ಬ್ರಹ್ಮಾಂಡಪುರಾಣೇ ಬ್ರಹ್ಮನಾರದಸಂವಾದೇ ಶ್ರೀವೇಂಕಟೇಶಸ್ತೋತ್ರಂ
Shree Venkatesha Stotram श्रीवेङ्कटेशस्तोत्रम्
वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः । सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १॥
जनार्दनः पद्मनाभो वेङ्कटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २॥
गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३॥
श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४॥
रमानाथो महीभर्ता भूधरः पुरुषोत्तमः । चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५॥
श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः । श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६॥
भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः । अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७॥
सर्वदेवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८॥
इतीदं कीर्तितं यस्य विष्णोरमिततेजसः । त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९॥
राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे । भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १०॥
अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् । रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥ ११॥
यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः । ऐश्वर्यं राजसम्मानं भक्तिमुक्तिफलप्रदम् ॥ १२॥
विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् । सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥ १३॥
मायावी परमानन्दं त्यक्त्वा वैङ्कुण्ठमुत्तमम् । स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४॥
कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १५॥
वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन । वेङ्कटेशसमो देवो न भूतो न भविष्यति । एतेन सत्य वाक्येन सर्वार्थान् सादयाम्यहम् ॥ १६॥
॥ इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥