Sanaatana deva
.. Durgaa pancharatnam ..
stotra-b569cbb6
Select Script / Language:
देवनागरी (संस्कृत)
॥ दुर्गा पञ्चरत्नम् ॥
ते ध्यानयोगानुगता अपश्यन् त्वामेव देवीं स्वगुणैर्निगूढाम्। त्वमेव शक्तिः परमेश्वरस्य मां पाहि सर्वेश्वरि मोक्षदात्रि॥१॥
देवात्मशक्तिः श्रुतिवाक्यगीता महर्षि लोकस्य पुरः प्रसन्ना। गुहा परं व्योम सतः प्रतिष्ठा मां पाहि सर्वेश्वरि मोक्षदात्रि॥२॥
परास्य शक्तिर्विविधैव श्रूयसे श्वेताश्ववाक्योदितदेवि दुर्गे। स्वाभाविकी ज्ञानबलक्रिया ते मां पाहि सर्वेश्वरि मोक्षदात्रि॥३॥
देवात्मशब्देन शिवात्मभूता यत्कूर्मवायव्यवचो विवृत्या। त्वं पाशविच्छेदकरी प्रसिद्धा मां पाहि सर्वेश्वरि मोक्षदात्रि॥४॥
त्वं ब्रह्मपुच्छा विविधा मयूरी ब्रह्मप्रतिष्ठाऽस्युपदिष्टगीता। ज्ञानस्वरूपात्मतयाऽखिलानाम् मां पाहि सर्वेश्वरि मोक्षदात्रि॥५॥
॥ इति श्री काञ्चीपुरजगद्गुरुणा श्रीमच्चन्द्रशेखरेन्द्रसरस्वतीस्वामिना विरचितं श्री दुर्गापञ्चरत्नं सम्पूर्णम् ॥