सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

योगशान्तिप्रदं गणाधीशस्तोत्रम्

stotra-d8067caa
रचयिता: पारंपरिक पाठ संख्या: 1
23px

योगशान्तिप्रदं गणाधीशस्तोत्रम्

श्रीगणेशाय नमः । कर्दम उवाच । केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते । तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ १॥ कपिल उवाच । गणेशभजनं मुख्यं शान्तियोगप्रदं मतम् । योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥ २॥ सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने । य आदिः प्रलयान्ते स तिष्ठति शास्त्रसंमतम् ॥ ३॥ ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् । गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥ ४॥ नानाजगत्स्वरूपं वैदेहरूपं कृतं मुने । नानाब्रह्ममयं तेन शिरः कृतं महात्मना ॥ ५॥ यस्माज्जातमिदं यत्र ह्यन्ते गच्छति महामते । तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥ ६॥ त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् । तयोर्योगे गणेशोऽयं देहमस्तकयोर्गतः ॥ ७॥ चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा । मोहरूपा महासिद्धिर्बुद्धिश्च मोहधारका ॥ ८॥ तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः । चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥ ९॥ पञ्चधा चित्तमुत्सृज्य तदैश्चर्यं तथैव च । योगः शान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥ १०॥ तस्मात्तं भज मन्त्रेणैकाक्षरेण महामुने । तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥ ११॥ इति मुद्गलपुराणान्तर्गतं श्रीगणाधीशस्तोत्रम्
पाठ जप: 0/108