सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥ श्रीमच्छङ्कराचार्यविरचितं गणपतिस्तोत्रम् ॥

stotra-bb7f021a
रचयिता: पारंपरिक पाठ संख्या: 7
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px
गणपतिस्तोत्रम् सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् । चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १॥ किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ङ्घ्रयष्टिकम् । प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥ २॥ सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् । कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥ ३॥ विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं गिरीशदर्शनेच्छया समर्पितं पराशया । निरन्तरं सुरासुरैः सपुत्रवामलोचनैः महामखेष्टमिष्टकर्मसु (स्मृतं) भजामि तुन्दिलम् ॥ ४॥ मदौघलुब्धचञ्चलार्कमञ्जुगुञ्जितारवं प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् । अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥ ५॥ दारिद्र्यविद्रावणमाशु कामदं स्तोत्रं पठेदेतदजस्रमादरात् । पुत्रीकलत्रस्वजनेषु मैत्री पुमान्मवेदेकवरप्रसादात् ॥६॥ इति श्रीमच्छङ्कराचार्यविरचितं गणपतिस्तोत्रम् ।
पाठ जप: 0/108