सनातन स्तोत्र संग्रह
Parabrahma
सनातन देव

॥ परब्रह्मप्रातः स्मरणस्तोत्रम् ॥

stotra-e05f148d
रचयिता: पारंपरिक पाठ संख्या: 1
23px

॥ परब्रह्मप्रातः स्मरणस्तोत्रम् ॥

प्रातः स्मरामि हृदि संस्फुरदात्मतत्वम् सच्चित् सुखं परमहंसगतिं तुरीयम्। यत् स्वप्नजागरसुषुप्तिमवैति नित्यम् तत् ब्रह्म निष्कलमहं न च भूतसंधः॥१॥

प्रातर्भजामि मनसा वचसामगम्यम् वाचो विभान्ति निखिला यदनुग्रहेण। यं नेति नेति वचनैर्निगमा अवोचं स्तं देवदेवमजमच्युतमाहुरग्र्यम्॥२॥

प्रातर्नमामि तमसः परमर्कवर्णम् पूर्णं सनातनपदं पुरूषोत्तमाख्यम्। यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजंगम इव प्रतिमासितं वै॥३॥

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम्। प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम्॥४॥

॥ इति परब्रह्मप्रातः स्मरणस्तोत्रम् ॥

पाठ जप: 0/108