சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

காமாஸுரேணப்ரோக்தா விகடஸ்துதி꞉

कामासुरेणप्रोक्ता विकटस्तुतिः
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 7
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px
विकटस्तुतिः कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः । विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥ ३२॥ प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् । तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥ ३३॥ कामासुर उवाच - नमस्ते विकटायैव गणेशाय परात्मने । सर्वपूज्याय सर्वेश! देवासुरमयाय च ॥ ३४॥ अनन्तमाययायुक्त! ब्रह्मभूतस्वरूपिणे । गजाननाय हेरम्ब! देवेशाय नमो नमः ॥ ३५॥ शूर्पकर्णाय विघ्नानां चालकाय नमो नमः । भक्तानां विघ्नहर्ते ते ह्यभक्तानां विनाशिने ॥ ३६॥ स्वानन्दवासिने तुभ्यं योगाकारस्वरूपिणे । योगिभ्यः शान्तिदात्रे ते योगेशाय नमो नमः ॥ ३७॥ अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे । ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥ ३८॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥ ३९॥ त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च । लम्बोदराय ब्रह्मेश! ब्रह्मणां पतये नमः ॥ ४०॥ देवानां पालकायैव दैत्येभ्यो वरदायिने । सर्वेषां समभावाय ढुण्ढिराजाय ते नमः ॥ ४१॥ विष्णुपुत्राय शम्भोश्च शक्तेः पुत्राय काश्यप! । वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥ ४२॥ किं स्तौमि त्वां गणाधीश! यत्र योगीन्द्रमुख्यकाः । वेदादयो विशेषेण शान्तिं प्राप्ताः स्वभावतः ॥ ४३॥ मायासुखं विशेषेण भ्रान्तिदं सर्वजन्तवे । त्यक्त्वा तल्लभ्यसे नाथ! भक्त्या विकटया प्रभो! ॥ ४४॥ अशान्तं मायया युक्तं चित्तं भ्रान्तियुतं सदा । विकटे शान्तिमापन्नमतस्त्वं विकटो मतः ॥ ४५॥ विकट उवाच - त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् । श‍ृण्वते पठते चैवान्ते स्वानन्दप्रदायकम् ॥ ४९॥ इति कामासुरेणप्रोक्ता विकटस्तुतिः
ஜப எண்ணிக்கை: 0/108