சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீமுத்³க³லபுராணாந்தர்க³தம்ʼ யோக³ஶாந்திஜ்ஞானப்ரத³ம்ʼ க³ணேஶஸ்தோத்ரம் 

श्रीमुद्गलपुराणान्तर्गतं योगशान्तिज्ञानप्रदं गणेशस्तोत्रम् 
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 1
23px

गणेशस्तोत्रम्

श्रीगणेशाय नमः । सनकाद्या ऊचुः । धन्योऽसि नृपशार्दूल बुद्धिस्ते परमाद्भुता । निर्वेदं राजभोगेभ्यः सम्प्राप्तः पृथुलश्रवाः ॥ १॥ योगशन्तिमयं पूर्णं गणेशं विद्धि भूमिप । तं भजस्व महाभक्त्या तया शान्तिं गमिष्यसि ॥ २॥ एकदा स्म वयं सर्वे सङ्गताः शङ्करालयम् । वटमूले समासीनं पश्यामो ध्यानसंस्थितम् ॥ ३॥ तम् प्रणम्य स्थिताः सर्वे वयं विनयसंस्थिताः । स्तोत्रैस्तं बोधयन्तश्च बुबोध वै शिवस्ततः ॥ ४॥ त्यक्त्वा ध्यानं गणेशाय नमो वदतमादरात् । श्रुत्वा भ्रान्ता वयं तस्मै पृच्छामः संशयान्विताः ॥ ५॥ कोऽसौ गणाधिपः स्वामिन्नमसि त्वं कथं प्रभो । शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः ॥ ६॥ अस्माकं वचनं श्रुत्वा शिवो हर्पसमन्वितः । जगाद ज्ञानमाद्यं यद्गाणपत्यं स शान्तिदम् ॥ ७॥ श्रीशिव उवाच । ब्रह्म यत्कथ्यते वेदैः कथं तत्र प्रवर्तते । स्वाधीनं सहजं विप्रापराधीनं त्रिधाभवम् ॥ ८॥ कर्मयोगादिभेदेन वेदेषु वेदवादिभिः । नानाविधं वर्णितं यद् ब्रह्म तन्माययान्वितम् ॥ ९॥ कर्मणां सकलानां संयोगो ब्रह्मणि जायते । तेन कर्मात्मकं ब्रह्म तदज्ञानाधिकं मतम् ॥ १०॥ समूहात्मकशब्दश्च गण इत्यभिधीयते । बाह्यान्तराधिभेदेनासंयोगे समूहो मतः ॥ ११॥ अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः । ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वर ॥ १२॥ संयोगाऽयोगकाद्या ये नाना योगा मता बुधैः । योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ १३॥ गणो योगात्मकः प्रोक्तस्तसमात्तस्य गणा वयम् । योगरूपं विशेषेण नमामो भक्तिसंयुताः ॥ १४॥ माया विघ्नात्मिका प्रोक्ता भ्रान्तिदा बिम्बभावतः । तां जयन्ति जना ईशा विघ्नराजस्य सेवया ॥ १५॥ भवन्ति ते ब्रह्मभूता योगीन्द्रा गाणपाः स्मृताः । अहं गणेशरूपो वै भिन्नं मायामयं मतम् ॥ १६॥ चित्तं पञ्चविधं प्रोक्तं सा बुद्धिर्विविधात्मिका । तत्रैश्चर्यं च यत्प्रोक्तं सिद्धिदः सा परमाद्भुता ॥ १७॥ तत्र यद् बिम्बभावेन गणेशः प्रतितिष्ठति । मायाभ्यां मोहितोऽत्यन्तं सर्वत्रासौ विराजते ॥ १८॥ बिम्बभावं परित्यजय गणेशस्यैव सेवया । पञ्चधा चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् ॥ १९॥ गणेशोऽहं यदा विप्रास्तदा कुत्र प्रवर्तते । संयोगो मे तथा योगः शान्तियोगं लभेत्ततः ॥ २०॥ न भिन्नोऽहं कदा तस्माद्गणेशान्नात्र संशयः । योगीन्द्रः शान्तियोगेन ब्रह्मभूतो भविष्यति ॥ २१॥ एतदेव मदीयं यद्गुह्यं ध्यानं प्रकीर्तितम् । अतो गणेशदासोऽहं तं नमामि सदा द्विजाः ॥ २२॥ एवमुक्त्वा महायोगी वीरराम स शङ्करः । उच्छिन्नसंशया जाताः सनकाद्या वयं नृप ॥ २३॥ विचरामो महीमेताम् स्वर्गेषु विवरेषु । योगमार्गेण योगीशा गाणपत्यस्वभावतः ॥ २४॥ गणेशदर्शने जाता लालसा वयमादरात् । तस्मिन्काले गणाधीशः कश्यपस्यात्मजोऽभवत् ॥ २५॥ काशीराजो महाभक्तो गाणपत्यपरायणः । तस्य गृहे गतो देवः स्वकीयाचार्यसाधनात् ॥ २६॥ दर्शनार्थं वयं तत्र गताः काश्यां महामते । दर्शयामो गणेशं स्म ब्रह्मचारिस्वरूपिणम् ॥ २७॥ तम् प्रणम्य वयं राजन् स्थिता भक्त्या समन्विताः । बालरूपधरं देवं स्तुमः स्म बालयूथगम् ॥ २८॥ सनकाद्या ऊचुः । नमो विनायकायैव कश्यपप्रियसूनवे । अदितेर्जठरोत्पन्न ब्रह्मचारिन्नमोऽस्तु ते ॥ २९॥ गणेशाय सदा मायाधाराय तद्विवर्जित । भक्त्य्धीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३०॥ तद् ब्रह्म शाश्वतं देव ब्रह्मणां पतिरञ्जसा । योयायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ३१॥ आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा । नादानन्दौ च सूक्षस्त्वं स्थूलरूपो भवान् प्रभो ॥ ३२॥ सुरासुरमयः साक्षान्नरनागस्वरूपधृक् । जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ३३॥ सर्वेभ्यो वर्जितस्त्वं वै मायाहीनः स्वरूपधृक् । मायामायिकरूपश्च को जानाति गतिं पराम् ॥ ३४॥ कथं स्तुमो गणाधीशं योगाकारमयं सदा । देवा न शंभुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ३५॥ वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः । अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ३६॥ इत्युक्त्वा मौनमास्थाय ननाम दण्डवच्च तम् । उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ ३७॥ विनायक उवाच । भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् । भविष्यति महाभागाः पठतः श‍ृण्वतः सदा ॥ ३८॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावतः । भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ३९॥ एवमुक्त्वा स्वयं बालश्चिक्रीड प्राकृतो यथा । बालकैः सह योगात्मा काश्यपः पूर्ववन्नृपः ॥ ४०॥ वयं काशीपते राजन् दर्शनार्थं गतास्ततः । तेनापि मानिताः सम्यक् भुक्त्वा च स्वपदे पुनः ॥ ४१॥ एतत्ते कथितं सर्वं योगशान्तिमयं महत् । ज्ञानं पूर्णं गणेशाख्यं तं भजस्व गणाधिपम् ॥ ४२॥ इति श्रीमुद्गलपुराणान्तर्गतं गणेशस्तोत्रम्
ஜப எண்ணிக்கை: 0/108