సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

తురేణ ప్రోక్తా మహోదరస్తుతిః

तुरेण प्रोक्ता महोदरस्तुतिः
రచయిత: పారంపరిక వీక్షణలు: 4
23px

महोदरस्तुतिः

समागत्य स दैत्येन्द्रो ननाम स महोदरम् । भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥ २२॥ पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः । कृत्वा करपुटं मोहस्तुष्टाव च महोदरम् ॥ २३॥ मोहासुर उवाच - नमस्ते ब्रह्मरूपाय महोदर! सुरूपिणे । सर्वेषां भोगभोक्त्रे वै देहदेहिमयाय च ॥ २४॥ मूषकारूढदेवाय त्रिनेत्राय नमो नमः । चतुर्भुजाय देवानां पतये ते नमो नमः ॥ २५॥ अनादये च सर्वेषामादिरूपाय ते नमः । विनायकाय हेरम्ब! दीनपालाय वै नमः ॥ २६॥ गणेशाय निजानन्दपतये ब्रह्मनायक! । सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥ २७॥ ब्रह्मभ्यो ब्रह्मदात्रे वै योगशान्तिमयाय च । योगिनां पतये तुभ्यं योगिभ्यो योगदायक ! ॥ २८॥ सिद्धिबुद्धिपते! नाथ! एकदन्ताय ते नमः । शूर्पकर्णाय शूराय वीराय च नमो नमः ॥ २९॥ सर्वेषां मोहकर्त्रे वै भक्तेभ्यः सुखदायिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ३०॥ मायाविने च मायाया आधाराय नमो नमः । मायिभ्यो मायया चैव भ्रान्तिदाय नमो नमः ॥ ३१॥ किं स्तौमि त्वां गणाध्यक्ष! यत्र वेदाः सहाङ्गकाः । शान्तिं प्राप्तास्तथाऽपि त्वं संस्तुतोऽसि दयापरः ॥ ३२॥ धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च । धन्यं वपुश्च देवेश! येन दृष्टं पदाम्बुजम् ॥ ३३॥ महोदर उवाच । मदीयं सोत्रमेतद्वै सर्वदं यत्त्वया कृतम् । भविष्यति जनायैव पठते श‍ृण्वतेऽसुर! ॥ ३७॥ मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् । धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥ ३८॥ इति तुरेण प्रोक्ता महोदरस्तुतिः
జప గణన: 0/108