સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

.. શ્રી ગોદા ચતુશ્લોકીસ્તુતિઃ ..

॥ श्री गोदा चतुश्लोकीस्तुतिः ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 2
23px

॥ श्रीगोदा चतुश्लोकीस्तुतिः ॥

सर्वं सहे तुलसिमूलकृतावतारे श्रीविष्णुचित्तपरितोषितबाल्यवृत्ते । श्रीरङ्गराजकरपद्मगृहीतपाणे गोदे नमोऽस्तु सततं जगदम्ब तुभ्यम् ॥ १॥

नित्याभूषा निगमशिरसां निःसमोत्तुङ्गवार्ता कान्तो यस्याः कचविलुलितैः कामुको माल्यरत्नैः । सूक्त्या यस्याः श्रुतिसुभगया सुप्रभाता धरित्री सैषा देवी सकलजननी सिञ्चतां मामपाङ्गैः ॥ २॥

माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महान् भ्राता चेद्यतिशेखरः प्रियतमः श्रीरङ्गधामा यदि । ज्ञातारस्तनयास्त्वदुक्तिसरसस्तन्येन संवर्धिता गोदे त्वं हि कथं त्वनन्यविभवा साधारणा श्रीरसि ॥ ३॥

कल्पादौ हरिणा स्वयं जनहितं कृष्णेन सर्वात्मना प्रोक्तं स्वस्य च कीर्तनं प्रपदनं स्वस्मै प्रसूनार्पणम् । सर्वेषां प्रकटं विधातुमनिशं श्रीधन्विनव्ये पुरे यां तां वैदिकविष्णुचित्ततनयां गोदामुदारां स्तुमः ॥ ४॥

आकूतस्य परिष्क्रियां निरुपमामासेचनं चक्षुषोः आनन्दांशपरम्परामनुगुणामारामशैलेशितुः । तद्धीरत्वकिरीटकोटिघटितत्वोच्छिष्टकस्तूरिका माल्यामोदसमेधितात्मविभवां गोदामुदारां स्तुमः ॥ ५॥

॥ इति श्रीवेदान्तदेशिकविरचिता श्रीस्तुतिः सम्पूर्णा ॥

પાઠ જપ: 0/108