సనాతన స్తోత్ర నిధి
Vishnu Aayudha Stotram
సనాతన దేవ

.. పంచాయుధస్తోత్రం ..

॥ पञ्चायुधस्तोत्रम् ॥
రచయిత: పారంపరిక వీక్షణలు: 4
లిపిని ఎంచుకోండి: देवनागरी (संस्कृत)
23px

पञ्चायुधस्तोत्रम् 

स्फुरत्सुहस्रार शिखातितीव्रं  सुदर्शनं भास्करकोटितुल्यम्। सुरद्विषां प्राणविनाशि विष्णोश्चक्रं सदाऽहं शरणं प्रपद्ये ॥ १ ॥

विष्णोर्मुखोत्थानिल पूरितस्य यस्य ध्वनिर्दानव दर्पहन्ता । तं पाञ्चजन्यं शशिकोटि शुभ्रं शङ्खं  सदाऽहं शरणं प्रपद्ये ॥ २ ॥

हिरण्मयीं मेरुसमानसारां कौमोदकी दैत्यकुलैकहंत्रीम्। वैकुंठ वामाग्र कराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥

रक्षोऽसुराणां कठिनोग्र कण्ठछेदक्षरच्छोणितदिग्धधारम्। तं  नंदकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥

यज्ज्यानिनाद श्रवणात्सुराणां चेतांसि निर्मुक्त भयानि सद्यः। भवन्ति दैत्याशनि बाणवर्षि शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥

इमं हरे पञ्चमहायुधानां स्तवं पठेत् योऽनुदिनं प्रभाते। समस्त दुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥

वने रणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु । इदं पठन् स्तोत्र मनाकुलात्मा सुखी भवेत्तत्कृतसर्वरक्षः॥ ७ ॥

सशंखचक्रं सगदाऽसि शार्ङ्गं पीतांबरं कौस्तुभवत्स चिह्नम्। श्रिया समेतोज्ज्वलशोभिताङ्गं विष्णुं सदाऽहं शरणं प्रपद्ये ॥ ८ ॥

जले रक्षतु वाराहः स्थले रक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः॥ ९ ॥

॥ इति पञ्चायुधस्तोत्रम् ॥

జప గణన: 0/108