শ্রীদুর্গা পঞ্জরস্তোত্রম্
श्रीदुर्गा पञ्जरस्तोत्रम्
विनियोग ॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः, छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः । ध्यानम् ॐ हेम प्रख्यामिन्दु खण्डात्तमौलिं शङ्खाभीष्टा भीति हस्तां त्रिनेत्राम् । हेमाब्जस्थां पीन वस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ।
अपराध शतं कृत्वा जगदम्बेति चोच्चरेत् । यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः । सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ॥ १॥
मार्कण्डेय उवाच दुर्गे दुर्गप्रदेशेषु दुर्वाररिपुमर्दिनी । मर्दयित्री रिपुश्रीणां रक्षां कुरु नमोऽस्तुते ॥ १॥
पथि देवालये दुर्गे अरण्ये पर्वते जले । सर्वत्रोऽपगते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ २॥
दुःस्वप्ने दर्शने घोरे घोरे निष्पन्न बन्धने । महोत्पाते च नरके दुर्गेरक्ष नमोऽस्तुते ॥ ३॥
व्याघ्रोरग वराहानि निर्हादिजन सङ्कटे । ब्रह्मा विष्णु स्तुते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ४॥
खेचरा मातरः सर्वं भूचराश्चा तिरोहिताः । ये त्वां समाश्रिता स्तांस्त्वं दुर्गे रक्ष नमोऽस्तुते ॥ ५॥
कंसासुर पुरे घोरे कृष्ण रक्षणकारिणी । रक्ष रक्ष सदा दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ६॥
अनिरुद्धस्य रुद्धस्य दुर्गे बाणपुरे पुरा । वरदे त्वं महाघोरे दुर्गे रक्ष नमोऽस्तुते ॥ ७॥
देव द्वारे नदी तीरे राजद्वारे च सङ्कटे । पर्वता रोहणे दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ८॥
दुर्गा पञ्जर मेतत्तु दुर्गा सार समाहितम् । पठनस्तारयेद् दुर्गा नात्र कार्या विचारण ॥ ९॥
रुद्रबाला महादेवी क्षमा च परमेश्वरी । अनन्ता विजया नित्या मातस्त्वमपराजिता ॥ १०॥
इति श्री मार्कण्डेयपुराणे देवीमहात्म्ये रुद्रयामले देव्याः पञ्जरस्तोत्रम् ।