சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

து³ர்கா³ப்ரஸாதா³ஷ்டகம்

दुर्गाप्रसादाष्टकम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 7
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

दुर्गाप्रसादाष्टकम्

वन्दे निर्बाधकरूणामरूणां शरणावनीम् । कामपूर्णजकाराद्यश्रीपीठान्तर्निवासिनीम् ॥ १॥

प्रसिद्धां परमेशानीं नानातनुषु जाग्रतीम् । अद्वयानन्दसन्दोहमालिनीं श्रेयसे श्रये ॥ २॥

जाग्रत्स्वप्नसुषुप्त्यादौ प्रतिव्यक्ति विलक्षणाम् । सेवे सैरिभसम्मर्दरक्षणेषु कृतक्षणाम् ॥ ३॥

तत्तत्कालसमुद्भूतरामकृष्णादिसेविताम् । एकधा दशधा क्वापि बहुधा शक्तिमाश्रये ॥ ४॥

स्तवीमि परमेशानीं महेश्वरकुटुम्बिनीम् । सुदक्षिणामन्नपूर्णां लम्बोदरपयस्विनीम् ॥ ५॥

मेधा-साम्राज्यदीक्षादिवीक्षारोहस्वरूपिकाम् । तामालम्बे शिवालम्बां प्रसादरूपिकाम् ॥ ६॥

अवामा वामभागेषु दक्षिणेष्वपि दक्षिणा । अद्वयापि द्वयाकारा हृदयाम्भोजगावतात् ॥ ७॥

मन्त्र भावनया दीप्तामवर्णां वर्णरूपिणीम् । परां कन्दलिकां ध्यायन् प्रसादमधिगच्छति ॥ ८॥

इति श्रीदुर्गाप्रसादद्विवेदीविरचितं दुर्गाप्रसादाष्टकम् 

ஜப எண்ணிக்கை: 0/108