સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

શ્રીનારાયણગુરુવિરચિતં શ્રીવિનાયકાષ્ટકમ્

श्रीनारायणगुरुविरचितं श्रीविनायकाष्टकम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 2
23px

श्रीविनायकाष्टकम्

नमद्देववृन्दं लसद्वेदकन्दं शिरःश्रीमदिन्दुं श्रितश्रीमुकुन्दम् । बृहच्चारुतुन्दं स्तुतश्रीसनन्दं जटाहीन्द्रकुन्दं भजेऽभीष्टसन्दम् ॥ १॥ किलद्देवगोत्रं कनद्धेमगात्रं सदानन्दमात्रं महाभक्तमित्रम् । शरच्चन्द्रवक्त्रं त्रयीपूतपात्रं। समस्तार्त्तिदात्रं भजे शक्तिपुत्रम् ॥ २॥ गलद्दानमालं चलद्भोगिमालं गलाम्भोदकालं सदा दानशीलम् । सुरारातिकालं महेशात्मबालं लसत्पुण्ड्रभालं भजे लोकमूलम् ॥ ३॥ उरस्तारहारं शरच्चन्द्रहीरं सुरश्रीविचारं हृतार्त्तारिभारम् । कटे दानपूरं जटाभोगिपूरं कलाबिन्दुतारं भजे शैववीरम् ॥ ४॥ करारूढमोक्षं विपद्भङ्गदक्षं चलत्सारसाक्षं पराशक्तिपक्षम् । श्रितामर्त्यवृक्षं सुरारिद्रुतक्षं परानन्दपक्षं भजे श्रीशिवाक्षम् ॥ ५॥ सदाशं सुरेशं सदा पातुमीशं निदानोद्भवं शाङ्करप्रेमकोशम् । धृतश्रीनिशेशं लसद्दन्तकोशं चलच्छूलपाशं भजे कृत्तपाशम् ॥ ६॥ ततानेकसन्तं सदा दानवन्तं बुधश्रीकरन्तं गजास्यं विभान्तम् । करात्मीयदन्तं त्रिलोककैकवृन्तं सुमन्दं परन्तं भजेऽहं भवन्तम् ॥ ७॥ शिवप्रेमपिण्डं परं स्वर्णवर्णं लसद्दन्तखण्डं सदानन्दपूर्णम् । विवर्णप्रभास्यं धृतस्वर्णभाण्डं चलच्चारुशुण्डं भजे दन्तितुण्डम् ॥ ८॥ इति श्रीनारायणगुरुविरचितं श्रीविनायकाष्टकम्
પાઠ જપ: 0/108