સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

.. શ્રીગોદામંગલ સ્તોત્રમ્ ..

॥ श्रीगोदामंगल स्तोत्रम् ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 1
23px

॥ श्रीगोदामंगल स्तोत्रम् ॥

स्वोच्छिष्टमालिकाबन्ध गन्धबन्धुरजिष्णवे ।
विष्णुचित्ततनूजायै गोदायै नित्यमङ्गळम् ॥ १ ॥

मादृशाकिञ्चनत्राण बद्धकङ्कण पाणये ।
 विष्णुचित्ततनूजायै गोदायै नित्यमङ्गळम् ॥ २ ॥

श्रीमत्यै विष्णुचित्तार्य मनोनन्दनहेतवे । 
नन्दनन्दन सुन्दर्यै गोदायै नित्यमङ्गळम् ॥ ३॥

कर्कटे पूर्वफल्गुन्यां तुलसीकाननोद्भवाम्।
पाण्ड्ये विश्वं भरां गोदां वन्दे श्रीरङ्गनायकीम् ॥ ४॥

॥ इति श्रीगोदामंगल स्तोत्रम् ॥

પાઠ જપ: 0/108