सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

अहमसुरेण प्रोक्ता धूम्रवर्णगणेशस्तुतिः

stotra-cb837659
रचयिता: पारंपरिक पाठ संख्या: 1
23px
धूम्रवर्णस्तुतिः अहमसुरेण प्रोक्ता धूम्रवर्णस्तु तुरेण गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः । धूम्रवर्ण जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ १२॥ पुनरुत्थाय विघ्नेशं पूजयामास भक्तितः । पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः ॥ १३॥ अहमुवाच - धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने । अव्यकायादिबीजाय परेशाय नमो नमः ॥ १४॥ लम्बोदराय देवाय दैत्यनाथाय ते नमः । हेरम्बाय महेशानां बालकाय नमो नमः ॥ १५॥ कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे । ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥ १६॥ चराय चररूपाय जङ्गमस्थाय ते नमः । स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥ १७॥ स्थावरजङ्गमाभ्यां च हीनाय ते नमो नमः । योगाय योगनाथाय योगिने योगदायिने ॥ १८॥ योगेभ्यो योगदात्रे ते नमश्चिन्तामणे नमः । शान्ताय शान्तचित्तैस्तु प्राप्याय शान्त मूर्यते ॥ १९॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद! । सिद्धिनाथाय बुद्धीश! तयोर्योगाय ते नमः ॥ २०॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । चतुर्भुजाय स्वानन्दपतये ते नमो नमः ॥ २१॥ किं स्तौमि त्वां गणाधीश! धूम्रवर्णस्वरूपिणम् । अव्यक्तं वेदवादेषु कथितं सततं प्रभो! ॥ २२॥ स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः । योगशान्तिधरास्ते कथयितुं ध्रुवं अक्षमाः ॥ २३॥ अतस्त्वां धूम्रवर्णाख्यं वदन्ते वेदवादिनः । पश्यामि तं धूम्रवर्ण एवाऽहं योगिदुर्लभम् ॥ २४॥ धन्योऽहं सकुलो नाथ! त्वदङ्गियुगदर्शनात् । धूम्रवर्ण उवाच - त्वया कृतं इदं स्तोत्रं सर्वसिद्धिप्रदायकम् । मम भक्तिप्रदं चैव भविष्यति न संशयः ॥ २८॥ श‍ृणुयाद्यः पठेदेतत्तस्याहङ्कारजं भयम् । न भसिष्यति दैत्येश भुक्तिमुक्तिप्रदं भवेत् ॥ २९॥ यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः । मम प्रियो भवेत् सोऽपि सदा मोहविवर्जितः ॥ ३०॥ इति अहमसुरेणप्रोक्ता धूम्रवर्णस्तुतिः
पाठ जप: 0/108