ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಶ್ರೀಗಣೇಶಾಷ್ಟೋತ್ತರಶತನಾಮಸ್ತೋತ್ರಂ

श्रीगणेशाष्टोत्तरशतनामस्तोत्रम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 4
23px

गणेश अष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाय नमः । यम उवाच । मन्दारमालाशमिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् । पुष्पं तयोः पत्रयुतं च शूराः सन्त्यज्य दूरं चरत प्रभीताः ॥ ३३॥ दूर्वायुतं विघ्नहरस्य गाथां सङ्गायमानं यदि पापयुक्तम् । पूजादिकारं गणनायकस्य सन्त्यज्य दूरं चरत प्रभीताः ॥ ३४॥ (अष्टोत्तरशतनामस्तोत्रं प्रारभ्यते) गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् । वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्तमेवं त्यजत प्रभीताः ॥ ३५॥ अनेकविघ्नान्तक वक्रतुण्ड स्वसंज्ञवासिंश्च चतुर्भुजेति । कवीश देवान्तकनाशकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३६॥ महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र । परेश धरणीधर एकदन्त वदन्तमेवं त्यजत प्रभीताः ॥ ३७॥ प्रमोदमोदेति नरान्तकारे षडूर्मिहन्तर्गजकर्ण ढुण्ढे । द्वन्द्वारिसिन्धौ स्थिरभावकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३८॥ विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र । अनादिपूज्याखुग सर्वपूज्य वदन्तमेवं त्यजत प्रभीताः ॥ ३९॥ विधेर्ज लम्बोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन् । सुरासुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥ ४०॥ वरिन् महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह । दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥ ४१॥ अणोरणीयन् महतो महीयन् रवेर्ज योगेश वरिष्ठराज । निधीश मन्त्रेश च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४२॥ वरप्रदातर्ह्यदितेश्च सूनो पराशरज्ञानद तारवक्त्र । गुहाग्रज ब्रह्मप पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४३॥ सिन्धोश्च शत्रो परशुप्रपाणे शमीश पुष्पप्रिय विघ्नहारिन् । दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत प्रभीताः ॥ ४४॥ धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः । अमेयमायामितविक्रमेति वदन्तमेवं त्यजत प्रभीताः ॥ ४५॥ द्विधा चतुर्थीप्रिय कश्यपाज्ज धनप्रद ज्ञानप्रद प्रकाश । चिन्तामणे चित्तविहारकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४६॥ यमस्य शत्रो अभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो । विदेह स्वानन्द अयोगयोग वदन्तमेवं त्यजत प्रभीताः ॥ ४७॥ गणस्य शत्रो कमलस्य शत्रो समस्थ भावज्ञ च भालचन्द्र । अनादिमध्यान्तमयप्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४८॥ विभो जगद्रूप गुणेश भूमन् पुष्टेः पते आखुगतेति बोध । कर्तश्च पातश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥ ४९॥ (फलश्रुतिः) इदमष्टोत्तरशतं नाम्नां तत् प्रपठन्ति ये । श‍ृण्वन्ति तेषु कुरुत भीता मा वै प्रवेशनम् ॥ ५०॥ भुक्तिमुक्तिप्रदं ढुण्ढेर्धनधान्यप्रवर्धनम् । ब्रह्मभूयकरं स्तोत्रं जपतो नित्यमादरात् ॥ ५१॥ यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः । धामानि तत्र कुरुत सम्भीता मा प्रवेशनम् ॥ ५२॥ तेन संस्थापिताः सर्वे स्वस्वकार्येषु सेवकाः । केशाद्यास्तत्र के यूयं वयं भजत तं सदा ॥ ५३॥ एवमुक्त्वा यमः सर्वान् किङ्करान् मौनमादधे । यामाः सर्वे गणेशानं भजते भावसंयुताः ॥ ५४॥ इदं शमीभवं पुण्यं माहात्म्यं यः श‍ृणोति चेत् । पठति सिद्धिदं तस्य मन्दारस्य भविष्यति ॥ ५५॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे श्रीगणेश अष्टोत्तरशतनामस्तोत्रम् 
ಜಪ ಎಣಿಕೆ: 0/108