॥ अच्युताष्टकम् ॥
॥ अच्युताष्टकम् ॥
अच्युतं केशवं राम-नारायणम् कृष्ण-दामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभम् जानकीनायकं रामचन्द्रं भजे॥१॥
अच्युतं केशवं सत्यभामाधवम् माधवं श्रीधरं राधिकाराधितम्। इन्दिरा मन्दिरं चेतसा सुन्दरम् देवकीनन्दनं नन्दनं सन्दधे॥२॥
विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणी-रागिने जानकी-जानये। वल्लवी-वल्लभायाऽर्चितायात्मने कंस-विध्वंसिने वंशिने ते नमः॥३॥
कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवार्जित-श्रीनिधे। अच्युतानन्त हे माधवाधोक्षज द्वारका-नायक द्रौपदी-रक्षक॥४॥
राक्षसक्षोभितः सीतया शोभितो दण्डकारण्य-भू-पुण्यता-कारणः। लक्ष्मणेनान्वितो वानरैः सेवितो- ऽगस्त्सम्पूजितो राघवः पातु माम्॥५॥
धेनुकारिष्टकोऽनिष्टकृद्-द्वेषिणाम् केशिहा कंसहृद्-वंशिकावादकः। पूतनाकोपकः सूरजा-खेलनो बाल-गोपालकः पातु मां सर्वदा॥६॥
विद्युदाद्योतवान् प्रस्फुरद्वाससम् प्रावृडम्भोदवत् प्रोल्लसद्विग्रहम्। वन्यया मालया शोभितोरस्थलम् लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे॥७॥
कुञ्चितैः कुन्तलैर्भ्राजिमानाननम् रत्नमौलिं लसत् कुण्डलं गण्डयोः। हारकेयूरकं कङ्कण-प्रोज्ज्वलम् किङ्किणी-मञ्जुलं श्यामलं तं भजे॥८॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं अच्युताष्टकम्सम्पूर्णम्॥