॥ বিষ্ণুলহরী ২ ॥
॥ विष्णुलहरी २ ॥
पुरातनानां वचसामगोचरं महेशितारं पुरुषोत्तमं पतिम् । अपास्य तं त्वां निरपत्रपा सती सती मतिर्म्मे कथमन्यमेष्यति ॥ ११ ॥
न जाग्रति स्वप्नदशान्तरेपि वा परं विजाने तव पादपकङ्जात् । इति स्म सत्यं यदि भाषितं मया कदा जगन्नायक मामुरीकुरु ॥ १२॥
इति दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् । अधुनापि न मां निभालयन्भजसे हा कथमश्मचित्तताम् ॥ १३॥
सुमहन्ति जगन्ति बिभ्रतः तव यो नाविरभूत् मनागपि । स कथं परमात्म देहिनः परमाणोर्म्मम धारणे श्रमः ॥ १४॥
नितरां विनयेन पृच्छते सुविचारोत्तमयच्छ यच्छ मे । करितो गिरितोप्यहं गुरुः त्वरितो नोद्धरसे यदाद्य माम् ॥ १५॥
न धनं न च राज्यसम्पदं न हि विद्यामिदमेकमर्त्थये । मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥ १६॥
अयमत्यधमोपि दुर्ग्गुणो दयनीयो भवता दयानिधे । वमतां फणिनां विषानलं किमु नानन्दयतीह चन्दनः ॥ १७॥
क्षुधितस्य न हि त्रपास्ति मे प्रतिपथ्यं प्रतिगृह्णतः कणान् । अकलङ्कयशस्करं न ते भवदीयोपि यदन्यमृच्छति ॥ १८॥
नितरां नरकेपि सीदतः किमु हीनं गलितत्रपश्य मे । भगवन्कुरु सूक्ष्ममीक्षणं परतस्त्वां जनतः किमालयेत् ॥ १९॥
नरके निजकर्म्मकल्पिता भजतो मे महतीरपि व्यथाः । इदमेकमसह्यमीक्षका यदनाथं निगदन्ति मां विभो ॥ २०॥
॥ इति विष्णुलहरी २ ॥