ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
Others Namawali
ಸನಾತನ ದೇವ

ಶ್ರೀವಲ್ಲಭಮಹಾಗಣಪತಿತ್ರಿಶತೀನಾಮಾವಲಿಃ 

श्रीवल्लभमहागणपतित्रिशतीनामावलिः 
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 3
23px
श्रीगणेशाय नमः । श्रीवल्लभमहागणपतिप्रीत्यर्थं श्रीमहागणपतिप्रसादसिद्ध्यर्थं श्रीमहागणपतिमहामन्त्रजपं करिष्ये ॥ अस्य श्रीमहागणपतिमहामन्त्रस्य गणकऋषिः गायत्री छन्दः श्रीमहागणपतिर्देवता । गां बीजम्, गीं शक्तिः, गूं कीलकम्, श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः

गां अङ्गुष्ठाभ्यां नमः । गीं तर्जनीभ्यां नमः । गूं मध्यमाभ्यां नमः । गैं अनामिकाभ्यां नमः । गौं कनिष्टिकाभ्यां नमः । गः करतलकरपृष्ठाभ्यां नमः । गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् । गैं कवचाय हूम् । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट् । भूर्भुवसुवरों इति दिग्बन्धः ।

॥ ध्यानम् ॥ बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल । व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ॥ ध्येयो वल्लभया सपद्यकरयाऽऽश्लिष्टोज्ज्वलद्भूषया । विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नो विशिष्टार्थदः ॥ मूषिकवाहन मोदकहस्त, चामरकर्ण विलम्बितसूत्र । वामनरूप महेश्वरपुत्र, विघ्नविनायक पाद नमस्ते ॥ ॥ मानसपूजा ॥ लं पृथिव्यात्मकं गन्धं श्रीवल्लभमहागणपतये समर्पयामि नमः । हं आकाशात्मकं पुष्पं श्रीवल्लभमहागणपतये समर्पयामि नमः । यं वाय्वात्मकं धूपं श्रीवल्लभमहागणपतये घ्रापयामि नमः । रं वह्नयात्मकं दीपं श्रीवल्लभमहागणपतये दर्शयामि नमः । वं अमृतात्मकं नैवेद्यं श्रीवल्लभमहागणपतये निवेदयामि नमः । सं सर्वात्मकं ताम्बूलं श्रीवल्लभमहागणपतये समर्पयामि नमः । ॥ अथ त्रिशती नामावलिः ॥

ॐ ॐकारगणपतये नमः । ॐ ॐकारप्रणवरूपाय नमः । ॐ ॐकारमूर्तये नमः । ॐ ॐकाराय नमः । ॐ ॐकारमन्त्राय नमः । ॐ ॐकारबिन्दुरूपाय नमः । ॐ ॐकाररूपाय नमः । ॐ ॐकारनादाय नमः । ॐ ॐकारमयाय नमः । ॐ ॐकारमूलाधारवासाय नमः ॥ १०॥

ॐ श्रीङ्कारगणपतये नमः । ॐ श्रीङ्कारवल्लभाय नमः । ॐ श्रीङ्काराय नमः । ॐ श्रीं लक्ष्म्यै नमः । ॐ श्रीं महागणेशाय नमः । ॐ श्रीं वल्लभाय नमः । ॐ श्रीगणेशाय नमः । ॐ श्रीं वीरगणेशाय नमः । ॐ श्रीं वीरलक्ष्म्यै नमः । ॐ श्रीं धैर्यगणेशाय नमः ॥ २०॥

ॐ श्रीं वीरपुरेन्द्राय नमः । ॐ ह्रीङ्कारगणेशाय नमः । ॐ ह्रीङ्कारमयाय नमः । ॐ ह्रीङ्कारसिंहाय नमः । ॐ ह्रीङ्कारबालाय नमः । ॐ ह्रीङ्कारपीठाय नमः । ॐ ह्रीङ्काररूपाय नमः । ॐ ह्रीङ्कारवर्णाय नमः । ॐ ह्रीङ्कारकलाय नमः । ॐ ह्रीङ्कारलयाय नमः ॥ ३०॥

ॐ ह्रीङ्कारवरदाय नमः । ॐ ह्रीङ्कारफलदाय नमः । ॐ क्लीङ्कारगणेशाय नमः । ॐ क्लीङ्कारमन्मथाय नमः । ॐ क्लीङ्काराय नमः । ॐ क्लीं मूलाधाराय नमः । ॐ क्लीं वासाय नमः । ॐ क्लीङ्कारमोहनाय नमः । ॐ क्लीङ्कारोन्नतरूपाय नमः । ॐ क्लीङ्कारवश्याय नमः ॥ ४०॥

ॐ क्लीङ्कारनाथाय नमः । ॐ क्लीङ्कारहेरम्बाय नमः । ॐ क्लीङ्काररूपाय नमः । ॐ ग्लौं गणपतये नमः । ॐ ग्लौङ्कारबीजाय नमः । ॐ ग्लौङ्काराक्षराय नमः । ॐ ग्लौङ्कारबिन्दुमध्यगाय नमः । ॐ ग्लौङ्कारवासाय नमः । ॐ गं गणपतये नमः । ॐ गं गणनाथाय नमः ॥ ५०॥

ॐ गं गणाधिपाय नमः । ॐ गं गणाध्यक्षाय नमः । ॐ गं गणाय नमः । ॐ गं गगनाय नमः । ॐ गं गङ्गाय नमः । ॐ गं गमनाय नमः । ॐ गं गानविद्याप्रदाय नमः । ॐ गं घण्टानादप्रियाय नमः । ॐ गं गकाराय नमः । ॐ गं वाहाय नमः ॥ ६०॥

ॐ गणपतये नमः । ॐ गजमुखाय नमः । ॐ गजहस्ताय नमः । ॐ गजरूपाय नमः । ॐ गजारूढाय नमः । ॐ गजाय नमः । ॐ गणेश्वराय नमः । ॐ गन्धहस्ताय नमः । ॐ गर्जिताय नमः । ॐ गताय नमः ॥ ७०॥

ॐ णकारगणपतये नमः । ॐ णलाय नमः । ॐ णलिङ्गाय नमः । ॐ णलप्रियाय नमः । ॐ णलेशाय नमः । ॐ णलकोमलाय नमः । ॐ णकरीशाय नमः । ॐ णकरिकाय नमः । ॐ णणणङ्काय नमः । ॐ णणीशाय नमः ॥ ८०॥

ॐ णणीणप्रियाय नमः । ॐ परब्रह्माय नमः । ॐ परहन्त्रे नमः । ॐ परमूर्तये नमः । ॐ पराय नमः । ॐ परमात्मने नमः । ॐ परानन्दाय नमः । ॐ परमेष्ठिने नमः । ॐ परात्पराय नमः । ॐ पद्माक्षाय नमः ॥ ९०॥

ॐ पद्मालयापतये नमः । ॐ पराक्रमिणे नमः । ॐ तत्त्वगणपतये नमः । ॐ तत्त्वगम्याय नमः । ॐ तर्कवेत्रे नमः । ॐ तत्त्वविदे नमः । ॐ तत्त्वरहिताय नमः । ॐ तमोहिताय नमः । ॐ तत्त्वज्ञानाय नमः । ॐ तरुणाय नमः ॥ १००॥

ॐ तरणिभृङ्गाय नमः । ॐ तरणिप्रभाय नमः । ॐ यज्ञगणपतये नमः । ॐ यज्ञकाय नमः । ॐ यशस्विने नमः । ॐ यज्ञकृते नमः । ॐ यज्ञाय नमः । ॐ यमभीतिनिवर्तकाय नमः । ॐ यमहृतये नमः । ॐ यज्ञफलप्रदाय नमः ॥ ११०॥

ॐ यमाधाराय नमः । ॐ यमप्रदाय नमः । ॐ यथेष्टवरप्रदाय नमः । ॐ वरगणपतये नमः । ॐ वरदाय नमः । ॐ वसुधापतये नमः । ॐ वज्रोद्भवभयसंहर्त्रे नमः । ॐ वल्लभारमणीशाय नमः । ॐ वक्षस्थलमणिभ्राजिने नमः । ॐ वज्रधारिणे नमः ॥ १२०॥

ॐ वश्याय नमः । ॐ वकाररूपाय नमः । ॐ वशिने नमः । ॐ वरप्रदाय नमः । ॐ रजगणपतये नमः । ॐ रजकराय नमः । ॐ रमानाथाय नमः । ॐ रत्नाभरणभूषिताय नमः । ॐ रहस्यज्ञाय नमः । ॐ रसाधाराय नमः ॥ १३०॥

ॐ रथस्थाय नमः । ॐ रथावासाय नमः । ॐ रञ्जितप्रदाय नमः । ॐ रविकोटिप्रकाशाय नमः । ॐ रम्याय नमः । ॐ वरदवल्लभाय नमः । ॐ वकाराय नमः । ॐ वरुणप्रियाय नमः । ॐ वज्रधराय नमः । ॐ वरदवरदाय नमः ॥ १४०॥

ॐ वन्दिताय नमः । ॐ वश्यकराय नमः । ॐ वदनप्रियाय नमः । ॐ वसवे नमः । ॐ वसुप्रियाय नमः । ॐ वरदप्रियाय नमः । ॐ रविगणपतये नमः । ॐ रत्नकिरीटाय नमः । ॐ रत्नमोहनाय नमः । ॐ रत्नभूषणाय नमः ॥ १५०॥

ॐ रत्नकारकाय नमः । ॐ रत्नमन्त्रपाय नमः । ॐ रसाचलाय नमः । ॐ रसातलाय नमः । ॐ रत्नकङ्कणाय नमः । ॐ रवोधीशाय नमः । ॐ रवापानाय नमः । ॐ रत्नासनाय नमः । ॐ दकाररूपाय नमः । ॐ दमनाय नमः ॥ १६०॥ ॥

ॐ दण्डकारिणे नमः । ॐ दयाधनिकाय नमः । ॐ दैत्यगमनाय नमः । ॐ दयावहाय नमः । ॐ दक्षध्वंसनकराय नमः । ॐ दक्षाय नमः । ॐ दतकाय नमः । ॐ दमोजघ्नाय नमः । ॐ सर्ववश्यगणपतये नमः ॥ १७०॥

ॐ सर्वात्मने नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वसौख्यप्रदायिने नमः । ॐ सर्वदुःखघ्ने नमः । ॐ सर्वरोगहृते नमः । ॐ सर्वजनप्रियाय नमः । ॐ सर्वशास्त्रकलापधराय नमः । ॐ सर्वदुःखविनाशकाय नमः । ॐ सर्वदुष्टप्रशमनाय नमः । ॐ जयगणपतये नमः ॥ १८०॥

ॐ जनार्दनाय नमः । ॐ जपाराध्याय नमः । ॐ जगन्मान्याय नमः । ॐ जयावहाय नमः । ॐ जनपालाय नपः ॐ जगत्सृष्टये नमः । ॐ जप्याय नमः । ॐ जनलोचनाय नमः । ॐ जगतीपालाय नमः । ॐ जयन्ताय नमः ॥ १९०॥

ॐ नटनगणपतये नमः । ॐ नद्याय नमः । ॐ नदीशगम्भीराय नमः । ॐ नतभूदेवाय नमः । ॐ नष्टद्रव्यप्रदायकाय नमः । ॐ नयज्ञाय नमः । ॐ नमितारये नमः । ॐ नन्दाय नमः । ॐ नटविद्याविशारदाय नमः । ॐ नवत्यानां सन्त्रात्रे नमः ॥ २००॥

ॐ नवाम्बरविधारणाय नमः । ॐ मेघडम्बरगणपतये नमः । ॐ मेघवाहनाय नमः । ॐ मेरुवासाय नमः । ॐ मेरुनिलयाय नमः । ॐ मेघवर्णाय नमः । ॐ मेघनादाय नमः । ॐ मेघडम्बराय नमः । ॐ मेघगर्जिताय नमः । ॐ मेघरूपाय नमः ॥ २१०॥

ॐ मेघघोषाय नमः । ॐ मेघवाहनाय नमः । ॐ वश्यगणपतये नमः । ॐ वज्रेश्वराय नमः । ॐ वरप्रदाय नमः । ॐ वज्रदन्ताय नमः । ॐ वश्यप्रदाय नमः । ॐ वश्याय नमः । ॐ वशिने नमः । ॐ वटुकेशाय नमः ॥ २२०॥

ॐ वराभयाय नमः । ॐ वसुमते नमः । ॐ वटवे नमः । ॐ शरगणपतये नमः । ॐ शर्मधाम्ने नमः । ॐ शरणाय नमः । ॐ शर्मवद्वसुघनाय नमः । ॐ शरधराय नमः । ॐ शशिधराय नमः । ॐ शतक्रतुवरप्रदाय नमः ॥ २३०॥ ॥

ॐ शतानन्दादिसेव्याय नमः । ॐ शमितदेवाय नमः । ॐ शराय नमः । ॐ शशिनाथाय नमः । ॐ महाभयविनाशनाय नमः । ॐ महेश्वरप्रियाय नमः । ॐ मत्तदण्डकराय नमः । ॐ महाकीर्तये नमः । ॐ महाभुजाय नमः । ॐ महोन्नतये नमः ॥ २४०॥

ॐ महोत्साहाय नमः । ॐ महामायाय नमः । ॐ महामदाय नमः । ॐ महाकोपाय नमः । ॐ नागगणपतये नमः । ॐ नागाधीशाय नमः । ॐ नायकाय नमः । ॐ नाशितारातये नमः । ॐ नामस्मरणपापघ्ने नमः । ॐ नाथाय नमः ॥ २५०॥ ॥

ॐ नाभिपदार्थपद्मभुवे नमः । ॐ नागराजवल्लभप्रियाय नमः । ॐ नाट्यविद्याविशारदाय नमः । ॐ नाट्यप्रियाय नमः । ॐ नाट्यनाथाय नमः । ॐ यवनगणपतये नमः । ॐ यमनिषूदनाय नमः । ॐ यमविजिताय नमः । ॐ यज्वने नमः । ॐ यज्ञपतये नमः ॥ २६०॥

ॐ यज्ञनाशनाय नमः । ॐ यज्ञप्रियाय नमः । ॐ यज्ञवाहाय नमः । ॐ यज्ञाङ्गाय नमः । ॐ यज्ञसखाय नमः । ॐ यज्ञप्रियाय नमः । ॐ यज्ञरूपाय नमः । ॐ यज्ञवन्द्याय नमः । ॐ यतिरक्षकाय नमः । ॐ यतिपूजिताय नमः ॥ २७०॥

ॐ स्वामिगणपतये नमः । ॐ स्वर्णवरदाय नमः । ॐ स्वर्णकर्षणाय नमः । ॐ स्वाश्रयाय नमः । ॐ स्वस्तिकृते नमः । ॐ स्वस्तिकाय नमः । ॐ स्वर्णकक्षाय नमः । ॐ स्वर्णताटङ्कभूषणाय नमः । ॐ स्वाहासभाजिताय नमः । ॐ स्वरशास्त्रस्वरूपकृते नमः ॥ २८०॥

ॐ हादिविद्याय नमः । ॐ हादिरूपाय नमः । ॐ हरिहरप्रियाय नमः । ॐ हरण्यादिपतये नमः । ॐ हाहाहूहूगणपतये नमः । ॐ हरिगणपतये नमः । ॐ हाटकप्रियाय नमः । ॐ हतगजाधिपाय नमः । ॐ हयाश्रयाय नमः । ॐ हंसप्रियाय नमः ॥ २९०॥

ॐ हंसाय नमः । ॐ हंसपूजिताय नमः । ॐ हनुमत्सेविताय नमः । ॐ हकाररूपाय नमः । ॐ हरिस्तुताय नमः । ॐ हराङ्कवास्तव्याय नमः । ॐ हरिनीलप्रभाय नमः । ॐ हरिद्राबिम्बपूजिताय नमः । ॐ हरिहयमुखदेवता सर्वेष्टसिद्धिदाय नमः । ॐ मूलमन्त्रगणपतये नमः ॥ ३००॥

इति श्रीवल्लभमहागणपतित्रिशतीनामावलिः
ಜಪ ಎಣಿಕೆ: 0/108