ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

..  ಪ್ರಾರ್ಥನಾಪಂಚಕಂ ..

॥  प्रार्थनापञ्चकम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 2
23px

यतीश्वर! शृण श्रीमन ! कपया परया तव। मम विज्ञापनमिदं विलोक्य वरदं गुरुम्॥ १ ॥

अनादिपापरचिताम् अन्तःकरणनिष्ठिताम्। यतीन्द्रविषये सान्द्रां विनिर्वासय वासनाम्॥ २ ॥

अपि प्रार्थयमानानां पुत्रक्षेत्रादिसम्पदाम्। कुरु वैराग्यमेवात्र हितकारिन् यतीन्द्र ! नः॥ ३  ॥

यथाऽपराधा न स्युर्मे भक्तेषु भगवत्यपि। तथा लक्ष्मणयोगीन्द्र! यावद्देहं प्रवर्तय॥ ४ ॥

आमोक्ष लक्ष्मणार्य! त्वत्प्रबन्धपरिशीलनैः। कालक्षेपोऽस्तु नस्सद्भिः सहवासमुपेयुषाम्॥५ ॥

इत्येतत् सादरं विद्वान् प्रार्थनापञ्चकं पठन्। प्राप्नुयात् परमां भक्तिं यतिराजपदाब्जयोः॥ ६ ॥

॥ इति  प्रार्थनापञ्चकम्॥

ಜಪ ಎಣಿಕೆ: 0/108