सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीवासुदेवानन्दसरस्वतीविरचितं गणेशमाहात्म्यम्

stotra-d6b293fc
रचयिता: पारंपरिक पाठ संख्या: 1
23px

गणेशमाहात्म्यम्

पञ्चायतनमाहात्म्यानि निर्विघ्नार्थं हरीशाद्या देवा अपि भजन्ति यम् । मत्र्यैः स वक्रतुण्डोऽर्च्य इति गाणेशसम्मतम् ॥ १॥ जगत्सृष्ट्यादि हेतुः सा वरा श्रुत्युक्तदेवता । गणानां त्वेति मन्त्रेण स्तुता गृत्समदर्षिणा ॥ २॥ इत्युक्तं तत्पुराणेऽतो गणेशो ब्रह्मणस्पतिः । महाकविर्ज्येष्ठराजः श्रूयते मन्त्रकृच्च सः ॥ ३॥ मन्त्रं वदत्युक्थमेष प्रनूनं ब्रह्मणस्पतिः । यस्मिन्निन्द्रादयः सर्वे देवा ओकांसि चक्रिरे ॥ ४॥ स प्रभुः सर्वतः पाता यो रेवान्यो अमीवहा । अतोऽर्च्योऽसौ यश्चतुरो वसुवित्पुष्टिवर्धनः ॥ ५॥ वक्रतुण्डोऽपि सुमुखः साधोगन्तापि चोर्ध्वगः । येऽमुं नार्चन्ति ते विघ्नैः पराभूता भवन्ति हि ॥ ६॥ ये दूर्वाङ्कुरलाजाद्यैः पूजयन्ति शिवात्मजम् । ऐहिकामुष्मिकान्भोगान्भुक्त्वा मुकिन्त व्रजन्ति ते ॥ ७॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं गणेशमाहात्म्यम्
पाठ जप: 0/108