सनातन स्तोत्र संग्रह
देवी स्तोत्रम्
सनातन देव

श्री देवीचतुःषष्ट्युपचारपूजास्तोत्रम्

stotra-c62058d0
रचयिता: पारंपरिक पाठ संख्या: 1
23px

॥ अथ श्री देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ॥

उषसि मागधमङ्गलगायनैः झटिति जागृहि जागृहि जागृहि। अतिकृपार्द्रकटाक्षनिरीक्षणैः जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम्। मणिमयमण्टपमध्यमेहि मातः मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २ ॥ कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम्। भगवति तव संनिवासहेतोः मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥ तपनीयमयी सुतूलिका कमनीया मृदुलोत्तरच्छदा। नवरत्नविभूषिता मया शिबिकेयं जगदम्ब ते अर्पिता ॥ ४ ॥ कनकमयवितर्दिस्थापिते तूलिकाढये विविधकुसुमकीर्णे कोटिबालार्कवर्णे। भगवति रमणीये रत्नसिंहासने अस्मिन् उपविश पदयुग्मं हेमपीठे निधाय ॥ ५ ॥ मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम्। कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥ ६ ॥ दूर्वया सरसिजान्वितविष्णु- कान्तया च सहितं कुसुमाढ्यम्। पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥७॥ गन्धपुष्पयवसर्षपदूर्वा- संयुतं तिलकुशाक्षतमिश्रम्। हेमपात्रनिहितं सह रत्नैः अध्यर्मेतदुररीकुरु मातः ॥ ८ ॥ जलजद्युतिना करेण जाती- फलतक्कोललवङ्गगन्धयुक्तैः। अमृतैरमृतौरिवातिशीतैः भगवत्याचमनं विधीयताम् ॥ ९ ॥ निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत्। तदिदं जगदम्ब ते अर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥ एतच्चम्पकतैलमम्ब विविधैः पुष्पैः मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैः भ्रमद्भिः वृतम्। सानन्दं सुरसुन्दरीभिरभितो हस्तैः धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः। केशानामलकैः विशोध्य विशदान्कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ १२ ॥ दुधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः। स्नपयामि तवाहमादरात् जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥ एलोशीरसुवासितैः सकुसुमैर्गङ्गादि तीर्थोदकैः माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः। मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ १४ ॥ बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम्। मुक्ताभिः ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥ नवरत्नमये मयार्पिते कमनीये तपनीयपादुके। सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् ॥ १६ ॥ बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्मार्जयित्वा। सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥ सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत्। तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात् ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥ मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले। केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम्। मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कटखां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ २० ॥ मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहे अङ्गरागं ततः। वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् ॥ २१ ॥ रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः। अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥ जननि चम्पकतलैमिदं पुरो मृगमदोपयुतं पटवासकम्। सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् ॥ २३ ॥ सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति। बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती- रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४ ॥ मन्दारकुन्दकरवीरलवङ्गपुष्पैः त्वां देवि सन्ततं अहं परिपूजयामि। जातीजपावकुलचम्पककेतकादि- नानाविधानि कुसुमानि च ते अर्पयामि ॥ २५ ॥ मालतीवकुलहेमपुष्पिका- काञ्चनारकरवीरकैतकैः। कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ २६ ॥ पारिजातशतपत्रपाटलैः मल्लिकावकुलचम्पकादिभिः। अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ २७ ॥ लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः। श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्त्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥ रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः। आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९ ॥ मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः। एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् ॥ ३० ॥ सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्तपरमान्नपुरःसराणि। शाकोल्लसन्मरिचिजीरकबाह्निकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥ क्षीरमेतदिदंमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु। मातरेतदमृतोपमं पयः संभ्रमेण परिपीयतां मुहुः ॥ ३२ ॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे। कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥ अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम्। पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४ ॥ जम्बवाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि। सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ ३५ ॥ कूश्माण्डकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि। सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि ॥ ३६ ॥ कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः। मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥ एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि। ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ ३८ ॥ ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम्। सौवर्णपात्रनिहितं खदिरेन सार्धं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥ महति कनकपात्रे स्थापयित्वा विशालान् डमरुसदृशरूपान्बद्धगोधूमदीपान्। बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा- न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥ सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य। मुखकमलसमीपे ते अम्ब सार्थं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥ अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः। मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां ते अर्पयामि ॥ ४२ ॥ मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम्। भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥ ४३ ॥ शरदिन्दुमरीचिगौरबर्णै- र्मणिमुक्ताविलसत्सुवर्णदण्डैः। जगदम्ब विचित्रचामरैस्त्वा- महमानन्दभरेण बीजयामि ॥ ४४ ॥ मार्ताण्डमण्डलनिभो जगदम्ब यो अयं भक्त्या मया मणिमयो मुकुरो अर्पितस्ते। पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥ इन्द्रादयो नतिनतैर्मकुटप्रदीपै- र्नीराजयन्ति सततं तव पादपीठम्। तस्मादहं तव समस्तशरीरमेत- न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥ प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः। भगवति कलितो अयं वाहनार्थं मया ते तुरगशतसमेतो वायुवेगस्तुरंगः ॥ ४७ ॥ मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः कनककलितघण्टाकिङ्कणीशोभिकण्ठः। श्रवणयुगलचञ्चच्चामरो मेघतुल्यो जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥ द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम्। कनकमयममुं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥ ४९ ॥ हयगजरथपत्तिशोभमानं दिशि दिशि दुन्दुभिमेघनादयुक्तम्। अतिबहु चतुरङ्गसैन्यमेत- द्भगवति भक्तिभरेण ते अर्पयामि ॥ ५० ॥ परिघीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते विपुलम्। प्रबलं धरणीतलाभिधं दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥ शतपत्रयुतैः स्वभावशीतैः अतिसौरभ्ययुतैः परागपीतैः। भ्रमरीमुखरीकृतैरनन्तैः व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥ भ्रमरलुलितलोलकुन्तलाली- विगलितमाल्यविकीर्णरङ्गभूमिः। इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ॥ ५३ ॥ मुखनयनविलासलोलवेणी- विलसितनिर्जितलोलभृङ्गमालाः। युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥ भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः। अनुपमितसुवेषा वारयोषा नटन्ति परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥ डमरुडिण्डिमजर्झरझल्लरी- मृदुरवद्रगडद्द्रगडादयः। झटिति झाङ्कृतझाङ्कृतझाङ्कृतैः बहुदयं हृदयं सुखयन्तु ते ॥ ५६ ॥ विपञ्चीषु सप्तस्वरान्वादयन्त्य- स्तव द्वारि गायन्ति गन्धर्वकन्याः। क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि ॥ ५७ ॥ अभिनयकमनीयैर्नर्तनैर्नर्तकीनां क्षनमपि रमयित्वा चेत एतत्त्वदीयम्। स्वयमहमतिचितैर्नृत्तवादित्रगीतैः भगवति भवदीयं मानसं रञ्जयामि ॥ ५८ ॥ तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः। तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ ५९ ॥ पदे पदे यत्परिपूजकेभ्यः सद्यो अश्वमेधादिफलं ददाति। तत्सर्वपापक्षय हेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥ रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम्। अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ ६१ ॥ चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कन्ठदेशे अर्पयित्वा। शिरसि विनिहितो अयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ६२ ॥ अथ मणिमयञ्चकाभिरामे कनकमयवितानराजमाने। प्रसरदगरुधूपधूपिते अस्मि- न्भगवति भवने अस्तु ते निवासः ॥ ६३ ॥ एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय हस्तौ। विस्तीर्णे मृदुलतरोत्तरच्छदे अस्मि- न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ ॥ तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः। अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥ अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम्। तपनीयमये हि पट्टके मुखगण्डूचजलं विधीयताम् ॥ ६६ ॥ क्षणमथ जगदम्ब मञ्चके अस्मि- न्मृदुतलतूलिकया विराजमाने। अतिरहसि मुदा शिवेन सार्धं सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥ मुक्ताकुन्देन्दुगौरां मणिमयकुटां रत्नताटङ्कयुक्ता- मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम्। नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ ६८ ॥ एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मे अपराधान्क्षमस्व। न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले ते अस्तु नित्यं निवासः ॥ ६९ ॥ पूजामिमां यः पठति प्रभाते मध्याह्नकाले यदि वा प्रदोषे। ध्रमार्थकामान्पुरुषो अभ्युपैति देहावसाने शिवभावमेति ॥ ७० ॥ पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः। पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१ ॥ प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत्। वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ देवीचतुःषष्ट्युपचारपूजास्तोत्रं सम्पूर्णम् ॥

पाठ जप: 0/108