সনাতন স্তোত্র মঞ্জরী
সূক্তম্
সনাতন দেব

সূর্যসূক্তম্

सूर्यसूक्तम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px

शुक्लयजुर्वेदसूर्यसूक्तम्

विभ्राड्बृहत्पिबतुसोम्म्यम्मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतोयोऽभिरक्षतित्मनाप्रजाः पुपोषपुरुधाव्विराजति ॥ १॥

उदुत्त्यञ्जातवेदसन्देवमुदवंव्वहन्ति केतवः ॥ दृशेव्विश्वायसूर्यम् ॥ २ ॥

येनपावकचक्षसाभुरण्ण्यन्तन्जनाँ२ऽअनु त्वं वरुण पश्यसि ॥ ३

दैव्यावद्ध्वर्यूऽआगत गुँ रथेन सूर्यत्वचा ॥ मद्ध्वायज्ञ गुँ  समञ्जाथे ॥ तम्प्रत्क्नथायंव्वेनश्चित्रन्देवानाम् ॥ ४॥

तम्प्रत्नथापूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् ॥ प्रतीचीनं वृजनं दोहसे धुनिमाशुं जयन्तमनुयासु वर्धसे ॥ ५॥

अयं वेनश्चोदयत्पृश्निगर्भाज्ज्योतिर्जरायुः रजसो विमाने । इममपां सङ्गमे सूर्यस्य शिशुं न विप्राः मतिभिः रिहन्ति ॥ ६॥

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ॥ आप्राद्यावापृथिवी अन्तरिक्षं सूर्य सूर्य आत्मा जगतस्तस्थुषश्च ॥ ७॥

आन इडाभिः विदथे सुशस्ति विश्वानरः सविता देव एतु ॥ अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥ ८  ॥

यदद्य कच्च वृत्रहन्नुदगा अभिसूर्य ॥ सर्वं तदिन्द्र ते वशे ॥ ९॥

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥ १०॥

तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोः वितत सञ्जभार ॥ यदेदयुक्तहरितः सधस्थादाद्रात्रीवासस्तनुते सिमस्मै ॥ ११॥

तन्मित्रस्य वरुणस्याभिचक्षे सूर्योरूपं कृणुते द्योरुपस्थे । अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सम्भरन्ति ॥ १२॥

बण्महानसि सूर्य बडादित्य महानसि ॥ महस्ते सतो महिमा पनस्यतेऽद्धा देव महानसि ॥ १३॥

बट्सूर्य्य श्रवसा महानसि सत्रादेव महानसि । मन्हा देवानामसुर्यः पुरोहितो विभुज्योतिरदाभ्यम् ॥ १४॥

श्रायन्त इव॒सूर्य विश्वेदिन्द्रस्य भक्षत ॥ वसूनिजाते जनमाने ओजसा प्रतिभागं न दीधिम ॥ १५॥

अद्य देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् तन्नो मित्रो वरुणो मां महन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १६॥

आकृष्णेन रजसाऽऽवर्तमानो निवेशयन्नमृतं मर्त्यञ्च ॥ हिरण्ययेन सविता रथेन देव आयाति भुवनानि पश्यन् ॥ १७॥

शुक्लयजुर्वेद सूर्यसूक्तम्

পাঠ জপ: 0/108