनसम्मिश्रं पारिजातसमुद्भवम् । मया दत्तं महादेवि चन्दनं प्रतिगृह्यताम् ॥ ॐ महासरस्वत्यै नम:, रक्तचन्दनं समर्पयामि । (रक्त चंदन चढ़ाएँ ।)
सिन्दूर : सिन्दूरं रक्तवणर्ं च सिन्दूरतिलकप्रिये । भक्तया दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥ ॐ सिन्धोरिव प्राध्वने शूघनासो वात प्रमिय: पतयन्ति यह्वा: । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभि: पिन्वमान: ॥ ॐ महासरस्वत्यै नम:, सिन्दूरं समर्पयामि । (सिन्दूर चढ़ाएँ ।)
कुंकुम : कुंकुमं कामदं दिव्यं कुंकुमं कामरूपिणम् । अखण्डकामसौभाग्यं कुंकुमं प्रतिगृह्यताम् ॥ ॐ महासरस्वत्यै नम:, कुंकुमं समर्पयामि । (कुंकुम अर्पित करें ।)
पुष्पसार (इत्र) : तैलानि च सुगन्धीनि द्रव्याणि विविधानि च । मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥ ॐ महासरस्वत्यै नम:, पुष्पसारं च समर्पयामि । (इत्र चढ़ाएँ ।)
अक्षत : अक्षताश्च सुरश्रेष्ठे कुंकुमाक्ता: सुशोभिता: । मया निवेदिता भक्त्या गृहाण परमेश्वरि ॥ ॐ महासरस्वत्यै नम:, अक्षतान्समर्पयामि । (कुंकुमाक्त अक्षत चढ़ाएँ ।)
पुष्पमाला : माल्यादीनि सुगन्धीनि माल्यादीनि वै प्रभो । मयानीतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥ ॐ महासरस्वत्यै नम:, पुष्पं पुष्पमालां च समर्पयामि । (लाल कमल के पुष्प तथा पुष्पमालाओं से अलंकृत करें ।)
दूर्वा : विष्ण्वादिसर्वदेवानां प्रियां सर्वसुशोभनाम् । क्षीरसागरसम्भूते दूर्वां स्वीकुरू सर्वदा ॥ ॐ महासरस्वत्यै नम:, दूर्वांकुरान्समर्पयामि । (दूर्वांकुर अर्पित करें ।) सर्वाङ्ग पूजनम् : समस्त अंग पूजन ॐ महासरस्वत्यै नम:, सर्वांग पूजयामि धूप : वनस्पतिरसोद्भूतो गन्धाढ्य: सुमनोहर: । आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ महासरस्वत्यै नम: , धूपमाघ्रापयामि । (धूप आघ्रापित करें ।)
दीप : कार्पास वर्तिसंयुक्तं घृतयुक्तं मनोहरम् । तमो नाशकरं दीपं गृहाण परमेश्वरि ॥ ॐ महासरस्वत्यै नम:, दीपं दर्शयामि । (दीपक दिखाकर हाथ धो लें ।)
नैवेद्य : (मालपुए सहित पंचमिष्ठान्न व सूखे मेवे।) नैवेद्यं गृह्यतां देवि भक्ष्यभोज्य समन्वितम् । ज्ञट षड्रसैन्वितं दिव्यं लक्ष्मी देवि नमोऽस्तु ते ॥ ॐ महासरस्वत्यै नम:, नैवेद्यं निवेदयामि । बीच में जल छोड़ते हुए निम्न मंत्र बोलें : १. ॐ प्राणाय स्वाहा २. ॐ अपानाय स्वाहा . ३ ॐ समानाय स्वाहा ४. ॐ उदानाय स्वाहा ५. ॐ व्यानाय स्वाहा । मध्ये पानीयम्, उत्तरापोशनार्थं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि । ( नैवेद्य निवेदित कर पुन: हस्तप्रक्षालन के लिए जल अर्पित करें ।) करोद्वर्तन : ॐ महासरस्वत्यै नम: ’ यह कहकर करोद्वर्तन के लिए हाथों में चन्दन उपलेपित करें । आचमन : शीतलं निर्मलं तोयं कर्पूरण सुवासितम् । आचम्यतां जलं ह्येतत्प्रसीद परमेश्वरि ॥ ॐ महासरस्वत्यै नम:, आचमनीयं जलं समर्पयामि । (आचमन के लिए जल दें ।) ऋतुफल : (सीताफल, गन्ना, सिंघाड़े व अन्य फल ।) ज्ञठ फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् । तस्मात्फलप्रदादेन पूणर्ा: सन्तु मनोरथा: ॥ ॐ महासरस्वत्यै नम:, अखण्डऋतुफलं समर्पयामि, आचमनीयं जलं च समर्पयामि । (ऋतुफल अर्पित करें तथा आचमन के लिए जल दें ।) ताम्बूल : पूगीफलं महादिव्यं नागवल्लीदलैर्युतम् । एलादिचूणर्संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ महासरस्वत्यै नम:, मुखवासार्थे ताम्बूलं समर्पयामि । (लवंग, इलायची एवं ताम्बूल अर्पित करें ।) दक्षिणा : हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो: । अनन्तपुण्यफलदमत: शान्तिं प्रयच्छ मे ॥ ॐ महासरस्वत्यै नम:, दक्षिणां समर्पयामि । (दक्षिणा चढ़ाएँ ।) लेखनी पुस्तक पूजन : लेखनी (कलम) पर नाड़ा बाँधकर सामने की ओर रखें । ज्ञड निम्न मंत्र बोलकर पूजन करें : लेखनी निर्मिता पूर्वं ब्रह्मणा परमेष्ठिना । लोकानां च हितार्थाय तस्मात्तां पूजयाम्यहम् ॥ ॐ लेखनीस्थायै देव्यै नम: गंध, पुष्प, पूजन कर इस प्रकार प्रार्थना करें : शास्त्राणां व्यवहाराणां विद्यानामाप्नुयाद्यत: । अतस्त्वां पूजयिष्यामि मम हस्ते स्थिरा भव ॥ या कुन्देन्दुतुषारहार धवला या शुभ्रवस्त्रावृता । या वीणावरदण्डमण्डितकरा या श्वेतपद्यासना ॥ या ब्रह्माच्युतशंकरप्रभृतिभिर्देवे: सदा वन्दिता । सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ॥ ध्यान बोलकर प्रणाम करें । ॐ वीणापुस्तकधारिण्यै श्री सरस्वत्यै नम:’ आरती : निम्न लिखित मन्त्र पढ़ते हुए अब आरति सजाए : चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् । आर्तिक्यं कल्पितं भक्तया गृहाण परमेश्वरि ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ज्ञढ या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सदा पूजिता सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ॥ १ ॥ सरस्वती माता कि आरति जय सरस्वती माता, मैया जय सरस्वती माता । सद्गुण, वैभवशालिनि, त्रिभुवन विख्याता ॥जय. ॥ चन्द्रवदनि, पद्मासिनि द्युति मंगलकारी । सोहे हंस सवारी, अतुल तेजधारी ॥ जय. ॥ बायें कर में वीणा, दूजे कर माला । शीश मुकुट मणि सोहे, गले मोतियन माला ॥जय. ॥् देव शरण में आये, उनका उद्धार किया । पैठि मंथरा दासी, असुर संहार किया ॥जय. ॥ वेदज्ञानप्रदायिनी, बुद्धिप्रकाश करो ॥ मोहज्ञान तिमिर का सत्वर नाश करो ॥जय. ॥ धूपदीपफलमेवापूजा स्वीकार करो। ज्ञानचक्षु दे माता, सब गुणज्ञान भरो ॥जय. ॥ माँ सरस्वती की आरती, जो कोई जन गावे। हितकारी, सुखकारी ज्ञान भक्ति पावे ॥जय. ॥ द्दण् ॐ महासरस्वत्यै नम: , नीराजनं समर्पयामि । (जल छोड़ें व हाथ धोएँ ।) प्रदक्षिणा : यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥ (प्रदक्षिणा करें ।) मंत्र -पुष्पांजलि : ( अपने हाथों में पुष्प लेकर निम्न मंत्रों को बोलें) : - ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । तेह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ॥ ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥ कुबेराय वैश्रवणाय महाराजाय नम: । ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमपित्यमयं समन्तपर्यायी स्यात्सार्वभौम: सार्वायुषान्तादापरार्धात् । पृथिव्यै समुद्रपर्यन्ताया एकराडिति द्दज्ञ तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति । ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एक: ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सदा पूजिता सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ॥ १ ॥ ॐ महासरस्वत्यै नम: , मंत्रपुष्पांजलिं समर्पयामि प्रार्थना :
(श्रीसरस्वतीस्तुती ) या कुन्देन्दु-तुषारहार-धवला या शुभ्र-वस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युत-शंकर-प्रभृतिभिर्देवै: सदा पूजिता सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ॥ १ ॥
दोर्भिर्युक्ता चतुर्भि: स्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दु-शंखस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २ ॥ द्दद्द आशासु राशी भवदंगवल्लि भासैव दासीकृत -दुग्धसिन्धुम् । मन्दस्मितैर्निन्दित -शारदेन्दुं वन्देऽरविन्दासन -सुन्दरि त्वाम् ॥ ३ ॥ शारदा शारदाम्बोजवदना वदनाम्बुजे । सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥ ४ ॥ सरस्वतीं च तां नौमि वागधिष्ठातृ-देवताम् । देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जना: ॥ ५ ॥ पातु नो निकषग्रावा मतिहेम्न: सरस्वती । प्राज्ञेतरपरिच्छेदं वचसैव करोति या ॥ ६ ॥ शुद्धां ब्रह्मविचारसारपरमा -माद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ७ ॥ वीणाधरे विपुलमंगलदानशीले भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये । कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ८ ॥ द्दघ श्वेताब्जपूणर् -विमलासन -संस्थिते हे श्वेताम्बरावृतमनोहरमंजुगात्रे । उद्यन्मनोज्ञ -सितपंकजमंजुलास्ये विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ९ ॥ मातस्त्वदीय -पदपंकज -भक्तियुक्ता ये त्वां भजन्ति निखिलानपरान्विहाय । ते निर्जरत्वमिह यान्ति कलेवरेण भूवह्नि -वायु-गगनाम्बु-विनिर्मितेन ॥ १० ॥ मोहान्धकार -भरिते हृदये मदीये मात: सदैव कुरु वासमुदारभावे । स्वीयाखिलावयव -निर्मलसुप्रभाभि: शीघ्रं विनाशय मनोगतमन्धकारम् ॥ ११ ॥ ब्रह्मा जगत्सृजति पालयतीन्दिरेश: शम्भुर्विनाशयति देवि तव प्रभावै: । न स्यात्कृपा यदि तव प्रकटप्रभावे न स्यु: कथंचिदपि ते निजकार्यदक्षा: ॥ १२ ॥ लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टि: प्रभा धृति: । एताभि: पाहि तनुभिरष्टभिर्मां सरस्वती ॥ १३ ॥ सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नम: द्दद्ध वेद -वेदान्त -वेदांग - विद्यास्थानेभ्य एव च ॥ १४ ॥ सरस्वति महाभागे विद्ये कमललोचने । विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते ॥ १५ ॥ यदक्षर -पदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ १६ ॥ नए छात्रो के लिए ये श्लोक उच्चारण करके विद्यारम्भ करे सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ समर्पण : । कृतेनानेन पूजनेन भगवती महासरस्वती प्रीयताम्, न मम’ । (हाथ में जल लेकर छोड़ दें ।) (हाथ में लिए फूल महासरस्वती पर चढ़ा दें ।) प्रदक्षिणा करें, साष्टांग प्रणाम करें, अब हाथ जोड़कर निम्न क्षमा प्रार्थना बोलें : - क्षमा प्रार्थना : आवाहनं न जानामि न जानामि विसर्जनम् ॥ पूजां चैव न जानामि क्षमस्व परमेश्वरि ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूणर् तदस्तु मे ॥ द्दछ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वम्मम देवदेव । पापोऽहं पापकर्माहं पापात्मा पापसम्भव: । त्राहि माम्परमेशानि सर्वपापहरा भव ॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ पूजन समर्पण : हाथ में जल लेकर निम्न मंत्र बोलें : - यस्य स्मृत्या च नाम्नोक्त्या तप: पूजा क्रियादिशु। न्यूनं सम्पूणर्तां याति सद्यो वन्दे तं अच्युतम्। कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते: स्वभावात्। करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि । ’ॐ अनेन यथाशक्ति अर्चनेन श्री महासरस्वती प्रसीदतु: ॥’ (जल छोड़ दें, प्रणाम करें) विसर्जन : अब हाथ में अक्षत लें (गणेश एवं की प्रतिमा को छोड़कर अन्य सभी) प्रतिष्ठित देवताओं को अक्षत छोड़ते हुए निम्न मंत्र से विसर्जन कर्म करें :- द्दट यान्तु देवगणा: सर्वे पूजामादाय मामकीम् । इष्टकामसमृद्धयर्थं पुनर्अपि पुनरागमनाय च ॥ प्रसाद ग्रहणं सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके। शरण्ये त्र्यम्बिके गौरी नारायणी नमोस्तुते। ॐ सरस्वत्यै नम: । सरस्वती देवी प्रसादं शिरसा गृह्णामि । तीर्थ ग्रहणं अकाल मृत्यु हरणं सर्व व्याधी विनाशनम्। सर्व दुरितोप शमनं देवी पादोदकं शुभं । ॐ सरस्वत्यै नम: । सरस्वती देवी तीर्थं शिरसा गृह्णामि । ध्यानम् ॐ श्री सरस्वती शुक्लवणर्ां सस्मितां सुमनोहराम् ॥ कोटिचंद्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम्। वह्निशुद्धां शुकाधानां वीणापुस्तकमधारिणीम् ॥ रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम्। सुपूजितां सुरगणै: ब्रह्मविष्णुशिवादिभि: ॥ वन्दे भक्त्या वन्दिता च मुनीन्द्रमनुमानवै: । द्दठ ॥ इति श्रीसरस्वती पूजनं सम्पूणर्ं ॥ विद्यारम्भ : नए छात्रो के लिए ये निम्न लिखित श्लोक उच्चारण करके विद्यारम्भ करे सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ नमो भगवति ! हे सरस्वति ! वन्दे तव पदयुगलम् ॥ विद्यां बुद्धिं वितनु भारति चित्तं कारय मम विमलम् ॥ वीणावादिनि शुभमतिदायिनि पुस्तकहस्ते देवनुते । वणर्ज्ञानं सकलनिदानं सन्निहितं कुरु मम चित्ते ॥ नमो ॥ हंसवाहिनि ब्रह्मवादिनि करुणापूणर्ा भव वरदे । मञ्जुलहासिनि नाट्यविलासिनि लास्यं कुरु मम रसनाग्रे ॥ नमो ॥ श्रीसरस्वत्यष्टोत्तरशतनामावलि: ॐ सरस्वत्यै नम: । ॐ महाभद्रायै नम: । ॐ महामायायै नम: । ॐ वरप्रदायै नम: । ॐ श्रीप्रदायै नम: । ॐ पद्मनिलयायै नम: । ॐ पद्माक्ष्यै नम: । ॐ पद्मवक्त्रायै नम: । ॐ शिवानुजायै नम: । ॐ पुस्तकभृते नम: । १० ॐ ज्ञानमुद्रायै नम: । ॐ रमायै नम: । ॐ परायै नम: । ॐ कामरूपायै नम: । ॐ महाविद्यायै नम: । ॐ महापातक नाशिन्यै नम: । ॐ महाश्रयायै नम: । ॐ मालिन्यै नम: । द्दढ ॐ महाभोगायै नम: । ॐ महाभुजायै नम: । २० ॐ महाभागायै नम: । ॐ महोत्साहायै नम: । ॐ दिव्याङ्गायै नम: । ॐ सुरवन्दितायै नम: । ॐ महाकाल्यै नम: । ॐ महापाशायै नम: । ॐ महाकारायै नम: । ॐ महाङ्कुशायै नम: । ॐ पीतायै नम: । ॐ विमलायै नम: । ३० ॐ विश्वायै नम: । ॐ विद्युन्मालायै नम: । ॐ वैष्णव्यै नम: । ॐ चन्द्रिकायै नम: । ॐ चन्द्रवदनायै नम: । ॐ चन्द्रलेखाविभूषितायै नम: । ॐ सावित्र्यै नम: । ॐ सुरसायै नम: । ॐ देव्यै नम: । ॐ दिव्यालङ्कारभूषितायै नम: । ४० घण् ॐ वाग्देव्यै नम: । ॐ वसुधायै नम: । ॐ तीव्रायै नम: । ॐ महाभद्रायै नम: । ॐ महाबलायै नम: । ॐ भोगदायै नम: । ॐ भारत्यै नम: । ॐ भामायै नम: । ॐ गोविन्दायै नम: । ॐ गोमत्यै नम: । ५० ॐ शिवायै नम: । ॐ जटिलायै नम: । ॐ विन्ध्यावासायै नम: । ॐ विन्ध्याचलविराजितायै नम: । ॐ चण्डिकायै नम: । ॐ वैष्णव्यै नम: । ॐ ब्राह्मयै नम: । ॐ ब्रह्मज्ञानैकसाधनायै नम: । ॐ सौदामिन्यै नम: । ॐ सुधामूर्त्यै नम: । ६० ॐ सुभद्रायै नम: । ॐ सुरपूजितायै नम: । घज्ञ ॐ सुवासिन्यै नम: । ॐ सुनासायै नम: । ॐ विनिद्रायै नम: । ॐ पद्मलोचनायै नम: । ॐ विद्यारूपायै नम: । ॐ विशालाक्ष्यै नम: । ॐ ब्रह्मजायायै नम: । ॐ महाफलायै नम: । ७० ॐ त्रयीमूर्त्यै नम: । ॐ त्रिकालज्ञायै नम: । ॐ त्रिगुणायै नम: । ॐ शास्त्ररूपिण्यै नम: । ॐ शुम्भासुरप्रमथिन्यै नम: । ॐ शुभदायै नम: । ॐ स्वरात्मिकायै नम: । ॐ रक्तबीजनिहन्त्र्यै नम: । ॐ चामुण्डायै नम: । ॐ अम्बिकायै नम: । ८० ॐ मुण्डकायप्रहरणायै नम: । ॐ धूम्रलोचनमर्दनायै नम: । ॐ सर्वदेवस्तुतायै नम: । ॐ सौम्यायै नम: । घद्द ॐ सुरासुर नमस्कृतायै नम: । ॐ कालरात्र्यै नम: । ॐ कलाधारायै नम: । ॐ रूपसौभाग्यदायिन्यै नम: । ॐ वाग्देव्यै नम: । ॐ वरारोहायै नम: । ९० ॐ वाराह्यै नम: । ॐ वारिजासनायै नम: । ॐ चित्राम्बरायै नम: । ॐ चित्रगन्धायै नम: । ॐ चित्रमाल्यविभूषितायै नम: । ॐ कान्तायै नम: । ॐ कामप्रदायै नम: । ॐ वन्द्यायै नम: । ॐ विद्याधरसुपूजितायै नम: । ॐ श्वेताननायै नम: । १०० ॐ नीलभुजायै नम: । ॐ चतुर्वर्गफलप्रदायै नम: । ॐ चतुरानन साम्राज्यायै नम: । ॐ रक्तमध्यायै नम: । ॐ निरञ्जनायै नम: । ॐ हंसासनायै नम: । घघ ॐ नीलजङ्घायै नम: । ॐ ब्रह्मविष्णुशिवान्मिकायै नम: । १०८ ॥
इति श्रीसरस्वत्यष्टोत्तरशतनामावलि: समाप्ता ॥