सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥ श्री गणेशस्तवराजः ॥

stotra-c45bba9a
रचयिता: पारंपरिक पाठ संख्या: 5
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px
श्रीगणेशस्तवराज भविष्योत्तरपुराणे ॐ नमः शिवाय अथ श्री गणेशस्तवराजः ॐ विघ्नेशो नः स पायाद्विहृतिषु जलधि पुष्कराग्रेण पीत्वा यस्मिन्नुद्धृत्य हस्तं वमति तदऽखिलं दृश्यते व्योम्नि देवैः । क्वाप्यऽनन्तः क्वच श्रीः क्वाप्यौर्बः क्वपि शैलः क्वचन मणिगणः क्वापि नक्रादिसत्वाः ॥ १ ॥ निर्विघ्नविश्वनिर्माणसिद्धये यदनुग्रहम् । मन्ये स वव्रे धातापि तस्मै विघजिते नमः ॥ २  ॥ सर्गारम्भेऽप्यजाताय बीजरुपेण तिष्ठते । धात्रा कृतप्रणामाय गणाधिपतये नमः ॥ ३ ॥ गणेशाय नमः प्रह ववाञ्छिताम्बुजभानवे । सितदंष्ट्राकुरस्फीतविघ्नौघतिमिरेन्दवे ॥ ४ ॥ प्रणमाम्यजमीशानं योगशास्त्रविशारदम । निःशेषगणवृन्दस्य नायकं सुविनायकम् ॥ ५ ॥ श्री ब्रह्मोवाच भगवञ्छ्रोतुमिच्छामि विस्तरेण यथायथम । स्तवराजस्य माहात्मयं स्वरुपं च विशेषतः ॥ ६ ॥ श्री नन्दिकेश्वर उवाच स्तवराजस्य माहात्मयं प्रवक्ष्यामि समासतः । श‍ृणुष्वावहितो भूत्वा सर्वसिद्धिकरं परम् ॥ ७ ॥ कर्मणा मनसा वाचा ये प्रपन्ना विनायकम् । ते तरन्ति महाघोरं संसारं कामवर्जिताः ॥ ८ ॥ सकृच्च जप्त्वा स्तवराजमुत्तमं तरत्यशेषं भवपाशपञ्जरम् । विमुच्यते संसृतिसागरान्नरो विभूतिमाप्नोति सुरैः सुदुर्लभाम् ॥ ९  ॥ यत्फलं लभते जप्त्वा स्वरुपं चापि यादृशम् । यः प्रातरुत्थितो विद्वान्ब्राह्मो वापि महूर्तके ॥ १० ॥ विषुवायनकालेषु पुण्ये वा समयान्तरे ॥ ११ ॥ सर्वदा वा जपञ्जन्तुः स्तवराजं स्तवोत्तमम् । यत्फलं लभते मर्त्यः तच्छृणुष्व चतुर्मुख ॥ १२  ॥ गङ्गाप्रवाहवत्तस्य वाग्विभूतिर्विजृम्भते । बृहस्पतिसमो बुद्या पुरन्दरसमः श्रिया । तेजसादित्यसङ्काशो भार्गवेण समो नये ॥ १३ ॥ धनदेन समो दाने तथा वित्तपरिग्रहे । धर्मराजसमो न्याये शिवभक्तो मया समः ॥ १४ ॥ प्रतापे वह्निसङ्काशः प्रसादे शशिना समः । बलेन मरुता तुल्यो भवता ब्रह्मावर्चसे ॥ १५ ॥ सर्वतत्वार्थविज्ञाने मयापि समतां व्रजेत् । एवमेतत्त्रिसन्ध्यं वै जपन्स्तवमनुत्तमम ॥ १६ ॥ सर्वान्कामान्नरः प्राप्य भुक्त्वा भोगान्यथेप्सितान् । सशरीरः सुरेन्द्रस्य पदं न्यस्यति मूर्धनि ॥ १७ ॥ प्राप्याष्टगुणमैश्वर्यं भुक्त्वा भोगान्सुपुष्कलान् । अक्षयो वीतशोकश्च निरातङ्को निरामयः ॥ १८ ॥ जरामरणनिर्मुक्तो वेदशास्त्रार्थकोविदः । सिद्धचारणगन्धर्वदेवविद्याधरादिभिः ॥  १९ ॥ संस्तूमानो मुनिभि: शंस्यमानो दिनेदिने । विचरत्यऽखिलाँल्लोकोन्बन्धुवर्गैः समं नरः ॥ १९ ॥ एवं चिराय निर्वाह्य देवस्यानुचरोभवेत् । स्तवरजं सकृज्जप्त्वा मुच्यते सर्वकिल्वषैः ॥ २० ॥ सर्वसिद्धिमवाप्नोति पुनात्यासप्तमं कुलम् । नाशयेद्विघ्नसङ्घातांस्तेन् वैनायकं स्मृतम् ॥ २१ ॥ स्तवराजमनुस्मरञ्जपन्हृदयाग्रे विलिखन्पठन्नपि । स सुरासुरसिद्धचारणैर्मुनिभिः प्रत्यहमेव पूज्यते ॥ २२ ॥ तरति च भवचक्रं सर्वमोहं निहन्ति क्षिपति च परवादं मान्यते बन्धुवर्गैः । अखिलमपि च लोकं क्षेमतामाशु नीत्वा व्रजति यतिभिरीड्यं शाश्वतं धाम मर्त्यः ॥ २३ ॥ यो जपति स्तवराजमशोकः क्षेमतमं पदमेति मनुष्यः । चारणसिद्धसुरैरभिवन्द्यो याति पदं परमं स विमुक्तः ॥ २४ ॥ जपेद्यः स्तवराजाख्यमिमं प्रातः स्तवोत्तमम् ॥ २५ ॥ तस्यापचारं क्षमते सर्वदैव विनायकः ॥ २६ ॥ सर्वान्निहन्ति वै विघ्नान्विपदश्च समन्ततः । अशेषाभिर्गणाघ्यक्षः सम्पद्भिरभिषिञ्चति ॥ २७॥ अस्य च प्रणता लक्ष्मीः कटाक्षानुविधायिनी । किं करोमीति वै भीत्या पुरस्तादेव तिष्ठति ॥ २८ ॥ तस्मान्निःश्रेयसं गन्तुमतिभक्त्या विचक्षणः । स्तवराजं जपेज्जन्तुर्धर्मकामार्थसिद्धये ॥ २९  ॥ आधिव्याध्यस्त्रशस्त्राग्नितमःपङ्कार्णवादिषु । भयेष्वन्येषु चाप्येतत्स्मरन्मुक्तो भवेन्नरः ॥ ३० ॥ स्तवराजं सकृज्जप्त्वा मार्गं गच्छति मानवः । न जातु जायते तस्य चौरव्याघ्रादिभिर्भयम् ॥ ३१ ॥ यथा वरिष्ठो देवानामशेषाणां विनायकः । तथा स्तवो वरिष्ठोयं स्तवानां शम्भुभावितः ॥ ३२ ॥ अवतीर्णो यदा देवो विघ्नराजो विनायकः । तदा लोकोपकारार्थं प्रोक्तोऽयं शम्भुना स्वयम् ॥ ३३ ॥ विनायकप्रियकरो देवस्य हृदयङ्गमः । जप्यः स्तवोऽयं यत्नेन धर्मकामार्थसिद्धये ॥ ३४ ॥ अस्य श्रीमहागणपतिस्तवराजमन्त्रस्य श्री ईश्वर ऋषिः नानावृत्तानि छन्दांसि विनायको देवता तत्पुरुष इति बीजं एकदन्त इति शक्तिः वक्रतुण्ड इति कीलकं आत्मनो वाङ्गनःकायोपार्जितपापनिवारणार्थं सर्वविघ्ननिवारणार्थं धर्मकामार्थसिद्ध्यर्थे पाठे विनियोगः । ध्यानं जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाब्दलेर्बन्धने स्त्रष्टुं वारिरुहोद्भवेन बिधिना शेषेण धर्तुं धराम् । पार्वत्या महिषासुरप्रमथने सिद्धाधिपैर्मुक्तये ध्यातः पञ्चशरेण लोकविजये पायात्स नागाननः ॥ श्री ईश्वर उवाच ॐकारममृतं ब्रह्म शिवमक्षरमव्ययम् । यमामनान्ति वेदेषु तं प्रपद्ये विनायकम् ॥ ३५ ॥ यतः प्रवृत्तिर्जगतां यः साक्षी हृदयस्थितः । आधारभूतो विश्वस्य तं प्रपद्ये विनायकम् ॥ ३६ ॥ यस्य प्रसादाच्छक्राद्याः प्राणन्ति निमिषन्ति च । प्रवर्तकं तं लोकानां प्रणमामि विनायकम् ॥ ३७ ॥ शिखाग्रे द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं विभुम् । युञ्जन्ति यं मरीच्याद्यास्तं नमामि गणाधिपम् ॥ ३८ ॥ लीलया लोकरक्षार्थं द्विधाभूतो महेश्वरः । यः स्वयं जगतः साक्षी तं वन्दे द्विरदाननम् ॥ ३९ ॥ विघ्नेश्वरं विधातारं धातारं जगतामपि । प्रणमामि गणाध्यक्षं प्रणतार्तिविनाशनम् ॥ ४० ॥ उत्सङ्गतल्पे यो देव्या भवान्याः क्रीडते विभु । बालो हरन्मनस्तस्यास्तं प्रपद्ये विनायकम् ॥ ४१ ॥ विधाय भूषणैश्चित्रैर्वेशकर्म मनोरमम् । यं हृष्टा पश्यतीशानी तं प्रपद्ये विनायकम् ॥ ४२ ॥ लीलया यः सृजँल्लोकान्भिन्दन्नपि मुहुर्मुहुः । सङ्क्रीडते महासत्वस्तं नतोऽस्मि गणाधिपम् ॥ ४२ ॥ सिन्दूरितमहाकुम्भस्तुङ्गदन्तः सुभैरवः । भिनत्ति दैत्यकरिणस्तं वन्दे द्विरडननम् ॥ ४३ ॥ यस्य मूर्ति व्रजन्त्याशु मदामोदानुषङ्गिणः । भ्रमरास्तीव्रसंरावीस्तं नमामि विनायकम् ॥ ४४ ॥ गम्भीरभीमनिनदं श्रुत्वा यद्बृंहितं क्षणात् । पतन्त्यसुरनागेन्द्रास्तं वन्दे द्विरदाननम् ॥ ४५ ॥ यो भिनत्ति गिरीन्सर्वानिघोरनिर्घातभैरवैः । रवैः सन्त्रासजननैस्तं वन्दे द्विरदाननम् ॥ ४६ ॥ लीलया प्रहता येन् पादाभ्यां धरणी क्षणात् । संशीर्यते सशैलौघा तं वन्दे चण्डविक्रमम् ॥ ४७॥ यत्कराताडनैर्भिन्नमम्भः शतसहस्रधा । विशीर्यते समुद्राणां तं नतोऽस्मि गणाधिपम् ॥ ४८ ॥ विमुखा यत्र दृश्यन्ते भ्रष्टवीर्याः पदच्युताः । निष्प्रभा विबुधाः सद्यस्तं प्रपद्ये विनायकम् ॥ ४९॥ यद्भ् प्रणिहितां लक्ष्मीं लभन्ते वासवादयः । स्वतन्त्रमेकं नेतारं विघ्नराजं नमाम्यहम् ॥ ५०॥ यत्पादपांसुनिचयं विभ्राणा मणिमौलिषु । अमरा बहु मन्यन्ते तं नतोऽस्मि गणाधिपम् ॥ ॥ वेदान्तगीतं पुरुषं वरेन्यमऽभयप्रदम् । हिरण्मयपुरान्तःस्थं तमस्मि शरणं गतः ॥ ॥ चित्सुधानन्दसन्मात्रं परानन्दस्वरुपिणम् । निष्कलं निर्मलं साक्षाद्विनायकमुपैमि तम् ॥ ॥ अनपायं च सद्भुतं भूतिदं भूतिवर्धनम् । नमामि सत्यंविज्ञानमनन्तं ब्रह्मरुपिणम् ॥ ॥ अनाद्यन्तं महादेवप्रियपुत्रं मनोरमम् ॥ ॥ द्विपाननं विभुं साक्षादात्मानं तं नमाम्यहम् ॥ ॥ विश्वामरेश्वरैर्वन्द्यमाधारं जगतामपि । प्रणमामि गणाध्यक्षं प्रणताज्ञानमोचनम् ॥ ॥ शिखाग्रे द्वादशाङ्गुल्ये स्थितं स्फटिकसन्निभम् । गोक्षीरधवलाकारं प्रणमामि गजाननम् ॥ ॥ अनाधारं नवाधारमनन्ताधारसंस्थितम् । धातारं च विधातारं तमस्मि शरणं गतः ॥ ॥ अनन्तदृष्टिं लोकादिमनन्तं विद्रुमप्रभम् । अप्रतर्क्यमनिर्देश्यं निरालम्बं नमाम्यहम् ॥ ॥ भूतालयं जगद्योनिमणीयांसमणोरपि । स्वसंवेद्यमसंवेद्यं वेद्यावेद्यं नमाम्यहम् ॥ ॥ प्रमाणप्रत्ययातीतं हंसमव्यक्तलक्षणम् । अनाविलमनाकारं तमस्मि शरणं गतः ॥ ॥ विश्वाकारमनाकारं विश्वावासमनामयम् । सकलं निष्कलं नित्यं नित्यानित्यं नमाम्यहम् ॥ ॥ संसारवैद्यं सर्वज्ञं सर्वभेषजभेषजम् । आत्मानं सदसत्व्यक्तं धातारं प्रणमाम्यहम् ॥ ॥ भ्रूमध्ये संस्थितं देवं नाभिमध्ये प्रतिष्ठितम् । हृन्मध्ये दीपवत्संस्थं वन्दे सर्वस्य मध्यगम् ॥ ॥ हृत्पुण्डरीकनिलयं सूर्यमण्डलनिष्ठितम् । तारकान्तरसंस्थानं तारकं तं नमाम्यहम् ॥ ॥ तेजस्विनं विकर्तारं सर्वकारणकारणम् । भक्तिगम्यमहं वन्दे प्रणवप्रतिपादितम् ॥ ॥ अन्तर्योगरतैर्युक्तैः कल्पितैः स्वस्तिकासनैः ॥ ॥ बद्धं हृत्कर्णिकामध्ये ध्यानगम्यं नमाम्यहम् ॥ ॥ ध्येयं दुर्ज्ञेयमद्वैतं त्रयीसारं त्रिलोचनम् । आत्मानं त्रिपुरारातेः प्रियसूनुं नमाम्यहम् ॥ ॥ स्कन्दप्रियं स्कन्दगुरुं स्कन्दस्याग्रजमेव च । स्कन्देन सहितं शश्वन्नमामि स्कन्दवत्सलम् ॥ ॥ नमस्ते विघ्नराजाय भक्तविघ्नविनाशिने । विघ्नाध्यक्षाय विघ्नानां निहन्त्रे विश्वचक्षुषे ॥ ॥ विघ्नदात्रेऽप्यभक्तानां भक्तानां विघ्नहारिणे ॥ ॥ विघ्नेश्वराय वीराय विघ्नेशाय नमोनमः ॥ ॥ कुलाद्रिमेरुकैलासशिखराणां प्रभेदिने । दन्तभिन्नाभ्रमालाय करिराजाय ते नमः ॥ ॥ किरीटिने कुण्डलिने मालिने हारिणे तथा । नमो मौञ्जीसनाथाय जटिने ब्रह्मचारिणे ॥ ॥ डिण्डिमुण्डाय चण्डाय नमोऽध्ययनशीलिने ॥ ॥ वेदाध्ययनयुक्ताय सामगानपराय च । त्र्यक्षाय च वरिष्ठाय नमश्चन्द्रशिखण्डिने ॥ ॥ कपर्दिने करालाय शङ्करप्रियसूनवे । सुताय हैमवत्याश्च हर्त्रे च सुरविद्विषाम् ॥ ॥ ऐरावणादिभिर्दिव्यैर्दिग्गजैः संस्तुताय च । स्वबृंहितपरित्रस्तैर्नमस्ते मुक्तिहेतवे ॥ ॥ कूष्माण्डगणनाथाय गणानां पतये नमः । वज्रिणाराधितायैव वज्रिवज्रनिवारिणे ॥ ॥ पूष्णो दन्तभिदे साक्षान्मरुतां भीषणाय च । ब्रह्मणश्च शिरोहर्त्रे विवस्वद्बन्धनाय च ॥ ॥ अग्नेश्चैव सरस्वत्या इन्द्रस्य च बलच्छिदे । भैरवाय सुभीमाय भयानकरवाय च ॥ ॥ विभीषणाय भीष्माय नागाभरणधारिणे । प्रमत्ताय प्रचण्डाय वक्रतुण्डाय ते नमः ॥ ॥ हेरम्बाय नमस्तुभ्यं प्रलम्बजठराय च । आखुवाहाय देवाय चैकदन्ताय ते नमः ॥ ॥ शूर्पकर्णाय शूराय परश्वधधराय च । सृणिहस्ताय धीराय नमः पाशासिपाणये ॥ ॥ धारणाय नमस्तुभ्यं धारणाभिरताय च । धारणाभ्यासयुक्तानां पुरस्तात्संस्तुताय च ॥ ॥ प्रत्याहाराय वै तुभ्यं प्रत्याहाररताय च । प्रत्याहाररतानां च प्रत्याहारस्थितात्मने ॥ ॥ विघ्नाध्यक्षाय दक्षाय लोकाध्यक्षाय धीमते । भूताध्यक्षाय भव्याय गणाध्यक्षाय ते नमः ॥ ॥ योगपीठान्तरस्थाय योगिने योगधारिणे । योगिनां हृदिसंस्थाय योगगम्याय ते नमः ॥ ॥ ध्यानाय ध्यानगम्याय शिवध्यानपराय च । ध्येयानामपि ध्येयाय नमो ध्येयतमाय च ॥ ॥ सप्तपातालपादाय सप्तब्दीपोरुजङ्घिने । नमो दिग्बाहवे तुभ्यं व्योमदेहाय ते नमः ॥ ॥ सोमसूर्याग्निनेत्राय ब्रह्मविद्यामदाम्भसे । ब्रह्माण्डकुण्डपीठाय हृदयालानकाय च ॥ ॥ ज्योतिर्मण्डलपुच्छाय हृद्यालानकाय च । ध्यानार्द्रबद्धपादाय पूजाधोरणधारिणे ॥ ॥ सोमार्कबिम्बघण्टाय दिक्करीन्द्रवियोगिने । आकाशसरसो मध्ये क्रीडागहनशालिने ॥ ॥ सुमेरुदन्तकोशाय पृथिवीस्थलगाय च । सुघोषाय सुभीमाय सुरकुञ्जरभेदिने ॥ ॥ हेमाद्रिकूटभेत्त्रे च दैत्यदानवमर्दिने । गजाकाराय देवाय गजराजाय ते नमः ॥ ॥ ब्रह्मणे ब्रह्मरुपाय ब्रह्मगोत्रेऽव्ययाय च । ब्रह्मघ्ने ब्रह्मणायैव ब्रह्मणः प्रियबन्धवे ॥ ॥ यज्ञाय यज्ञगोप्त्रे च यज्ञानां फलदायिने ॥ ॥ यज्ञहर्त्रे यज्ञकर्त्रे सर्वयज्ञमयाय च । सर्वनेत्राधिवासाय सर्वैश्वर्यप्रदायिने । गुहाशयाय गुह्याय योगिने ब्रह्मवादिने ॥ ॥ १०० ॥ ॥ ॐ गं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ॥ ॥ एकाक्षरपरायैव मायिने ब्रह्मचारिणे । भूतानां भुवनेशानां पतये पापहारिणे ॥ ॥ सर्वारम्भनिहन्त्रे च विमुखानां निजार्चने । नमो नमो गणेशाय विघ्नेशाय नमो नमः ॥ ॥ त्रिपुरं दग्धुकामेन पूजिताय त्रिशूलिना । दयाशील दयाहार दयापर नमोऽस्तु ते ॥ ॥ विनायकाय वै तुभ्यं विकृताय नमो नमः । नमस्तुभ्यं जगद्धात्रे नमस्तुभ्यं वियोगिने ॥ ॥ नमस्तुभ्यं त्रिनेत्राय त्रिनेत्रप्रियसूनवे । सप्तकोटिमहामन्त्रैर्मन्त्रितावयवाय ते ॥ ॥ मन्त्राय नम्त्रिणां नित्यं मन्त्राणां फलदायिने । लीलया लोकरक्षार्थं विभक्तनिजमूर्तये ॥ ॥ स्वयं शिवाय देवाय लोकक्षेमानुपालिने । नमो नमः क्षमाभर्त्रे नमः क्षेमतमाय च ॥ ॥ दयामयाय देवाय सर्वभूतदयालवे ॥ ॥ दयाकर दयारुप दयामूर्ते दयापर ॥ ॥ दयाप्राप्य दयासार दयाकृतिरतात्मक ॥ ॥ जगतां तु दयाकर्त्रे सर्वकर्त्रे नमो नमः ॥ ॥ नमः कारुण्यदेहाय वीराय शुभदन्तिने । भक्तिगम्याय भक्तानां दुःखहर्त्रे नमोऽस्तु ते ॥ ॥ नमः समस्तगीर्वाणवन्दिताङिघ्रयुगाय ते । जगतां तस्थुषां भर्त्रे विघ्नहर्त्रे नमोऽस्तु ते ॥ ॥ नमो नमस्ते गणनायकाय सुनायकायाखिलनायकाय । विनायकायाभयदायकाय नमः शुभानामुपनायकाय ॥ ॥ गणाधिराजाय गणानुशास्त्रे गजाधिराजाय गजाननाय । शताननायामितमाननाय नमो नमो दैत्यविनाशनाय ॥ ॥ अनामयायामलधीमयाय । स्वमाययाविष्टजगन्मयाय । अमेयमायाविकसन्मयाय नमो नमस्तेऽस्तु मनोमयाय ॥ ॥ नमस्ते समस्ताधिनाथाधिकर्त्रे नमस्ते समस्तोरुविस्तारभाजे । नमस्ते समस्ताधिकायातिभूम्ने नमस्ते पुनर्व्यस्तविन्यस्तधाम्ने ॥ ॥ पात्रे सुराणां प्रमथेश्वराणां शास्त्रेऽनुशास्त्रे सचराचरस्य । नेत्रे प्रनेत्रे च शरीरभाजां धात्रे वराणां भवते नमोऽस्ते ॥ ॥ नमोऽस्तु ते विघ्नविनाशकाय नमोऽस्तु ते भक्तभयापहाय । नमोऽस्तु ते मुक्तमनस्थिताय नमश्च भूयो गणनायकाय ॥ ॥ अखिलभुवनभर्त्रे सम्पदामेकदात्रे निखिलतिमिरभेत्त्रे निष्कलायाव्ययाय । प्रणतमनुजगोप्त्रे प्राणिनां त्राणकर्त्रे सकलविबुधशास्त्रे विश्वनेत्रे नमोऽस्तु ॥ ॥ दशनकुललिशभिन्नैर्निर्गतेर्दिग्गजानां विलसितशुभदन्तं मौक्तिकैश्चन्द्रगौरैः । भवन्मुपसरन्तं प्रेक्ष्य गौरी भवन्तं सुदृढमथ कराभ्यां श्लिष्यते प्रेमनुन्ना ॥ ॥ मृदुनि ललितशीते तल्परङ्गे भवान्याः शुभविलसितभावां नृत्यलीलां विधाय । अचलदुहितुरङ्कादऽङ्कमन्यं विसर्पन्- पितुरुपहरसि त्वं नृत्यहर्षोपहारम् ॥ ॥ भुजगवलयितेनोपस्पृश्न्पाणिना त्वां सरभसमथ बाह्वोरन्तराले निवेश्य । कलमधुरसुगीतं नृत्तमालोकयंस्ते कलमऽविकलतालं चुम्बते हस्तेपद्मे ॥ ॥ कुवलयशतशीतैर्भूरिकल्हारहृद्यैः तव मुहुरपि गात्रस्पर्शनैः सम्प्रहृष्यन् । क्षिपति च सुविशाले स्वाङ्कमध्ये भवन्तं तव मुहुरनुरागान्मूर्ध्नि जिघ्रन्महेशः ॥ ॥ बालोऽबालपराक्रमः सुरगणैः सम्प्रार्थ्यसेऽहर्निशं गायन्किम्पुरुषङ्गनाविरचितैः स्तोत्रैरभिष्टूयसे । हाहाहूहुकतुम्बुरुप्रभृतिभिस्त्वं गीयसे नारद स्तोत्रैरद्भुतचेष्टितैः प्रतिदिनं प्रोद्धोषसे सामभिः ॥ ॥ त्वां नमन्ति सुरसिद्धचारणा- स्त्वां यजन्ति निखिला द्विजातयः । त्वां पठन्ति मुनयः पुराविद- स्त्वां स्मरन्ति यतयः सनातनाः ॥ ॥ परं पुराणं गुणिनं महान्तं हिरण्मयं पुरुषं योगगम्यम् । यमामनन्त्यात्मभुवं मनीषिणो विपस्चितं कविमप्यक्षयं च ॥ ॥ गणानान्त्वा गणनाथं सुरेन्द्रं कविं कवीनामतिमेध्यविग्रहम् । ज्येष्ठराजमृषभं केतुमेकमानः श‍ृण्वन्नूतिभिः सीद शश्वत् ॥ ॥ नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूतये । नमो नमोनन्तसुखैकदायिने नमो नमोनन्तसुखैकसिन्धवे ॥ ॥ नमो नमः शाश्वतशान्तिहेतवे क्षमादयापूरितचारुचेतसे । गजेन्द्ररुपाय गणेश्वराय ते परस्य पुंसः प्रथमाय सूनवे ॥ ॥ नमो नमः कारणकारणाय ते नमो नमो मङ्गलमङ्गलात्मने । नमो नमो वेदविदां मनीषिणा- मुपासनीयाय नमो नमो नमः ॥ ॥ ३॥ ॥ श्री ईश्वर उवाच वैनायकं स्तवं पुण्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुरारोग्यवर्धनम् ॥ ॥ नृपाणां सततं रक्षा द्विजानां च विशेषतः । स्तवराज इति ख्यातं सर्व सिद्धिकरं परम् ॥ ॥ यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते । रुपं वीर्यं बलं प्रज्ञां यशश्चायुः समन्वितम् ॥ ॥ मनीषां सिद्धिमारोग्यं श्रियमप्यक्षयिष्णुताम् । सर्वलोकाधिपत्यं च सर्वदेवाधिराजताम् ॥ ॥ प्राप्याष्टगुणमैश्वर्यं च सर्वदेवाधिराजताम् ॥ ॥ प्राप्याष्टगुणमैश्वर्यं प्राप्य भूतिं च शाश्वतीम् । उद्धृत्यासप्तमं वंशं दुस्तराद्भ्वसागरात् ॥ ॥ काञ्चनेन विमानेन शतनामायुतेन च । विचरत्यखिलाँल्लोकान्सशरीरो गणाधिपः ॥ ॥ भत्प्रिश्च भवेन्मर्त्यः सर्वदेवप्रियः सदा । प्रियौ विनायकस्यापि प्रियोस्माकं विशेषतः ॥ ॥ सङ्कल्पसिद्धः सर्वज्ञः सर्वभूतहिते रतः । स्तवराजं जपन्मर्त्यः सुहृद्भिः सह मोदते॥ ॥ स्तवराजजपासक्तभावयुक्तस्य धीमतः । अस्मिञ्जपन्त्रयेप्यस्ति नासाध्यं न च दुष्करम् ॥ ॥ तस्मात्सर्वप्रयत्नेन स्तवराजं जपेन्नरः । सकृज्जप्त्वा लभेन्मुक्तिं दुःस्वप्नेषु भयेष्वपि ॥ ॥ सर्वं तरति पाष्मानं ब्रह्मभूतो भवेन्नरः । तस्मात्सम्पूजितो ह्येष धर्मकामार्थसिद्धये ॥ ॥ स्तवराजमिमं स्तवोत्तमं प्रलपंश्चैव पठन्स्मरन्नपि । कुरुते शुभकर्म मानवः शुभमभ्येति शुभानि चाक्षुते ॥ ॥ बहुनात्र किमुक्तेन स्तवराजमिमं जपन् । सर्वं तद्भद्रमाद्यौति यद्यदिच्छति शाश्वतम् ॥ ॥ स्तवानाम्प्यशेषाणां वरिष्ठोयं यतः स्तवः । स्तवराज इति ख्यातिं सर्वलोकेषु यास्यति ॥ ॥ श्रीनन्दिकेश्वर उवाच । इत्थमेषं स्तवः प्रोक्तः प्रशस्तः शम्भुनास्वयम् । सर्वसिद्धिकरो नॄणां सर्वाभीषटफलप्रदः ॥ ॥ तस्मादनेन स्तोत्रेण स्तवराजेन मानवः । स्तवञ्जपन्स्मरन्वापि कुर्वन्निर्वाणमृच्छति ॥ ॥ एवं ते कथितं ह्येतत्क्रमेण परिपृच्छतः । विनायकस्य माहात्म्वं प्रतिष्ठाचर्नयोर्विधिः ॥ ॥ प्रशंसा ब्रह्मगायत्र्याः कल्पस्तस्याश्च शोभनः । उक्तमेतत्परं ब्रह्म किं भूयः श्रोतुमिच्छसि ॥ ॥ इति विरचयति स्म त्र्यम्बकः स्तोत्रमेतद्वरमिभवदनस्य स्वामिनोऽत्यादरेण । गुरुवरचरणाग्रान्मूर्ध्नि कृत्वा वराज्ञां पठितमिह वरेण्यं धोरविघ्नौघशान्त्यै ॥ ॥ लाक्षासिन्दूरवर्णं सुरवरनमितं मोदकर्मोदितास्यं हस्ते दन्तं ददानं दिनकरसदृशं तेजसोग्रं त्रिनेत्रम् । दक्षे रत्नाक्षसूत्रं वरपरशुधरं साखुसिंहासनस्थं गाङ्गेयं रौद्रमूर्तिं त्रिपुरवधकरं विघ्नभक्षं नमामि ॥ ॥ नमताशेषविघ्नौधवारणं वारणाननम् । कारणं सर्वसिद्धीनां दुरितार्णवतारणम् ॥ ॥ शङ्कर जगदम्बिकयोरङ्के पङ्केन खेलन्तम् । लम्बोदरमवलम्बे स्तम्भेरमराजचारुमुखम् ॥ ॥ इति श्रीभविष्योत्तर उत्तरखण्डे नन्दिकेश्वरसंवादे गणेशस्तवराजः
पाठ जप: 0/108