सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीविष्णो: षोडशनामस्तोत्रम्

stotra-e139e327
रचयिता: पारंपरिक पाठ संख्या: 1
23px

औषधे चिंतयेद् विष्णुं भोजने च प्रजापतिम्। शयने पद्मनाभं च विवाहे च प्रजापतिम्।।

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम्। नारायणं तनुत्यागे श्रीधरं प्रियसंगमे।।

दुस्स्वप्ने स्मर गोविंदं संकटे-मधुसूदनम्। कानने नारसिंहं च पावके जलशायिनम्।।

जलमध्ये वराहं च पर्वते रघुनंदनम्। गमने वामनं चैव सर्वकालेषु माधवम्।।

षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्। सर्वपापविनिर्मुक्तो विष्णुलोके महीयते।।

पाठ जप: 0/108