સનાતન સ્તોત્ર સંગ્રહ
૧૦૮ નામાવલી
સનાતન દેવ

.. વલ્લી અષ્ટોત્તરશતનામાવલિઃ ..

॥ वल्ली अष्टोत्तरशतनामावलिः ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 9
લિપિ પસંદ કરો: देवनागरी (संस्कृत)
14px

॥ वल्ली अष्टोत्तरशतनामावलिः ॥

॥ ध्यानम्॥

श्यामां पङ्कजधारिणीं मणिलसत् ताटङ्ककर्णोज्ज्वलाम् दक्षे लम्बकरां किरीटमकुटां तुङ्गस्तनोत्कञ्चुकाम्। अन्योन्येक्षणसंयुगां शरवणोद्भूतस्य सव्ये स्थिताम् गुञ्जामाल्यधराम् प्रवाळवसनां वल्लीश्वरीं भावये॥

॥ नामावलिः॥

ॐ महावल्ल्यै नमः ॐ वन्द्यायै नमः ॐ वनवासायै नमः ॐ वरलक्ष्म्यै नमः ॐ वरप्रदायै नमः ॐ वाणीस्तुतायै नमः ॐ वीतमोहायै नमः ॐ वामदेवसुतप्रियायै नमः ॐ वैकुण्ठतनयायै नमः ॐ वर्यायै नमः ॐ वनेचरसमादृतायै नमः ॐ दयापूर्णायै नमः ॐ दिव्यरूपायै नमः ॐ दारिद्र्यभयनाशिन्यै नमः ॐ देवस्तुतायै नमः ॐ दैत्यहन्त्र्यै नमः ॐ दोषहीनायै नमः ॐ दयाम्बुधये नमः ॐ दुःखहन्त्र्यै नमः ॐ दुष्टदूरायै नमः ॐ दुरितघ्न्यै नमः ॐ दुरासदायै नमः ॐ नाशहीनायै नमः ॐ नागनुतायै नमः ॐ नारदस्तुतवैभवायै नमः ॐ लवलीकुञ्जसम्भूतायै नमः ॐ ललितायै नमः ॐ ललनोत्तमायै नमः ॐ शान्तदोषायै नमः ॐ शर्मदात्र्यै नमः ॐ शरजन्मकुटुम्बिन्यै नमः ॐ पद्मिन्यै नमः ॐ पद्मवदनायै नमः ॐ पद्मनाभसुतायै नमः ॐ परायै नमः ॐ पूर्णरूपायै नमः ॐ पुण्यशीलायै नमः ॐ प्रियङ्गुवनपालिन्यै नमः ॐ सुन्दर्यै नमः ॐ सुरसंस्तुतायै नमः ॐ सुब्रह्मण्यकुटुम्बिन्यै नमः ॐ मान्यायै नमः ॐ मनोहरायै नमः ॐ मायायै नमः ॐ महेश्वरसुतप्रियायै नमः ॐ कुमार्यै नमः ॐ करुणापूर्णायै नमः ॐ कार्तिकेयमनोहरायै नमः ॐ पद्मनेत्रायै नमः ॐ परानन्दायै नमः ॐ पार्वतीसुतवल्लभायै नमः ॐ महादेव्यै नमः ॐ महामायायै नमः ॐ मल्लिकाकुसुमप्रियायै नमः ॐ चन्द्रवक्त्रायै नमः ॐ चारुरूपायै नमः ॐ चाम्पेयकुसुमप्रियायै नमः ॐ गिरिवासायै नमः ॐ गुणनिधये नमः ॐ गतावन्यायै नमः ॐ गुहप्रियायै नमः ॐ कलिहीनायै नमः ॐ कलारूपायै नमः ॐ कृत्तिकासुतकामिन्यै नमः ॐ गतदोषायै नमः ॐ गीतगुणायै नमः ॐ गङ्गाधरसुतप्रियायै नमः ॐ भद्ररूपायै नमः ॐ भगवत्यै नमः ॐ भाग्यदायै नमः ॐ भवहारिण्यै नमः ॐ भवहीनायै नमः ॐ भव्यदेहायै नमः ॐ भवात्मजमनोहरायै नमः ॐ सौम्यायै नमः ॐ सर्वेश्वर्यै नमः ॐ सत्यायै नमः ॐ साध्व्यै नमः ॐ सिद्धसमर्चितायै नमः ॐ हानिहीनायै नमः ॐ हरिसुतायै नमः ॐ हरसूनुमनःप्रियायै नमः ॐ कल्याण्यै नमः ॐ कमलायै नमः ॐ कल्यायै नमः ॐ कुमारसुमनोहरायै नमः ॐ जनिहीनायै नमः ॐ जन्महन्त्र्यै नमः ॐ जनार्दनसुतायै नमः ॐ जयायै नमः ॐ रमायै नमः ॐ रामायै नमः ॐ रम्यरूपायै नमः ॐ राज्ञ्यै नमः ॐ राजरवादृतायै नमः ॐ नीतिज्ञायै नमः ॐ निर्मलायै नमः ॐ नित्यायै नमः ॐ नीलकण्ठसुतप्रियायै नमः ॐ शिवरूपायै नमः ॐ सुधाकारायै नमः ॐ शिखिवाहनवल्लभायै नमः ॐ व्याधात्मजायै नमः ॐ व्याधिहन्त्र्यै नमः ॐ विविधागमसंस्तुतायै नमः ॐ हर्षदात्र्यै नमः ॐ हरिभवायै नमः ॐ हरसूनुप्रियङ्गनायै नमः

॥ इति श्रीवल्ल्यष्टोत्तरशतनामावलिः सम्पूर्णा॥

પાઠ જપ: 0/108