সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

গজাননস্তোত্রম্ মুদ্গলপুরাণান্তর্গতম্

गजाननस्तोत्रम् मुद्गलपुराणान्तर्गतम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 4
23px
गजाननस्तोत्र मुद्गलपुराणान्तर्गतम् श्रीगणेशाय नमः । देवर्षय ऊचुः । नमस्ते गजवक्त्राय गजाननसुरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ १॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानन्दावासिने नमः ॥ २॥ रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३॥ सुकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ।४॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ५॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६॥ देवरक्षकरायैव विघ्नेशाय नमो नमः । वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ७॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो!॥ ८॥ हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति । स्वाहा-स्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ९॥ एवमुक्त्वा गणाधीश सर्वे देवर्षयस्ततः । प्रणम्य तूष्णीभावं ते सम्प्राप्ता विगतज्वराः ॥ १०॥ कर्णौ सम्पीड्य गणप-चरणे शिरसो ध्वनिः । मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ११॥ तानुवाच मदीया ये भक्ताः परमभाविताः । तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ १२॥ तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सिताम् । एतादृशं प्रियं मे च मननं नाऽत्र संशयः ॥ १३॥ एवमुक्त्वा स तान् सर्वान् सिद्धि-बुद्ध्यादि-संयुतः । अन्तर्दधे ततो देवा मनुयः स्वस्थलं ययुः ॥ १४॥ ॥ इति श्रीमदान्त्ये मौद्गले द्वितीयखण्डे गजासुरवधे गजाननस्तोत्रम् ॥
পাঠ জপ: 0/108