सनातन स्तोत्र संग्रह
नवग्रह स्तोत्रम्
सनातन देव

॥ सूर्यमण्डलस्तोत्रम् ॥

stotra-c38930a3
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

ध्यानम्  नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसम्भवात्मने। सहस्रयोगोद्भवभावभागिने सहस्रसङ्ख्यायुगधारिणे नमः॥

स्तोत्रम्  यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम्। दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥१॥

यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम्। तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥२॥

यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम्। समस्त-तेजोमय-दिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम्॥३॥

यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम्। यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥४॥

यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुःसामसु सम्प्रगीतम्। प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम्॥५॥

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण-सिद्धसङ्घाः। यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम्॥६॥

यन्मण्डलं सर्वजनैश्च पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके। यत्कालकालाद्यमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम्॥७॥

यन्मण्डलं विष्णुचातुर्मुखाख्यं यदक्षरं पापहरं जनानाम्। यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥८॥

यन्मण्डलं विश्वसृजं प्रसिद्धमुत्पत्ति-रक्षा-प्रलय-प्रगल्भम्। यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम्॥९॥

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम्। सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम्॥१०॥

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण-सिद्धसङ्घाः। यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम्॥११॥

यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम्। तत्सर्ववेद्यं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥१२॥

सूर्यमण्डलसुस्तोत्रं यः पठेत् सततं नरः। सर्वपापविशुद्धात्मा सूर्यलोके महीयते॥१३॥

॥ इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे सूर्यमण्डलस्तोत्रं सम्पूर्णम् ॥

पाठ जप: 0/108