சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீத³ஶாவதாரஸ்தோத்ரம்

श्रीदशावतारस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 3
23px

 देवो नश्शुभमातनोतु दशधा निर्वर्तयन् भूमिकां रंगे धामनि लब्ध निर्भर रसै रध्यक्षितो भावुकैः। यद्भावेषु पृथग्विधेष्वनुगुणान् भावान्स्वयं बिभ्रती यद्धमैरिह धर्मिणी विहरते नानाकृति नायिका।।1

श्रीमत्स्यावतार: केतुः निर्मग्न श्रुतिजालमार्गण दशादत्तक्षणैर्वीक्षणैः अंतस्तन्वदिवारविंदगहनान्यौदन्वतीनामपाम्। निष्प्रत्यूहतरंगरिंखणमिथःप्रत्यूढपाथश्छटा डोलारोह सदोहळं भगवतो मात्स्यं वपुः पातु नः।।

श्रीकृर्मावतारः अव्यासुर्भुवन त्रयीमनिभृतं कंडूयनै रद्रिणा निद्राणस्य परस्य कूर्म वपुषो नि:श्वास वातोर्मयः । यद्विक्षेपण संस्कृतोदधि पयः पंखोळ पर्यंकिका नित्यारोहण निर्वृतो विहरते देवस्सहैव श्रिया।।

श्रीवराहावतार: गोपायेदनिशं जगंति कुहनापोत्री पवित्रीकृत ब्रह्मांडः प्रळयोर्मि घोषगुरुभिर्घोणारवैधुंधुरैः। यदंष्ट्रांकुर कोटि गाढ घटनानिष्कंपनित्यस्थितिः ब्रह्म स्तंभ मसौदसौ भगवतीमुस्तेव विश्वंभरा।।

श्रीनृसिंहावतारः प्रत्यादिष्ट पुरातन प्रहरण ग्रामः क्षणं पाणिजैः अव्यात् त्रीणि जगंत्यकुंठ महिमा वैकुंठकंठीरवः। यत्प्रादुर्भवनादवंध्य जठरा यादृच्छिकाद्वेधसां या काचि त्सहसा महासुर गृहस्थूणा पितामह्यभूत्।।

श्रीवामनावतार: व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभट स्वैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः। यत्प्रस्तावसमुच्छ्रित ध्वजपटी वृत्तांत सिद्धांतिभिः स्रोतोभिस्सुरसिंधुरष्टसु दिशासौधेषु दोधूयते।।

श्री परसुरामावतार क्रोधाग्नि जमदग्निपीडनुभवं संतर्पयिष्यन् क्रमाद् अक्षत्रामिह संतत क्षय इमां त्रिरसप्तकृत्वः क्षितिम्।। दत्वा कर्मणि दक्षिणां क्वचन तामास्कंद्य सिंधुं वसन् अब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः।।

श्रीरामावतार: पारावारपयो विशोषणकलापारीणकालानल- ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः। सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती धर्मो विग्रहवान् अधर्म विरतिं धन्वी स तन्वीत नः।।

श्रीबलरामावतार: फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रलंबादयः तालांकस्य तथा विधा विहृतयस्तन्वंतु भद्राणि नः। क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैः गुणैः आकौमारकमस्वदंत जगते कृष्णस्य ता: केळयः।।

श्रीकृष्णावतार: नाथायैव नमः पदं भवतु नः चित्रैः चरित्रक्रमैः भूयोभिभुवनान्यमूनि कुहनागोपाय गोपायते। कालिंदीरसिकाय काळियफणिस्फारस्फुटावाटिका रंगोत्संगविशंकचंक्रम धुरापर्याय चर्यायते।।

श्रीकल्क्यावतार: भाविन्या दशया भवनिह भवध्वंसाय नः कल्पतां कल्की विष्णुयशस्सुतः कलिकथाकालुष्य कूलंकषः। निश्शेष क्षत कंटके क्षितितले धाराजलौघैः ध्रुवं धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधर।।

इच्छामीन! विहार कच्छप! महोपोविन्! यदृच्छाहरे! रक्षावामन! रोषराम! करुणाकाकुत्स्थ! हेलाहलिन्। क्रीडावल्लव लल्क वाहनदशा कल्किन्निति प्रत्यहं जल्पंतः पुरुषाः पुनंति भुवनं पुण्यौघ पण्यापणाः ।।

विद्योदन्वति वेंकटेश्वरकवौ जातं जगन्मंगळं देवेशस्य दशावतारविषयं स्तोत्रं विवक्षेत यः। वक्त्रे तस्य सरस्वती बहुमुखी भक्तिः परा मानसे शुद्धिः कापि तनौ दिशासु दशसु ख्यातिश्शुभा जृंभते।। १३

ஜப எண்ணிக்கை: 0/108