સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

મુદ્ગલકૃતા ગણેશસ્તુતિઃ

मुद्गलकृता गणेशस्तुतिः
રચયિતા: પારંપરિક વાચન સંખ્યા: 1
23px

गणेशस्तुतिः

श्रीगणेशाय नमः । शौनक उवाच । कथं स्तुतिः कृता तेन गणेशस्य महात्मनः । तां मे वद महाभाग सर्वज्ञोऽसि मतो बुधैः ॥ १॥ सूत उवाच । भवते कथयिष्यामि भावयुक्तेन चेतसा । स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने ॥ २॥ मुद्गल उवाच । किं स्तौमि त्वां गणाध्यक्ष वेदैः स्तोतुं न शक्यते । ब्रह्मादिभिश्च योगीन्द्रैर्यथामति च वच्मि भोः ॥ ३॥ त्वद्दर्शनप्रभावेण शक्तोऽस्मि न च संशयः । त्वदनुग्रहतः सर्वे स्तोतुं शक्ता भवन्ति वै ॥ ४॥ नमस्ते गणेशाय सर्वादिभूम्ने परेषां परेशाय वेदातिगाय । परं मायिने मायिनां मोहदात्रे ह्यगण्याय गण्याय ते वै नमस्ते ॥ ५॥ पुराणादिशास्त्रैः सदा संस्तुताय शिवायैः सुरेन्द्रैर्नमस्ते स्तुताय । अनाद्यन्तमध्यादिभेदैर्विहीनाय नानामयायास्तु सर्वेश्वराय ॥ ६॥ नमो लक्षवेदाष्टयोनिप्रचारतदाकाररूपाय योगेन योगिन् । नमो ह्यन्नभूताय सर्वाकराय कलानन्तरूपाय पुष्टिप्रदाय ॥ ७॥ नमो भूमिरूपाय नानाप्रभेदधरायाथ धाराय नित्याय तेऽस्तु । जलाधिस्वरूपाय तृप्तिप्रदाय तदाकारहीनाय साराय धाम्ने ॥ ८॥ नमस्तेजसां द्योतरूपाय ढुण्ढे प्रकाशाय भोक्त्रे च सर्वस्थिताय । नमो वायुरूपाय ते चालकाय प्रचारस्वरूपाय भिन्नाय तस्मात् ॥ ९॥ नमः स्वस्वरूपाय दीप्ताय पूर्णप्रकाशाय भूतादिकब्रह्मदात्रे । नमः स्थूलभोगस्वरूपाय जाग्रन्मयाय प्रभो राजसायाथ तेऽस्तु ॥ १०॥ नमः स्वममायामयायापि सूक्ष्मस्वरूपाय सर्वान्तरे संस्थिताय । नमः कारणायोभयब्रह्मदाय समायापि सौषुप्तभोगिन्नमस्ते ॥ ११॥ नमश्चेतनाधाररूपाय तेऽस्तु प्रयत्नप्रदाय त्रिभोगप्रदाय । गुणेशाय चैतन्यधाराय तेऽस्तु नमो नादरूपाय कालाय चात्मन् ॥ १२॥ नमो बिन्दुरूपाय वक्राननाय नमो देहमायाविहाराय तुभ्यम् । नमश्चित्स्वरूपाय सोऽहंप्रदाय निराकारदेहिस्वरूपाय तेऽस्तु ॥ १३॥ सदा ह्येकदन्ताय जन्मातिगाय परायाथ शून्याय दैत्यान्तकाय । मदादेश्च शत्रो महाग्बुध्वजाय नमोऽनादिसिद्धाय मायाधराय ॥ १४॥ नमो ज्ञानरूपाय नानाविहारप्रदायाथ पूर्णाय सर्वत्रगाय । नमो मायिमायादिभेदाकराय सदा बोधरूपाय ते वै महात्मन् ॥ १५॥ नमः साङ्ख्यरूपाय वै देहिनां वै पराय स्वसम्भोगहीनाय देव । सदा केवलब्रह्मभूताय तेऽस्तु नमो ज्ञानहीनाय मेधामयाय ॥ १६॥ नमः स्वस्वरूपाय चानन्ददाय समाधिस्वरूपाय मौनात्मकाय । स्वसंवेद्ययोगेन लभ्याय तेऽस्तु विनात्मप्रबोधाय सर्वाधिपाय ॥ १७॥ नमः पञ्चपञ्चादिमायाकराय चतुर्धा चतुर्धा विभिन्नाय धर्मिन् । असद्रूपकायाऽथ शक्त्यात्मकाय नमोऽभेदभेदादिनानात्मकाय ॥ १८॥ नमः सत्स्वरूपाय सूर्यात्मकाय सदात्मप्रबोधाय मायाधराय । अखण्डामृतायाद्वितीयाय तेऽस्तु सदा कालकालाय मोक्षप्रदाय ॥ १९॥ नमो विष्णुरूपाय चानन्ददाय समाय स्वमायोभयस्रष्ट्र एव । अनन्ताय भेदादिहीनाय भृम्ने सदा भेदरूपाय सर्वात्मकाय ॥ २०॥ नमः शम्भुरूपाय नेतिप्रदाय सदा मोहहीनाय च त्र्यम्बकाय । त्रिधा मायया भासितुर्यस्वरूपपरब्रह्मरूपाय ते धूम्रवर्ण ॥ २१॥ चतुर्णामभेदाय संयोगकारिन् स्वसंवेद्यभावेन विघ्नाधिपाय । स्वभक्तम्य पक्षे सदा संस्थिताय गणाधीश हन्त्रे महादैत्यकानाम् ॥ २२॥ नमः कर्मरूपाय कर्मादिकर्त्रे जनानां स्वकर्मादिना भोगदात्रे । नमो ज्ञानरूपाय निःसङ्गदाय सदा कर्महीनाय ते केवलाय ॥ २३॥ नमस्ते समानप्रदायोभयाय समायाऽथ योगेन चानन्ददाय । नमः साहजब्रह्मभूयप्रदाय त्रिधाम्ने त्रिहीनाय सन्तोषदाय ॥ २४॥ चतुर्धा स्थितीनां सदा पालकाय निजात्मस्वरूपाय संयोगकाग्नि । अपाराय नाना चतुर्णां समूहेष्वधीशाय हेरम्ब तुभ्यं नमस्ते ॥ २५॥ अयोगाय मायाविहीनाय तुभ्यं नमस्ते निरानन्दरूपाय नित्यम् । निवृत्तिस्वरूपाय भिन्नाय तेऽस्तु नमो योगरूपासमाधिस्थिताय ॥ २६॥ नमो योगशान्तिस्वरूपाय शान्तिप्रदात्रे गणेशाय योगाय तुभ्यम् । सदा ब्रह्मणां ब्रह्मदात्रेऽखिलेश गणानां पते ज्येष्ठराजाय तेऽस्तु ॥ २७॥ नमो ब्रह्मणे सृष्टिकर्त्रे सदा वै रजोधारिणे वेदशास्त्रादिकर्त्रे । सदा सृष्टिहीनाय साम्याय धाम्ने नमो मायिने मध्यवृत्तिस्थिताय ॥ २८॥ नमः सत्वरूपाय विष्णुप्रभेदाज्जगत्पालकायाथ मायाधराय । नमः सत्त्वहीनाय सर्वातिगाय कवीनां पते विघ्नहन्त्रे नमस्ते ॥ २९॥ नमस्तामसायाऽथ संहारकर्त्रे त्रिनेत्रप्रदीपाय शक्तेर्धराय । सदा कालरूपाय कैलासदाय तमोहीनरूपाय लम्बोदराय ॥ ३०॥ नमः कर्मणां मूलबीजाय तेऽस्तु नमो भानुरूपाय तेजोमयाय । त्रिकालादिबोधाय सूर्याय भूम्ने प्रकाशैविहीनाय हेरम्ब तेऽस्तु ॥ ३१॥ नमः शक्तिरूपाय मोहप्रदाय क्रियाधारभूताय नानाभ्रमाय । अनन्तस्वरूपाधिलीलाधराय नमः शक्तिहीनाय सिद्धीश तुभ्यम् ॥ ३२॥ नमश्चन्द्ररूपाय पुष्टिप्रदाय कलाभिस्त्रिलोकस्थभूतादिकेभ्यः । सुधाधारकायाऽथ नक्षत्रकादिप्रकाशाय ते ह्यन्नहीनाय ढुण्ढे ॥ ३३॥ नमः कामरूपाय कामारये ते नमस्ते गजाकारतुण्डाय तुभ्यम् । हरीन्द्रादिदेवैः सदा संस्तुताय शुकाद्यैर्महद्भिश्च वन्द्याय तेऽस्तु ॥ ३४॥ अनित्याय नित्याय देवेश देव सकामाय निष्कामभावप्रदाय । सदा सर्वपूज्याय सर्वाधिपाय जलेशेन्द्रशेषादिभिः संस्तुताय ॥ ३५॥ नमः काश्यपायाऽथ वै कापिलाय वरेण्यस्य पुत्राय पाराशराय । नमः शम्भुपुत्राय पार्श्वात्मजाय नमो भक्तिभोक्त्रे गणाधीश तेऽस्तु ॥ ३६॥ नमो माधवस्त्रीसुतायाऽथ तुभ्यं नमः सर्वमात्रे नमः सर्वपित्रे । नमः सर्वपुत्राय सर्वात्मकाय नमः सर्वसर्वाय नानामयाय ॥ ३७॥ नमः पाशधारिन् नमो दन्तधारिन् सृणिं बिभृते वै सदानन्ददायिन् । नमः पुत्रपौत्रादि राज्यप्रदात्रे नमो भुक्तिमुक्तिप्रदायाऽथ तुभ्यम् ॥ ३८॥ नमोऽनन्तशक्ते गुणानामधीश मयूरेश योगेश मायेश तुभ्यम् । नमोऽव्यक्तसुव्यक्तरूपाय दन्तिन् गजाकारसाकारमोहाय तेऽस्तु ॥ ३९॥ नमो ह्येकरूपाय नानाप्रभेदादये विघ्नपालाय शुण्डाधराय । अनाथाय नाथाय देवादिकानां निवासाय सर्वात्मनां ते नमो वै ॥ ४०॥ नमस्त्वंपदाकारदेहाय तुभ्यं नमस्तत्पदाकारतुण्डाय तेऽस्तु । तयोरेकभावाऽसिरूपप्रयुक्तशरीराय साक्षात् सुधाम्ने नमस्ते ॥ ४१॥ नमो वामभागेन सिद्धिस्वरूपाधृतामोहमायाजनानां जनित्री । सदा बुद्धिरूपा धृता दक्षिणाङ्गे न पुंस्त्रीस्वरूपाऽसिरूपाय तेऽस्तु ॥ ४२॥ नमो भ्रामरी त्वंपदाधारशक्तिः सदा तत्पदा कामदात्री ह्यभेदा । तयोरेकभावे स्वसंवेद्यनाम्नि पुरे मस्तके वासकारिंश्च तासाम् ॥ ४३॥ अखण्डामृतं यत्र तोयं सुताम्रं समुद्रे स्थितं चेक्षुसंज्ञे नमस्ते । निराधाररूपे च पानेन तस्य न पुंस्त्रीप्रदायाऽत्र खेलंश्च तेऽस्तु ॥ ४४॥ जनानां सदा त्र्यक्षरं श‍ृण्वतां च गणेशेति चानन्ददायिन्नमस्ते । सकृज्जल्पतां जन्ममृत्यू न तेषामपारप्रधाम्ने च ढुण्ढीश्वराय ॥ ४५॥ तवोपासका ब्रह्मभूता न चित्रं जनेभ्यश्च संस्पर्शनैर्ब्रह्मदा वै । सुरेन्द्रादिपूज्या गणेशस्वरूपा भवयुर्नमस्ते नमस्ते गणेश ॥ ४६॥ सूत उवाच । इति स्तुत्वा गणेशानं मुद्गलो मौनधारकः । पादौ धृत्वा गणेशस्य पतितो दण्डवत् क्षितौ ॥ ४७॥ समुत्थाप्य स्वभक्तं तं सस्वजे परमादरात् । गजाननः प्रसन्नात्मा तमुवाच महामुनिम् ॥ ४८॥ गणेश उवाच । त्वया स्तोत्रं कृतं यच्च मदीयं मम सन्निधौ । स्तोत्रोत्तमं प्रविख्यातं भविष्यति न संशयः ॥ ४९॥ स्तोत्रोत्तमेन मां स्तौति तस्मै मुक्तिं सभुक्तिकाम् । ददामि दृढभक्तिं च मदीयां नात्र संशयः ॥ ५०॥ न सङ्कटं न रोगं च प्राप्नोति स नरोत्तमः । पुत्रपौत्रादिकं सर्वं धनं धान्यं ददामि वै ॥ ५१॥ मारणोच्चाटनादीनि नश्यन्ति पठनेन च । एकविंशतिवारं च तथा नावद्दिनावधि ॥ ५२॥ कारागृहादिजाः पीडा नश्यन्ति पठनेन च । मनसेप्सितमाप्नोति नरो मे परमप्रियः ॥ ५३॥ त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं भक्तियन्त्रितः । त्वत्समो नास्ति भावज्ञो वशे तेऽहं सदा स्थितः ॥ ५४॥ इति श्रीमुद्गलकृता गणेशस्तुतिः
પાઠ જપ: 0/108