ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಚಿನ್ನಶ್ರೀಮನ್ನಾರಾಯಣರಾಮಾನುಜಜೀಯರಸ್ವಾಮಿನಾಂ ಅಷ್ಟೋತ್ತರಶತನಾಮಸ್ತೋತ್ರಂ

चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनां अष्टोत्तरशतनामस्तोत्रम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 3
23px

चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनां अष्टोत्तरशतनामस्तोत्रम्

श्रीमद्वालयतिः ज्ञानी विश्वविख्यात वैभवः । वेदांतद्वयविज्ञाता काश्यपान्वयसंभवः ॥ श्रीमन्नारायणाचार्ययतीश्वरपदाश्रितः । गोपालाचार्यसान्निध्यलब्धविद्यामहानिधिः ॥ जीयर्शैक्षिकसंस्थानस्थापको वेदरक्षकः । भगवच्छास्त्रसंत्राता छात्रकल्पतरुर्महान् ॥ सहस्रकुण्डसद्यागनिर्वाहकुशलो गुणी । श्रीरामानुजसिद्धान्तप्रचारैकरतस्सुधीः ॥ त्रव्यंतार्थप्रतिष्ठाता तत्त्वबोधनतत्परः । चतुर्वेदपरित्राता बहुग्रंथप्रमुद्रकः ॥ सर्वसंशयविच्छेत्ता स्मयमानमुखांबुजः । यावद्भारतसत्तीर्थपावनीकृतसत्पदः ॥ श्रीमदष्टाक्षरीक्षेत्र व्यवस्थापरिवर्धकः । वेदान्तद्वयसत्पीठनिर्वाहनिपुणः सुधीः ॥ श्रीमद्विष्णुसहस्राख्यनामवैभवबोधकः । मंदसास्थानमहिमोद्धारकः सफलाशयः ॥ श्रीमद्भक्तिनिवेदाख्यपत्रिकाधिपतिर्गुरुः । गीताभाष्यादिसद्ग्रन्थनिगूढार्थोपदेशकः । । रामायणरहर्यार्थप्रबोधनपरायणः । वदान्यो मधुरालापो विनयादिविभूषितः ॥ शास्त्रज्ञः सत्यसङ्कल्पः सारासारविचक्षणः । विशिष्टाद्वैतसिद्धान्तप्रख्यापनधुरंधरः ॥ स्वाचार्यपादुकासेवानिरतो विपुलाशयः । श्रीसीतारामपादाब्जनित्याराधनसद्व्रतः ॥ शुभ्रोर्ध्वपुण्ड्रविलसल्ललाटो मधुरस्वरः । दिव्यसूरिप्रबन्धार्थव्याख्याता विजयी बुधः ॥ सर्ववैदिकसिद्धान्तसारांशग्रहणक्षमः । धाराप्रवाहवेदान्तशास्त्रज्ञानप्रबोधकः ॥ पादयात्राप्रचारी च वेदयात्राविधायकः । श्रीमन्मानसरोयात्रा निर्वाहनिपुणः स्थिरः ॥ जीवासंस्थाप्रतिष्ठाता वैद्यविद्याप्रवर्धकः । श्रीमज्जीयपुरस्कारप्रतिष्ठाता गुणालयः ॥ गोपालोपायनाभिख्यपुरस्कारप्रवर्तकः । वेदवेदान्तशास्त्रज्ञसम्मानैकपरायणः । । बाह्यदृष्टिविहीनानामुच्चविद्याप्रदायकः । देशांतरसुविख्यात भगवद्भक्तिगौरवः ॥ प्रज्ञापुस्तकनिर्माणप्रबोधितसुसंस्कृतिः । दिव्यसाकेतनिर्माता सत्समाजप्रवर्धकः ॥ जीयर्शताब्दिसंदर्भकृतभूरिमहोत्सवः । बहुभाषाविशेषज्ञः स्वाचार्यादृतमार्गगः ॥ नाथयामुनसिद्धान्तपरित्राणपरायणः । श्रीमुक्तिनाथसत्क्षेत्रयात्रा- पावितसज्जनः ॥ यादाद्रियदुगिर्यादितदीयाराधनोद्यतः । भूकंपादिमहादुःखमग्नानामवलंबकः ॥ विशालहृहयो धीमान् ज्ञानभक्त्यभिवर्षुकः । श्रीमद्गोधनसंत्राता गोसंवर्धनतत्परः॥ पूर्वाचार्यमहाग्रन्थरहस्योद्घाटनक्षमः । सच्छात्रनिलयो विद्वान् विद्यादानपरायणः ॥ प्रसन्नवदनो दान्तः सर्वभूतदयापरः । नदीपुष्करसंदर्भब्रह्मयज्ञविधायकः ॥ बहुशिष्यविनिर्माता बहुदेशप्रचारवान् । स्वाचार्यपरमाचार्यसद्वैभवप्रकाशकः ॥ रामानुज सहस्राब्दीमहोत्सवप्रवर्धकः । समतामूर्तिसंस्फूर्तिकेंद्रनिर्माणतत्परः॥ अंताराष्ट्रियसद्भक्तसंसेवितपदांबुजः । सौलभ्यगुणसंपन्नः सौशील्यगुणशेवधिः ॥ इतिहासपुराणादिव्याख्याग्रन्थसुमुद्रकः । मितभाषी मधुरवाक् वेदवाङ्मयरक्षकः ॥ मन्त्रमन्त्रार्थदो मान्यो माधवाङ्घ्रिसमाश्रितः । तुलास्वात्यवतीर्णोऽथ दीपावलिप्रभान्वितः॥ श्रीमद्विजयकीलाद्रिमंदिरस्थापकोत्तमः । रंगधामप्रतिष्ठाता बहुविद्यालयाधिपः ॥ श्रीजीयर्मठनिर्माता जगबंधुर्जयावहः । कृष्णमाचार्यवर्येण समर्पितमिदं मुदा । अष्टोत्तरशतं नाम्नां यतीश्वरपदाब्जयोः ॥ तुलास्वात्यवतीर्णाय विश्वविख्यातकीर्तये । श्रीमन्नारायणाभिख्ययतिराजाय मंगलम् ॥

 

चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनां अष्टोत्तरशतनामस्तोत्रम्

मंगलशासनम्

विशिष्टाद्वैताख्यं सकलगुरुभिः स्थापितमतं, वितन्वानो नित्यं विपुलतमभूमौ गुरुवरः । त्रयीणां संत्राता रघुपतिपदन्यस्तहृदयः चिरं जीयात् विद्वान् यतिपतिरसौ विश्वविजयी ॥

विद्यावेत्ता विमलहृदयो, विश्वविख्यातकीर्तिः आम्नायानामनघकवचः, छात्ररक्षाप्रवीणः । श्रीमद्रामानुजमुनिमतस्थापको दीर्घदर्शी, श्रीमन्नारायणयतिपतिः दीर्घकालं सुजीयात् ॥

जयतु जयतु नित्यं वेदविद्याप्रदीपः जयतु जयतु नित्यं वैष्णवेष्वग्रगण्यः । जयतु जयतु नित्यं मानमेयैकवेत्ता, जयतु जयतु नित्यं चिन्नजीयर् महीयान् ॥

स्वस्त्यस्तु ते गुरुवराय गुणार्णवाय सन्मंगलं भवतु त्वत्कमनीयकीर्त्यै । नारायणार्ययतिशेखर ते नमः स्तात् स्वाती सदा सकलमंगलदाऽस्तु तारा ॥

श्रीमत्काश्यपवंशभूषणमणिः कारुण्यवारान्निधिः विश्वत्राणपरायणो गुणनिधिः सच्छात्रसेव्यस्स्दा श्रीरामानुजकीर्तिव्याप्तिकरणे दत्तावधानो भृशं षष्ट्यब्दीं परिपूरयन् विजयते नारायणार्यो यतिः ॥

प्रज्ञाभूमिर्महिष्ठः सुविपुलमहिमा, रक्षिता वाङ्मयस्य संस्कर्ता मानवानां, रघुपतिविजयख्यापने बद्धदीक्षः । द्रष्टा लक्ष्यस्य नित्यं, सुमधुरवचसां सर्जकः शास्त्रवेत्ता, श्रीमन्नारायणाख्यो जयतु यतिपतिः दीर्घकालं दयालुः ॥

॥ स्वस्ति ॥

ಜಪ ಎಣಿಕೆ: 0/108