ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
Aadi Shankaracharya
ಸನಾತನ ದೇವ

.. ನರ್ಮದಾಷ್ಟಕಂ ..

॥ नर्मदाष्टकम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 4
23px

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं द्विषत्सु पापजातजातकादिवारिसंयुतम्। कृतान्तदूतकालभूतभीतिहारिवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥१॥

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं कलौ मलौघभारहारिसर्वतीर्थनायकम्। सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥२॥

महागभीरनीरपूरपापधूतभूतलं ध्वनत्समस्तपातकारिदारितापदाछलम्। जगल्लये महाभये मृकण्डुसूनुहर्म्यदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥३॥

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा मृकण्डुसूनुशौनकासुरारिसेवितं सदा। पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥४॥

अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं सुलक्षनीरतीरधीरपक्षिलक्षकूजितम्। वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥५॥

सनत्कुमारनाचिकेतकश्यपात्रिषत्पदैः धृतं स्वकीयमानसेषु नारदादिषत्पदैः। रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥६॥

अलक्षलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम्। विरिञ्चिविष्णुशङ्करस्वकीयधामवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥७॥

अहो धृतं स्वनं श्रुतं महेशिकेशजातटे किरातसूतबाडबेषु पण्डिते शठे नटे। दुरन्तपापतापहारिसर्वजन्तुशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥८॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा। सुलभ्यदेहदुर्लभं महेशधामगौरवं पुनर्भवा नरा न वै विलोकयन्ति रौरवम्॥९॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीनर्मदाष्टकम् सम्पूर्णम् ॥

ಜಪ ಎಣಿಕೆ: 0/108