সনাতন দেব
॥ দ্বাদশ জ্যোতির্লিঙ্গ স্তুতিঃ ॥
॥ द्वादश ज्योतिर्लिंग स्तुतिः ॥
॥ द्वादशज्योतिर्लिंगस्तुतिः ॥
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोंकारं ममलेश्वरम् ॥ १ ॥
परल्यां वैजनाथं च डाकियन्यां भीमशंकरम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ २ ॥
वारणस्यां तु विश्वेशं त्र्यम्बकं गौतमी तटे। हिमालये तु केदारं ध्रुष्णेशं च शिवालये ॥ ३ ॥
एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरेण विनश्यति ॥ ५ ॥
॥ इति द्वादश ज्योतिर्लिंग स्तुति संपूर्णम् ॥