সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শিবরহস্যান্তর্গতে বাণপ্রোক্তং গাণপত্যত্ববর্ণনম্ 

शिवरहस्यान्तर्गते बाणप्रोक्तं गाणपत्यत्ववर्णनम् 
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px

 गाणपत्यत्वप्राप्तिवर्णनम्

बाणः भक्तिं त्वदीयजनसङ्गममेव शम्भो लिङ्गार्चनं च सुभगं तव बाणलिङ्गे । सम्प्रार्थयामि भगवंस्तव भक्तिभावं वाञ्छा न मे भवति तुच्छभवादिधर्मे ॥ १॥ किं यागैरतितुतुच्छभोगफलदैः स्वर्गादिपातान्तकैः किं गोभिर्धनन्यान्यरत्ननिकरैर्हैमैश्च पात्रार्पणैः । शम्भो नार्मदलिङ्गमस्तकगमं बिल्वीदलैः कोमलैः सम्पूज्य प्रमथाधिनाथपदवीं प्राप्नोति भाग्यैर्युतः ॥ २॥ नीरैर्नार्मदजैः सुशोभितमहाकर्पूरखण्डद्रवैः संसेव्यालोक्य हृष्टो भवदभयपदं प्राप्तुमिच्छामि शम्भो । गाणापत्यं ममास्तु प्रियममरवरैर्दुर्लभं त्वत्पदाब्जे भक्तिर्भक्तैः सहास्तु प्रतिदिवसमहो सङ्गमश्चाघहारी ॥ ३॥ सद्यो नार्मदलिङ्गमण्डलमिदं बाणाख्यतां प्राप्नुया- देवं देयो वरो मे प्रथयितुमखिलं लोकमद्य प्रसीद ॥ ४॥ ईश्वरः - तस्योदारवचो निशम्य गिरिजे दत्तो वरो मे कृतो गाणापत्यपदे स दैत्यतनयः शक्रादिगर्वापहः । सर्वं भक्तजनार्पणाय सततं चित्तं मदीयं शिवे सद्भक्तो भुवि दुर्लभः सुखकरः श्रीबाणलिङ्गार्चकः ॥ ५॥ ॥ इति शिवरहस्यान्तर्गते बाणप्रोक्तं गाणपत्यत्ववर्णनम्  ॥
পাঠ জপ: 0/108