సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

పరత్వాది పంచకం 

परत्वादि पञ्चकम् 
రచయిత: పారంపరిక వీక్షణలు: 2
23px

परवासुदेवस्तुति : उद्यद् भानुसहस्त्र भास्वर परव्योमास्पदं निर्मल ज्ञानानंद घन स्वरूपममल ज्ञानादिभिः षड्गुणैः। जुष्टं सूरिजनाधिपं धृतरथांगाब्जादि भूषोज्ज्वलं, श्रीभूसेव्यमन्तभोगिनिलयं श्रीवासुदेवं भजे ।।

व्युहवासुदेवरतुति आमोदे भुवने प्रमोद उत सम्मोदे च संकर्षणं प्रद्युम्नं च तथानिरुद्धमपि तान् संहार सृष्टि स्थितीः। कुर्वाणान्मतिमुख्यषड्गुणवः युक्तांस्त्रियुग्मात्मकैः व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे।। २

विभवस्तुति: वेदान्वेषण मंदराद्रिभरण क्ष्मोद्धारण प्रश्रित प्रह्लादावन भूमिभिक्षण जगद्विक्रांतयो यक्रियाः। दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं, कर्षणं काळिद्या, अतिपाप कंसनिधनं यत्क्रीडितं तन्त्रमः।। ३

अंतर्यामि स्तुतिः यो देवादिचतुर्विधेषु जनिषु ब्रह्मांडकोशांतरे संभक्तेषु चराचरेषु च विशन् आस्ते सदांतर्बहिः । विष्णुस्तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं स्वांगुष्ठप्रमितं च योगिहृदयेष्वासीन मीशं भजे।। ४

अर्चा स्तुतिः श्रीरंगस्थल वेंकटाद्रि करिगिर्यादौ शतेऽष्टोत्तरे स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे। अर्चारूपिण मर्चकाभिमतित स्स्वीकुर्वते विग्रहं पूजां चाखिलवांछितान् वितरते श्रीशाय तस्मै नमः।। ५

फलश्रुतिः प्रातर्विष्णोः परत्वादिपंचकस्तुति मुत्तमाम् । पठन् प्राप्नोति भगवद्भक्तिं वरद निर्मिताम्।।

జప గణన: 0/108