సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

శ్రీస్కందపురాణే నాగరఖండే చాముండాస్తోత్రం

श्रीस्कन्दपुराणे नागरखण्डे चामुण्डास्तोत्रम्
రచయిత: పారంపరిక వీక్షణలు: 2
23px

श्रीचामुण्डास्तोत्रम्

श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीउमामहेश्वराभ्यां नमः । जय सर्वगते देवि चर्ममुण्डधरे वरे । जय दैत्यकुलोच्छेददक्षे दक्षात्मजे शुभे ॥ १॥ कालरात्रि जयाचिन्त्ये नवम्यष्टमिवल्लभे । त्रिनेत्रे त्र्यम्बकाभीष्टे जय देवि सुरार्चिते ॥ २॥ भीमरूपे सुरूपे च महाविद्ये महाबले । महोदये महाकाये जयदेवि महाव्रते ॥ ३॥ नित्यरूपे जगद्धात्रि सुरामांसवसाप्रिये । विकरालि महाकालि जय प्रेतजनानुगे ॥ ४॥ शवयानरते रम्ये भुजङ्गाभरणान्विते । पाशहस्ते महाहस्ते रुधिरौघकृतास्पदे ॥ ५॥ फेत्कारारवशोभिष्ठे गीतवाद्यविराजिते । जयानाद्ये जय ध्येये भर्गदेहार्धसंश्रये ॥ ६॥ त्वं रतिस्त्वं धृतिस्तुष्टिस्त्वं गौरी त्वं सुरेश्वरी । त्वं लक्ष्मीस्त्वं च सावित्री गायत्री त्वमसंशयम् ॥ ७॥ यत्किञ्चित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते । तत्सर्वं त्वन्मयं नात्र विकल्पोऽस्ति मम क्वचित् ॥ ८॥ येन सत्येन तेन त्वमत्रावासं द्रुतं कुरु । सान्निध्यं भक्तितस्तुष्टा सुरासुरनमस्कृते ॥ ९॥ सूत उवाच - एवं स्तुता च सा देवी नलेन पृथिवीभुजा । प्रोवाच दर्शनं गत्वा तं नृपं भक्तवत्सला ॥ १०॥ श्रीदेव्युवाच - परितुष्टाऽस्मि ते वत्स स्तोत्रेणानेन साम्प्रतम् । तस्माद्गृहाण मत्तस्त्वं वरं मनसि संस्थितम् ॥ ११॥ नल उवाच - दमयन्तीति मे भार्या प्राणेभ्योऽपि गरीयसी । सा मया निर्जने मुक्ता वने व्यालगणान्विते ॥ १२॥ अखण्डशीलां निर्दोषां यथाहं त्वत्प्रसादतः । लभे भूयोऽपि तां देवि तथात्र कुरु सत्वरम् ॥ १३॥ स्तोत्रेणानेन यो देवि स्तुतिं कुर्यात्पुरस्तव । तत्रैव दिवसे तस्मै त्वया देयं मनोगतम् ॥ १४॥ ॥ इति श्रीस्कान्दे नागरखण्डे चामुण्डास्तोत्रम् ॥
జప గణన: 0/108