सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥श्रीरङ्गनाथस्तोत्रम्॥

stotra-d69a8cc0
रचयिता: पारंपरिक पाठ संख्या: 1
23px

श्रीपराशर भट्टार्यः श्रीरङ्गेशपुरोहितः। श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे॥

सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने कावेरीमध्यदेशे मृदुतरफणिराहोगपर्यङ्कभागे । निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तं पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥१ ॥

कस्तूरीकलितोर्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं मुग्धस्मेरमनोहराधरदळं मुक्ताकिरीटोज्ज्वलम्। पश्यन्मानसपश्यतोहररुचः पर्यायपङ्केरुहं श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ २ ॥

कदाऽहं कावेरीतटपरिसरे रङ्गनगरे शयानं भोगीन्द्रे शतमखमणिश्यामलरुचिम्। उपासीनः क्रोशन् मधुमथन ! नारायण ! हरे! मुरारे! गोविन्देत्यनिशमनुनेष्यामि दिवसान् ॥ ३ ॥

कदाऽहं कावेरीविमलसलिले वीतकलुषो भवेयं तत्तीरे श्रममुषि वसेयं घनवने। कदा वा तत् पुण्ये महति पुळिने मङ्गळगुणं भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥४ ॥

पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठां आविर्मोदस्तिमितशकुनानूदितब्रह्मघोषाम्। मार्गेमार्गे पथिकनिवहैरुञ्छ्यमानापवर्गा पश्येयं तां पुनरपि पुरीं श्रीमती रङ्गधाम्नः ॥ ५ ॥

न जातु पीतामृतमूर्च्छितानां नाकौकसां नन्दनवाटिकासु। रङ्गेश्वर त्वत्पुरमाश्रितानां रथ्याशुनामन्यतमो भवेयम् ॥ ६ ॥

श्रीरङ्गं करिशैलमञ्जनगिरिं तार्थ्याद्रिसिंहाचलौ श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम्। श्रीमवारवतीप्रयागमथुरायोध्यागयाः पुष्करं । सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥७ ॥

असन्निकृष्टस्य निकृष्टजन्तोः मिथ्यापवादेन करोषि शान्तिम्। ततो निकृष्टे मयि सन्निकृष्टे कां निष्कृति रङ्गपते करोषि ॥ ९ ॥

॥ इति श्रीरङ्गनाथस्तोत्रं समाप्तम् ॥

पाठ जप: 0/108