సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

శ్రీగుహ్యనామౌచ్ఛిష్ట-గణేశసహస్రనామస్తోత్రం

श्रीगुह्यनामौच्छिष्ट-गणेशसहस्रनामस्तोत्रम्
రచయిత: పారంపరిక వీక్షణలు: 3
23px

श्रीगुह्यनामौच्छिष्टगणेशसहस्रनामस्तोत्रम्

अस्य श्रीगुह्यनामसहस्राख्यगणेशानसहस्रनामस्तोत्रमालामहामन्त्रस्य गणकः ऋषिः, गायत्री च्छन्दः उच्छिष्टमहागणेशानो देवता ॐ बीजं, स्वाहा शक्तिः गं कीलकम् ॥ श्रीमदुच्छिष्टमहागणेशानप्रसादसिद्ध्यर्थे पारायणे विनियोगः ॥ ॐ हस्तिमुखाय अङ्गुष्ठाभ्यां नमः हृदयाय नमः । लम्बोदराय तर्जनीभ्यां नमः शिरसे स्वाहा । उच्छिष्टमहात्मने मध्यमाभ्यां नमः शिखायै वषट् । आं क्रों ह्रीं क्लीं ह्रीं हुं घे घे अनामिकाभ्यां नमः कवचाय हुम् । उच्छिष्टाय कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् । स्वाहा करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः ॥ ध्यानम्- शरचापगुणाङ्कुशान् स्वहस्तैः दधतं रक्तसरोरुहे निषण्णम् । विगताम्बरजायया प्रवृत्तं सुरते सन्ततमाश्रये गणेशम् ॥ शरान् धनुः पाशसृणी स्वहस्तैः दधानमारक्तसरोरुहस्थम् । विवस्त्रपत्न्यां सुरतप्रवृत्तं उच्छिष्टमम्बासुतमाश्रयेऽहम् ॥ लं पृथिव्यात्मने गन्धं कल्पयामि नमः । हं आकाशात्मने पुष्पाणि कल्पयामि नमः । यं वाय्वात्मने धूपं कल्पयामि नमः । रं अग्न्यात्मने दीपं कल्पयामि नमः । वं अमृतात्मनेऽमृतं महानैवेद्यं कल्पयामि नमः । ॥ श्रीः ॥ महागणाधिनाथाख्योऽष्टाविंशत्यक्षरात्मकः । तारश्रीशक्तिकन्दर्पभूस्मृतिबिन्दुसंयुतः ॥ १॥ ङेन्तगणपतिप्रोक्तो वरवरदसंयुतः । सर्वजनद्वितीयान्त आदित्यशिवसंयुतः ॥ २॥ वशमानयसंयुक्तो वह्निजायासमर्पितः । गणकमुनिसन्दृष्टो निचृद्गायत्रभाषितः ॥ ३॥ सुरादिवन्द्यपादाब्जो मनुराजविजृम्भितः । इक्षुसागरमध्यस्थो रत्नद्वीपस्य मध्यगः ॥ ४॥ तरङ्गमालिकाधौतशीततरामलालयः । कल्पपादपसंशोभिमणिभूमिविराजितः ॥ ५॥ मृदुवातसमानीतदिव्यगन्धनिषेवितः । नानाकुसुमसङ्कीर्णः पक्षिवृन्दरवप्रियः ॥ ६॥ युगपदृतुषट्केन संसेवितपदद्वयः । नवरत्नसमाविद्धसिंहासनसमास्थितः ॥ ७॥ जपापुष्पतिस्कारिरक्तकान्तिसमुज्ज्वलः । वल्लभाश्लिष्टवामाङ्ग एकादशकरान्वितः ॥ ८॥ रत्नकुम्भाढ्यशुण्डाग्रो बीजापूरी गदाधरः । इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ॥ ९॥ पाशी धृतोत्पलः शालीमञ्जरीभृत् स्वदन्तभृत् । पञ्चावरणचक्रेशः षडाम्नायप्रपूजितः ॥ १०॥ मूलमन्त्राढ्यपूजाङ्कः षडङ्गपरिवारितः । परौघपूजनातुष्टो दिव्यौघादिनिषेवितः ॥ ११॥ श्रीश्रीपतिसन्तुष्टो गिरिजातत्पतिप्रियः । रतिमन्मथसम्प्रीतो महीवराहपूजितः ॥ १२॥ ऋद्ध्यामोदप्रपूजाकः समृद्धितत्पतिप्रियः । कान्तिसुमुखसुप्रीतो मदनावतिकदुर्मुखः ॥ १३॥ मदद्रवाविघ्नपूज्यो द्राविणीविघ्नकर्तृकः । वसुधाराशङ्खपूज्यो वसुमतिकपद्मकः ॥ १४॥ ब्राह्मीप्रिय ईश्वरीशः कौमारीसेविताङ्घ्रिकः । वैष्णव्यर्चितपद्द्वन्द्वो वाराहीसेविताङ्घ्रिकः ॥ १५॥ इद्राणीपूजितश्रीकश्चामुण्डाश्रितपादुकः । महालक्ष्मीमहामातृसम्पूजितपदद्वयः ॥ १६॥ ऐरावतसमारूढवज्रहस्तेन्द्रपूजितः । अजोपरि समारूढशक्तिहस्ताग्निसेवितः ॥ १७॥ महिषारूढदण्डाढ्ययमदेवप्रपूजितः । नरारोहिखड्गहस्तनिरृत्याश्रितपादुकः ॥ १८॥ मकरवाहनारूढपाशाढ्यवरुणार्चितः । रुरोरुपरिसन्तिष्ठद्ध्वजाढ्यश्वसनार्चितः ॥ १९॥ अश्ववाहनशङ्खाढ्यसोमदेवप्रपूजितः । वृषभवाहनारूढत्रिशूलाढ्येशसेवितः ॥ २०॥ पञ्चावरणपूजोद्यत्कारुण्याकुलमानसः । पञ्चावृतिनमस्याकभक्तवाञ्छाप्रपूरणः ॥ २१॥ एकमूर्तिरष्टमूर्तिः पञ्चाशन्मूर्तिभेदकः । ब्रह्मचारिसमाख्याकः पत्नीसम्युतमूर्तिकः ॥ २२॥ नग्नपत्नीसमाश्लिष्टः सुरतानन्दतुन्दिलः । सुमबाणेक्षुकोदण्डपाशाङ्कुशवरायुधः ॥ २३॥ कामिनीचुम्बनायुक्तसदालिङ्गनतत्परः । अण्डकर्णकपोलाख्यत्रिस्थानमदवारिराट् ॥ २४॥ मदापोलुब्धमधुपैर्विचुम्बितकपोलकः । कामुकः कामिनीकान्तः कान्ताधरमधुव्रतः ॥ २५॥ कामिनीहृदयाकर्षी वशागणनिषेवितः । ऐरावतादिदिङ्नागमिथुनाष्टकपूजितः ॥ २६॥ सदा जायाश्रितोऽश्रान्तो नग्नोपासकपूजितः । मांसाशी वारुणीमत्तो मत्स्यभुङ् मैथुनप्रियः ॥ २७॥ मुद्रासप्तकसम्प्रीतो मपञ्चकनिषेवितः । पञ्चाङ्गरागसुप्रीतः श‍ृङ्गाररसलम्पटः ॥ २८॥ कर्पूरवीटीसौगन्ध्यकल्लोलितककुप्तटः । उपासकवरिष्ठास्यवीट्या मौक्यनिरासकः ॥ २९॥ योन्याहितसुशुण्डाको योनिलालनलालसः । भगामोदसमाश्वासी भगचुम्बनलम्पटः ॥ ३०॥ कान्ताकुचसमालिङ्गिशुण्डामण्डितविग्रहः । उच्छिष्टाख्यगणेशान उच्छिष्टास्वादिसिद्धिदः ॥ ३१॥ उच्छिष्टपूजनरत उच्छिष्टजपसिद्धिदः । उच्छिष्टहोमसम्प्रीत उच्छिष्टव्रतधारकः ॥ ३२॥ उच्छिष्टतर्पणप्रीत उच्छिष्टमार्जने रतः । उच्छिष्टब्राह्मणकुलसन्तर्पणसुसाधितः ॥ ३३॥ उच्छिष्टविघ्नराजेन्द्र उच्छिष्टवस्तुपूजितः । उच्छिष्टमन्त्रसञ्जापिसर्वसिद्धिप्रकाशकः ॥ ३४॥ उच्छिष्टोपचाररत उच्छिष्टोपास्तिसिद्धिदः । मदिरानन्दसन्तोषी सदामत्तो मदोद्धतः ॥ ३५॥ मधुराशी मधूद्रिक्तो मधुपानपरायणः । मधुस्नानपरामोदो माधुर्यैकरसाश्रयः ॥ ३६॥ मदिरासिन्धुसम्भूतः सुधामज्जनतत्परः । मदिराम्बुधिसंस्थायी मदिरामज्जने रतः ॥ ३७॥ मदिरातर्पणप्रीतो मदिरामार्जनादृतः । मदिरामोदसन्तोषी मदिरामोदलोलुपः ॥ ३८॥ कादम्बरीरसोन्मत्तः कादम्बरीप्रियाश्रितः । द्राक्षारससमाह्लादी द्राक्षारसमदोल्वणः ॥ ३९॥ वारुणीमदघूर्णाम्बो वारुणीमदविह्वलः । नारिकेलरसास्वादी नारिकेलमधुप्रियः ॥ ४०॥ तालफलरसोन्मत्तो तालमद्यपरायणः । पानसमद्यसुप्रीतः कदलीमद्यपानकः ॥ ४१॥ दाडिमीरससम्प्रीतो गौडपानकलम्पटः । पौष्पीपानसदामत्तः पौष्पीकरण्डमण्डितः ॥ ४२॥ युवतीसुरतासक्तो युवैतीमणिते रतः । मोदप्रमोदकृत्सङ्गो भैरवानन्दवत्सलः ॥ ४३॥ शुक्लसेव्यः शुक्लतुष्टः शुक्लसिद्धिवरप्रदः । शुक्लधातुमहः पूज्य ओजश्शक्तिप्रकाशनः ॥ ४४॥ शुक्रादिमान्त्रिकैर्धुर्यैरर्धरात्रप्रपूजितः । मुक्तकच्छो मुक्तकेशो नग्नकान्तासमाश्रितः ॥ ४५॥ ताम्बूलचर्वणायुक्तः कर्पूरवीटिकामदः । कान्ताचर्वितताम्बूलरसास्वादनलम्पटः ॥ ४६॥ विशेषतः कलियुगे सिद्धिदः सुरपादपः । महापद्मादिखर्वान्तनिधिपौष्कल्यपोषकः ॥ ४७॥ स्वल्पायाससुसम्प्रीतः कलौ तूर्णफलप्रदः । पितृकाननसंस्थायी पितृकाननसिद्धिदः ॥ ४८॥ माचीपत्रसमाराध्यो बृहतीपत्रतोषितः । दूर्वायुग्मनमस्याको धुत्तूरदलपूजितः ॥ ४९॥ विष्णुक्रान्तसपर्याको गण्डलीपत्रसेवितः । अर्कपत्रसुसंराध्योऽर्जुनपत्रकपूजितः ॥ ५०॥ नानापत्रसुसम्प्रीतो नानापुष्पसुसेवितः । सहस्रार्चनपूजायां सहस्रकमलप्रियः ॥ ५१॥ पुन्नागपुष्पसम्प्रीतो मन्दारकुसुमप्रियः । बकुलपुष्पसन्तुष्टो धुत्तूरसुमशेखरः ॥ ५२॥ रसालपुष्पसंशोभी केतकीपुष्पसुप्रियः । पारिजातप्रसूनाढ्यो माधवीकुन्दतोषितः ॥ ५३॥ शम्यालङ्कारसुप्रीतो मृणालपाटलीप्रियः । लक्षपङ्कजपूजायामणिमादिप्रसाधकः ॥ ५४॥ सम्हितापदपाठादिघनान्तज्ञानदायकः । अष्टावधानसन्धायी शतावधानपोषकः ॥ ५५॥ साहस्रिकावधानश्रीपरिपाटीप्रवर्धनः । मनश्चिन्तितविज्ञाता मनसा चिन्तितप्रदः ॥ ५६॥ भक्तत्राणव्यग्रचित्तः स्मृतिमात्राभयप्रदः । स्मृतिमात्राखिलत्राता साधकेष्टदतल्लजः ॥ ५७॥ स्वसाधकविपक्षच्छिद् विपक्षजनभक्षकः । व्याधिहन्ता व्यथाहन्ता महाव्याधिविनाशनः ॥ ५८॥ पैत्तिकार्तिप्रशमनः श्लैष्मिकस्य विनाशकः । वातिकज्वरविध्वंसी शूलगुल्मादिनाशनः ॥ ५९॥ नेत्ररोगप्रशमनो नित्यज्वरविनाशनः । कासादिव्याधिसंहर्ता सर्वज्वरविनाशनः ॥ ६०॥ आधिहन्ता तमोहन्ता सर्वापद्विनिवारकः । धनदायी यशोदायी ज्ञानदायी सुरद्रुमः ॥ ६१॥ कल्यत्वदायकश्चिन्तामणिरायुष्यदायकः । परकायप्रवेशादियोगसिद्धिविधायकः ॥ ६२॥ महाधनित्वसन्धाता धराधीशत्वदायकः । तापत्रयाग्निसन्तप्तसमाह्लादनकौमुदी ॥ ६३॥ जन्मव्याधिजरामृत्युमहाव्याधिविनाशकः । संसारकाननच्छेत्ता ब्रह्मविद्याप्रकाशकः ॥ ६४॥ संसारभयविध्वंसिपराकामकलावपुः । उच्छिष्टाख्यगणाधीशो वामाचरणपूजितः ॥ ६५॥ नवाक्षरीमन्त्रराजो दशवर्णकमन्त्रराट् । एकादशाक्षरीरूपः सप्तविंशतिवर्णकः ॥ ६६॥ षट्त्रिंशदर्णसम्पूज्यो बलिमन्त्रप्रपूजितः । द्वादशाक्षरसन्निष्ठ एकोनविंशतीष्टदः ॥ ६७॥ सप्तवर्णाधिकत्रिंशदर्णमन्त्रस्वरूपकः । द्वात्रिंशदक्षरारूढोऽदक्षिणाचारसेवितः ॥ ६८॥ पञ्चावृतिकयन्त्रोद्धवरिवस्याविधिप्रियः । नववर्णादिमन्त्रौघसम्प्रपूजितपादुकः ॥ ६९॥ परौघीयगुरुव्यूहसन्तर्पणसुसाधितः । महत्पदसमायुक्तपादुकापूजनप्रियः ॥ ७०॥ दक्षिणाभिमुखेशस्य पूजनेन वरप्रदः । दिव्यवृन्दसिद्धवृन्दमानवौघनिषेवितः ॥ ७१॥ त्रिवारं मूलमन्त्रेण बिन्दुचक्रे सुतर्पितः । षडङ्गदेवतापूज्यः षण्मुखाम्नायराजितः ॥ ७२॥ तुषारसमशोभाकहृदयाम्बानमस्कृतः । स्फटिकाश्मसमानश्रीशिरोदेवीनिषेवितः ॥ ७३॥ श्यामशोभासमुज्जृम्भिशिखादेवीप्रपूजितः । इन्द्रनीलमणिच्छायकवचाम्बापरीवृतः ॥ ७४॥ कृष्णवर्णसुशोभिश्रीनेत्रमातृसमावृतः । आरुण्यौघनदीमज्जदस्त्राम्बासेविताङ्घ्रिकः ॥ ७५॥ वसुदलाब्जमूलेषु शक्त्यष्टकसमन्वितः । विद्यापूज्यो विश्वधात्रीभोगदार्चितपादुकः ॥ ७६॥ विघ्ननाशिकया पूज्यो निधिप्रदपरीवृतः । पापघ्निकापूज्यपादः पुण्यादेवीनिषेवितः ॥ ७७॥ अन्वर्थनामसंराजिशशिप्रभाप्रपूजितः । दलाष्टकस्य मध्येषु सिद्ध्यष्टकपरीवृतः ॥ ७८॥ अणिम्नीपूजितपदो महिम्न्यर्चितपादुकः । लघिन्मीचिन्तितपदो गरिम्णीपूजिताङ्घ्रिकः ॥ ७९॥ ईशित्वार्चितदेवेन्द्रो वशित्वार्चितवैभवः । प्राकाम्यदेवीसम्प्रीतः प्राप्तिसिद्धिप्रपूजितः ॥ ८०॥ बाह्याष्टदलराजीवे वक्रतुण्डादिरूपकः । वक्रतुण्ड एकदंष्ट्रो महोदरो गजाननः ॥ ८१॥ लम्बोदराख्यो विकटो विघ्नराड् धूम्रवर्णकः । बहिरष्टदलाग्रेषु ब्राह्म्यादिमातृसेवितः ॥ ८२॥ मृगचर्मावृतस्वर्णकान्तिब्राह्मीसमावृतः । नृकपालादिसम्बिभ्रच्चन्द्रगौरमहेशिकः ॥ ८३॥ इन्द्रगोपारुणच्छायकौमारीवन्द्यपादुकः । नीलमेघसमच्छायवैष्णवीसुपरिष्कृतः ॥ ८४॥ अञ्जनाद्रिसमानश्रीवाराहीपर्यलङ्कृतः । इन्द्रनीलप्रभापुञ्जलसदिन्द्राणिकायुतः ॥ ८५॥ शोणवर्णसमुल्लासिचामुण्डार्चितपादुकः । स्वर्णकान्तितिरस्कारिमहालक्ष्मीनिषेवितः ॥ ८६॥ ऐरावतादिवज्रादिदेवेन्द्रादिप्रपूजितः । पञ्चावृतिनमस्यायामणिमादिप्रकाशकः ॥ ८७॥ सङ्गुप्तविद्यः सङ्गुप्तवरिवस्याविधिप्रियः । वामाचरणसुप्रीतः क्षिप्रसन्तुष्टमानसः ॥ ८८॥ कोङ्काचलशिरोवर्ती कोङ्काचलजनप्रियः । कोङ्काम्बुदजलास्वादी कावेरीतीरवासकः ॥ ८९॥ जाह्नवीमज्जनासक्तः कालिन्दीमज्जने रतः । शोणभद्राजलोद्भूतः शोणपाषाणरूपकः ॥ ९०॥ सरय्यापःप्रवाहस्थः नर्मदावारिवासकः । कौशिकीजलसंवासश्चन्द्रभागाम्बुनिष्ठितः ॥ ९१॥ ताम्रपर्णीतटस्थायी महासारस्वतप्रदः । महानदीतटावासो ब्रह्मपुत्राम्बुवासकः ॥ ९२॥ तमसातमाकारो महातमोऽपहारकः । क्षीरापगातीरवासी क्षीरनीरप्रवर्धकः ॥ ९३॥ कामकोटीपीठवासी शङ्करार्चितपादुकः । ऋश्यश‍ृङ्गपुरस्थायी सुरेशार्चितवैभवः ॥ ९४॥ द्वारकापीठसंवासी पद्मपादार्चिताङ्घ्रिकः । जगन्नाथपुरस्थायी तोटकाचार्यसेवितः ॥ ९५॥ ज्योतिर्मठालयस्थायी हस्तामलकपूजितः । विद्याभोगयशोमोक्षयोगलिङ्गप्रतिष्ठितः ॥ ९६॥ पञ्चलिङ्गप्रतिष्ठायी द्वादशलिङ्गसंस्थितः । कोलाचलपुरस्थायी कामेशीनगरेश्वरः ॥ ९७॥ ज्वालामुखीमुखस्थायी श्रीशैलकृतवासकः । लङ्केश्वरः कुमारीशः काशीशो मथुरेश्वरः ॥ ९८॥ मलयाद्रिशिरोवासी मलयानिलसेवितः । शोणाद्रिशिखरारूढः शोणाद्रीशप्रियङ्करः ॥ ९९॥ जम्बूवनान्तमध्यस्थो वल्मीकपुरमध्यगः । पञ्चाशत्पीठनिलयो पञ्चाशदक्षरात्मकः ॥ १००॥ अष्टोत्तरशतक्षेत्रोऽष्टोत्तरशतपूजितः । रत्नशैलकृतावासः शुद्धज्ञानप्रदायकः ॥ १०१॥ शातकुम्भगिरिस्थायी शातकुम्भोदरस्थितः । गोमयप्रतिमाविष्टः श्वेतार्कतनुपूजितः ॥ १०२॥ हरिद्राबिम्बसुप्रीतो निम्बबिम्बसुपूजितः । अश्वत्थमूलसंस्थायी वटवृक्षाधरस्थितः ॥ १०३॥ निम्बवृक्षस्य मूलस्थः प्रतिग्रामाधिदैवतम् । अश्वत्थनिम्बसंयोगे प्रियालिङ्गितमूर्तिकः ॥ १०४॥ गम्बीजरूप एकार्णो गणाध्यक्षो गणाधिपः । ग्लैम्बीजाख्यो गणेशानो गोङ्कार एकवर्णकः ॥ १०५॥ विरिरूपो विघ्नहन्ता दृष्टादृष्टफलप्रदः । पत्नीवराङ्गसत्पाणिः सिन्दूराभः कपालभृत् ॥ १०६॥ लक्ष्मीगणेशो हेमाभ एकोनत्रिंशदक्षरः । वामाङ्गाविष्टलक्ष्मीको महाश्रीप्रविधायकः ॥ १०७॥ त्र्यक्षरः शक्तिगणपः सर्वसिद्धिप्रपूरकः । चतुरक्षरशक्तीशो हेमच्छायस्त्रिणेत्रकः ॥ १०८॥ क्षिप्रप्रसादपङ्क्त्यर्णो रक्ताभः कल्पवल्लिभृत् । पञ्चवक्त्रः सिंहवाहो हेरम्बश्चतुरर्णकः ॥ १०९॥ सुब्रह्मण्यगणेशानो धात्वर्णः सर्वकामदः । अरुणाभतनुश्रीकः कुक्कुटोद्यत्करान्वितः ॥ ११०॥ अष्टाविंशतिवर्णात्ममन्त्रराजसुपूजितः । गन्धर्वसिद्धसंसेव्यो व्याघ्रद्विपादिभीकरः ॥ १११॥ मन्त्रशास्त्रमहोदन्वत्समुद्यतकलानिधिः । जनसम्बाधसम्मोही नवद्रव्यविशेषकः ॥ ११२॥ कामनाभेदसंसिद्धविविधध्यानभेदकः । चतुरावृत्तिसन्तृप्तिप्रीतोऽभीष्टसमर्पकः ॥ ११३॥ चन्द्रचन्दनकाश्मीरकस्तूरीजलतर्पितः । शुण्डाग्रजलसन्तृप्तिकैवल्यफलदायकः ॥ ११४॥ शिरःकृतपयस्तृप्तिसर्वसम्पद्विधायकः । गुह्यदेशमधुद्रव्यसन्तृप्त्या कामदायकः ॥ ११५॥ नेत्रद्वयमधुद्रव्यतृप्त्याकृष्टिविधायकः । पृष्ठदेशघृतद्रव्यतृप्तिभूपवशङ्करः ॥ ११६॥ एरण्डतैलसन्तृप्तिरण्डाकर्षकनाभिकः । ऊरुयुग्मकतैलीयतर्पणातिप्रमोदितः ॥ ११७॥ प्रीतिप्रवर्धकांसीयपयः पयःप्रतर्पणः । धर्मवर्धकतुण्डीयद्रव्यत्रयसुतर्पणः ॥ ११८॥ अष्टद्रव्याहुतिप्रीतो विविधद्रव्यहोमकः । ब्राह्ममुहूर्तनिष्पन्नहोमकर्मप्रसादितः ॥ ११९॥ मधुद्रव्यकहोमेन स्वर्णसमृद्धिवर्धकः । गोदुग्धकृतहोमेन गोसमृद्धिविधायकः ॥ १२०॥ आज्याहुतिहोमेन लक्ष्मीलासविलासकः । शर्कराहुतिहोमेन काष्ठाष्टकयशःप्रदः ॥ १२१॥ दधिद्रव्यकहोमेन सर्वसम्पत्तिदायकः । शाल्यन्नकृतहोमेनान्नसमृद्धिवितारकः ॥ १२२॥ सतण्डुलतिलाहुत्या द्रव्यकदम्बपूरकः । लाजाहुतिकहोमेन दिगन्तव्यापिकीर्तिदः ॥ १२३॥ जातीप्रसूनहोमेन मेधाप्रज्ञाप्रकाशकः । दूर्वात्रिकीयहोमेन पूर्णायुःप्रतिपादकः ॥ १२४॥ सुपीतसुमहोमेन वैरिभूपतिशिक्षकः । विभीतकसमिद्धोमैः स्तम्भोच्चाटनसिद्धिदः ॥ १२५॥ अपामार्गसमिद्धोमैः पण्ययोषावशङ्करः । एरण्डकसमिद्धोमैः रण्डासङ्घवशङ्करः ॥ १२६॥ निम्बद्रुदलहोमेन विद्वेषणविधायकः । घृताक्तदौग्धशाल्यन्नहोमैरिष्टफलप्रदः ॥ १२७॥ तिलादिचतुराहुत्या सर्वप्राणिवशङ्करः । नानाद्रव्यसमिद्धोमैराकर्षणादिसिद्धिदः ॥ १२८॥ त्रैलोक्यमोहनो विघ्नस्त्र्यधिकत्रिंशदर्णकः । द्वादशाक्षरशक्तीशः पत्नीवराङ्गहस्तकः ॥ १२९॥ मुक्ताचन्द्रौघदीप्ताभो विरिविघ्नेशपद्धतिः । एकादशाक्षरीमन्त्रौल्लासी भोगगणाधिपः ॥ १३०॥ द्वात्रिंशदर्णसंयुक्तो हरिद्रागणपो महान् । जगत्त्रयहितो भोगमोक्षदः कविताकरः ॥ १३१॥ षडर्णः पापविध्वंसी सर्वसौभाग्यदायकः । वक्रतुण्डाभिधः श्रीमान् भजतां कामदो मणिः ॥ १३२॥ मेघोल्कादिमहामन्त्रः सर्ववश्यफलप्रदः । आथर्वणिकमन्त्रात्मा रायस्पोषादिमन्त्रराट् ॥ १३३॥ वक्रतुण्डेशगायत्रीप्रतिपादितवैभवः । पिण्डमन्त्रादिमालान्तसर्वमन्त्रौघविग्रहः ॥ १३४॥ सञ्जप्तिहोमसन्तृप्तिसेकभोजनसाधितः । पञ्चाङ्गकपुरश्चर्योऽर्णलक्षजपसाधितः ॥ १३५॥ कोट्यावृत्तिकसञ्जप्तिसिद्धीश्वरत्वदायकः । कृष्णाष्टमीसमारब्धमासेनैकेन साधितः ॥ १३६॥ मातृकया पुटीकृत्य मासेनैकेन साधितः । भूतलिप्या पुटीकृत्य मासेनैकेन साधितः ॥ १३७॥ त्रिषष्ट्यक्षरसंयुक्तमातृकापुटसिद्धिदः । कृष्णाष्टमीसमारब्धदिनसप्तकसिद्धिदः ॥ १३८॥ अर्केदुग्रहकालीनजपाज्झटितिसिद्धिदः । निशात्रिकालपूजाकमासेनैकेन सिद्धिदः ॥ १३९॥ मन्त्रार्णौषधिनिष्पन्नगुटिकाभिः सुसिद्धिदः । सूर्योदयसमारम्भदिनेनैकेन साधितः ॥ १४०॥ सहस्राराम्बुजारूढदेशिकस्मृतिसिद्धिदः । शिवोहम्भावनासिद्धसर्वसिद्धिविलासकः ॥ १४१॥ पराकामकलाध्यानसिद्धीश्वरत्वदायकः । अकारोऽग्रियपूजाकोऽमृतानन्ददायकः ॥ १४२॥ अनन्तोऽनन्तावतारेष्वनन्तफलदायकः । अष्टाङ्गपातसम्प्रीतोऽष्टविधभैथुनप्रियः ॥ १४३॥ अष्टपुष्पसमाराध्योऽष्टाध्यायीज्ञानदायकः । आरब्धकर्मनिर्विघ्नपूरयिताऽऽक्षपाटिकः ॥ १४४॥ इन्द्रगोपसमानश्रीरिक्षुभक्षणलालसः । ईङ्कारवर्णसम्बुद्धपराकामकलात्मकः ॥ १४५॥ ईशानपुत्र ईशान ईषणात्रयमार्जकः । उद्दण्ड उग्र उदग्र उण्डेरकबलिप्रियः ॥ १४६॥ ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः । ऋजुचित्तैकसुलभ ऋणत्रयविमोचकः ॥ १४७॥ ऋगर्थवेत्ता ॠकार ॠकाराक्षररूपधृक् । ऌवर्णरूपो ॡवर्णो ॡकाराक्षरपूजितः ॥ १४८॥ एधिताखिलभक्तश्रीरेधिताखिलसंश्रयः । एकाररूप ऐकार ऐम्पुटितस्मृतिन्दुकः ॥ १४९॥ ओङ्कारवाच्य ओङ्कार ओङ्काराक्षररूपधृक् । औङ्काराढ्यगभूयुक्त औम्पूर्वयुग्गकारकः ॥ १५०॥ अंशांशिभावसन्दृष्टोशांशिभावविवर्जितः । अः कारान्तसमस्ताच्कवर्णमण्डलपूजितः ॥ १५१॥ कतृतीयविसर्गाढ्यः कतृतीयार्णकेवलः । कर्पूरतिलकोद्भासिललाटोर्ध्वप्रदेशकः ॥ १५२॥ खल्वाटभूमिसम्रक्षी खल्वाटबुद्धिभेषजम् । खट्वाङ्गायुधसंयुक्तः खड्गोद्यतकरान्वितः ॥ १५३॥ खण्डिताखिलदुर्भिक्षः खनिलक्ष्मीप्रदर्शकः । खदिराधिकसाराढ्यः खलीकृतविपक्षकः ॥ १५४॥ गान्धर्वविद्याचतुरो गन्धर्वनिकरप्रियः । घपूर्वबीजसन्निष्ठो घोरघर्घरबृंहितः ॥ १५५॥ घण्टानिनादसन्तुष्टो घार्णो घनागमप्रियः । चर्तुर्वेदेषु सङ्गीतश्चतुर्थवेदनिष्ठितः ॥ १५६॥ चतुर्दशसंयुक्तचतुर्युक्तचतुश्शतः । चतुर्थीपूजनप्रीतश्चतुरात्मा चतुर्गतिः ॥ १५७॥ चतुर्थीतिथिसम्भूतश्चतुर्वर्गफलप्रदः । छत्रीच्छद्मच्छलश्छन्दोवपुश्छन्दावतारकः ॥ १५८॥ जगद्बन्धुर्जगन्माता जगद्रक्षी जगन्मयः । जगद्योनिर्जगद्रूपो जगदात्मा जगन्निधिः ॥ १५९॥ जरामरणविध्वंसी जगदानन्ददायकः । जागुडानुकृतिच्छायो जाग्रदादिप्रकाशकः ॥ १६०॥ जाम्बूनदसमच्छायो जपसम्प्रीतमानसः । जपयोगसुसंवेद्यो जपतत्परसिद्धिदः ॥ १६१॥ जपाकुसुमसङ्काशो जातीपूजकवाक्प्रदः । जयन्तीदिनसुप्रीतो जयन्तीपूजिताङ्घ्रिकः ॥ १६२॥ जगद्भानतिरस्कारी जगद्भानतिरोहितः । जगद्रूपमहामायाधिष्ठानचिन्मयात्मकः ॥ १६३॥ झञ्झानिलसमश्वासी झिल्लिकासमकान्तिकः । झलझ्झलासुसंशोभिशूर्पाकृतिद्विकर्णकः ॥ १६४॥ टङ्ककर्मविनाभावस्वयम्भूतकलेवरः । ठक्कुरष्ठक्कुराराध्यष्ठक्कुराकृतिशोभितः ॥ १६५॥ डिण्डिमस्वनसंवादी डमरुप्रियपुत्रकः । ढक्कावादनसन्तुष्टो ढुण्ढिराजविनायकः ॥ १६६॥ तुन्दिलस्तुन्दिलवपुस्तपनस्तापरोषहा । तारकब्रह्मसंस्थानस्तारानायकशेखरः ॥ १६७॥ तारुण्याढ्यवधूसङ्गी तत्त्ववेत्ता त्रिकालवित् । स्थूलः स्थूलकरः स्थेयः स्थितिकर्ता स्थितिप्रदः ॥ १६८॥ स्थाणुः स्थिरः स्थलेशायी स्थाण्डिलकुलपूजितः । दुःखहन्ता दुःखदायी दुर्भिक्षादिविनाशकः ॥ १६९॥ धनधान्यप्रदो ध्येयो ध्यानस्तिमितलोचनः । धीरो धीर्धीरधीर्धुर्यो धुरीणत्वप्रदायकः ॥ १७०॥ ध्यानयोगैकसन्दृष्टो ध्यानयोगैकलम्पटः । नारायणप्रियो नम्यो नरनारीजनाश्रयः ॥ १७१॥ नग्नपूजनसन्तुष्टो नग्ननीलासमावृतः । निरञ्जनो निराधारो निर्लेपो निरवग्रहः ॥ १७२॥ निशीथिनीनमस्याको निशीथिनीजपप्रियः । नामपारायणप्रीतो नामरूपप्रकाशकः ॥ १७३॥ पुराणपुरुषः प्रातस्सन्ध्यारुणवपुःप्रभः । फुल्लपुष्पसमूहश्रीसम्भूषितसुमस्तकः ॥ १७४॥ फाल्गुनानुजपूजाकः फेत्कारतन्त्रवर्णितः । ब्राह्मणादिसमाराध्यो बालपूज्यो बलप्रदः ॥ १७५॥ बाणार्चितपदद्वन्द्वो बालकेलिकुतूहलः । भवानीहृदयानन्दी भावगम्यो भवात्मजः ॥ १७६॥ भवेशो भव्यरूपाढ्यो भार्गवेशो भृगोः सुतः । भव्यो भव्यकलायुक्तो भावनावशतत्परः ॥ १७७॥ भगवान् भक्तिसुलभो भयहन्ता भयप्रदः । मायावी मानदो मानी मनोभिमानशोधकः ॥ १७८॥ महाहवोद्यतक्रीडो मन्दहासमनोहरः । मनस्वी मानविध्वंसी मदलालसमानसः ॥ १७९॥ यशस्वी यशाशंसी याज्ञिको याज्ञिकप्रियः । राजराजेश्वरो राजा रामो रमणलम्पटः ॥ १८०॥ रसराजसमास्वादी रसराजैकपूजितः । लक्ष्मीवान् लक्ष्मसम्पन्नो लक्ष्यो लक्षणसंयुतः ॥ १८१॥ लक्ष्यलक्षणभावस्थो लययोगविभावितः । वीरासनसमासीनो वीरवन्द्यो वरेण्यदः ॥ १८२॥ विविधार्थज्ञानदाता वेदवेदान्तवित्तमः । शिखिवाहसमारूढः शिखिवाहननाथितः ॥ १८३॥ श्रीविद्योपासनप्रीतः श्रीविद्यामन्त्रविग्रहः । षडाधारक्रमप्रीतः षडाम्नायेषु संस्थितः ॥ १८४॥ षड्दर्शनीपारदृश्वा षडध्वातीतरूपकः । षडूर्मिवृन्दविध्वंसी षट्कोणमध्यविन्दुगः ॥ १८५॥ षट्त्रिंशत्तत्त्वसन्निष्ठः षट्कर्मसन्घसिद्धिदः । षड्वैरिवर्गविध्वंसिविघ्नेश्वरगजाननः ॥ १८६॥ सत्ताज्ञानादिरूपाढ्यः साहसाद्भुतखेलनः । सर्परूपधरःसंवित् संसाराम्बुधितारकः ॥ १८७॥ सर्पसङ्घसमाश्लिष्टः सर्पकुण्डलितोदरः । सप्तविंशतिऋक्पूज्यः स्वाहायुङ्मन्त्रविग्रहः ॥ १८८॥ सर्वकर्मसमारम्भसम्पूजितपदद्वयः । स्वयम्भूः सत्यसङ्कल्पः स्वयम्प्रकाशमूर्तिकः ॥ १८९॥ स्वयम्भूलिङ्गसंस्थायी स्वयम्भूलिङ्गपूजितः । हव्यो हुतप्रियो होता हुतभुग् हवनप्रियः ॥ १९०॥ हरलालनसन्तुष्टो हलाहलाशिपुत्रकः । ह्रीङ्काररूपो हुङ्कारो हाहाकारसमाकुलः ॥ १९१॥ हिमाचलसुतासूनुर्हेमभास्वरदेहकः । हिमाचलशिखारूढो हिमधामसमद्युतिः ॥ १९२॥ क्षोभहन्ता क्षुधाहन्ता क्षैण्यहन्ता क्षमाप्रदः । क्षमाधारी क्षमायुक्तः क्षपाकरनिभः क्षमी ॥ १९३॥ ककारादिक्षकारान्तसर्वहल्कप्रपूजितः । अकारादिक्षकारान्तवर्णमालाविजृम्भितः ॥ १९४॥ अकारादिक्षकारान्तमहासरस्वतीमयः । स्थूलतमशरीराढ्यः कारुकर्मविजृम्भितः ॥ १९५॥ स्थूलतरस्वरूपाढ्यश्चक्रजालप्रकाशितः । स्थूलरूपसमुज्जृम्भी हृदब्जध्यातरूपकः ॥ १९६॥ सूक्ष्मरूपसमुल्लासी मन्त्रजालस्वरूपकः । सूक्ष्मतरतनुश्रीकः कुण्डलिनीस्वरूपकः ॥ १९७॥ सूक्ष्मतमवपुश्शोभी पराकामकलातनुः । पररूपसमुद्भासी सच्चिदानन्दविग्रहः ॥ १९८॥ परापरवपुर्धारी सप्तरूपविलासितः । षडाम्नायमहामन्त्रनिकुरुम्बनिषेवितः ॥ १९९॥ तत्पुरुषमुखोत्पन्नपूर्वाम्नायमनुप्रियः । अघोरमुखसञ्जातदक्षिणाम्नायपूजितः ॥ २००॥ सद्योजातमुखोत्पन्नपश्चिमाम्नायसेवितः । वामदेवमुखोत्पन्नोत्तराम्नायप्रपूजितः ॥ २०१॥ ईशानमुखसञ्जातोर्ध्वाम्नायमनुसेवितः । विमर्शमुखसञ्जातानुत्तराम्नायपूजितः ॥ २०२॥ तोटकाचार्यसन्दिष्टपूर्वाम्नायकमन्त्रकः । सुरेशसमुपादिष्टदक्षिणाम्नायमन्त्रकः ॥ २०३॥ पद्मपादसमादिष्टपश्चिमाम्नायमन्त्रकः । हस्तामलकसन्दिष्टोत्तराम्नायकमन्त्रकः ॥ २०४॥ शङ्कराचार्यसन्दिष्टोर्ध्वाम्नायाखिलमन्त्रकः । दक्षिणामूर्तिसन्निष्ठानुत्तराम्नायमन्त्रकः ॥ २०५॥ सहजानन्दसन्निष्ठसर्वाम्नायप्रकाशकः । पूर्वाम्नायकमन्त्रौघैः सृष्टिशक्तिप्रकाशकः ॥ २०६॥ दक्षिणाम्नायमन्त्रौघैः स्थितिशक्तिप्रकाशकः । पश्चिमाम्नायमन्त्रौघैर्हृतिशक्तिप्रकाशकः ॥ २०७॥ उत्तराम्नायमन्त्रौघैस्तिरोधानप्रकाशकः । ऊर्ध्वाम्नायकमन्त्रौघैरनुग्रहप्रकाशकः ॥ २०८॥ अनुत्तरगमन्त्रौघैः सहजानन्दलासकः । सर्वाम्नायकसन्निष्ठानुस्यूतचित्सुखात्मकः ॥ २०९॥ सृष्टिकर्ता ब्रह्मरूपो गोप्ता गोविन्दरूपकः । संहारकृद्रुद्ररूपस्तिरोधायक ईश्वरः ॥ २१०॥ सदाशिवोऽनुग्रहीता पञ्चकृत्यपरायणः । अणिमादिगुणास्पृष्टो निर्गुणानन्दरूपकः ॥ २११॥ सर्वात्मभावनारूपः सुखमात्रानुभावकः । स्वस्वरूपसुसंशोभी ताटस्थिकस्वरूपकः ॥ २१२॥ षड्गुणोऽखिलकल्याणगुणराजिविराजितः । यज्ञाग्निकुण्डसम्भूतः क्षीरसागरभध्यगः ॥ २१३॥ त्रिदशकारुनिष्पन्नस्वानन्दभवनस्थितः । ऊरीकृतेशपुत्रत्वो नीलवाणीविवाहितः ॥ २१४॥ नीलसरस्वतीमन्त्रजपतात्पर्यसिद्धिदः । विद्यावदसुरध्वंसी सुररक्षासमुद्यतः ॥ २१५॥ चिन्तामणिक्षेत्रवासी चिन्तिताखिलपूरकः । महापापौघविध्वंसी देवेन्द्रकृतपूजनः ॥ २१६॥ तारारम्भी नमोयुक्तो भगवत्पदडेन्तगः । एकदंष्ट्रायसंयुक्तो हस्तिमुखायसंयुतः ॥ २१७॥ लम्बोदरचतुर्थ्यन्तविराजितकलेवरः । उच्छिष्टपदसंराजी महात्मनेपदप्रियः ॥ २१८॥ आङ्क्रोंह्रीङ्गंसमायुक्तो घेधेस्वाहासमापितः । तारारब्धमहामन्त्रो हस्तिमुखान्तङेयुतः ॥ २१९॥ लम्बोदरायसंयुक्तो डेन्तोच्छिष्टमहात्मयुक् । पाशाङ्कुशत्रपामारो हृल्लेखासमलङ्कृतः ॥ २२०॥ वर्मघेघेसमारूढ उच्छिष्टायपदोपधः । वह्निजायासुंसम्पूर्णो मन्त्रराजद्वयान्वितः ॥ २२१॥ हेरम्बाख्यगणेशानो लक्ष्मीयुतगजाननः । तारुण्येशो बालरूपी शक्तीशो वीरनामकः ॥ २२२ ऊर्ध्वसमाख्य उच्छिष्टो विजयो नृत्यकर्मकः । विघ्नविध्वंसिविघ्नेशो द्विजपूर्वगणाधिपः ॥ २२३॥ क्षिप्रेशो वल्लभाजानिर्भक्तीशः सिद्धिनायकः । द्व्यष्टावतारसम्भिन्नलीलावैविध्यशोभितः ॥ २२४॥ द्वात्रिंशदवताराढ्यो द्वात्रिंशद्दीक्षणक्रमः । शुद्धविद्यासमारब्धमहाषोडशिकान्तिमः ॥ २२५॥ महत्पदसमायुक्तपादुकासम्प्रतिष्ठितः । प्रणवादिस्त्रितारीयुग् बालाबीजकशोभितः ॥ २२६॥ वाणीभूबीजसंयुक्तो हंसत्रयसमन्वितः । खेचरीबीजसम्भिन्नो नवनाथसुशोभितः ॥ २२७॥ प्रासादश्रीसमायुक्तो नवनाथविलोमकः । पराप्रासादबीजाढ्यो महागणेशमन्त्रकः ॥ २२८॥ बालाक्रमोत्क्रमप्रीतो योगबालाविजृम्भितः । अन्नपूर्णासमायुक्तो बाजिवाहाविलासितः ॥ २२९॥ सौभाग्यपूर्वविद्यायुङ् रमादिषोडशीयुतः । उच्छिष्टपूर्वचाण्डालीसमायुक्तसुविग्रहः ॥ २३०॥ त्रयोदशार्णवाग्देवीसमुल्लसितमूर्तिकः । नकुलीमातृसंयुक्तो महामातङ्गिनीयुतः ॥ २३१॥ लघुवार्तालिकायुक्तस्वप्नवार्तालिकान्वितः । तिरस्कारिसमायुक्तो महावार्तालिकायुतः ॥ २३२॥ पराबीजसमायुक्तो लोपामुद्राविजृम्भितः । त्रयोदशाक्षरीहादिज्ञप्तिविद्यासमन्वितः ॥ २३३॥ महावाक्यमहामातृचतुष्टयविलासितः । ब्रह्मण्यरसबीजाढ्यब्रह्मण्यद्वयशेभितः ॥ २३४॥ सप्तदशाक्षरीशैवतत्त्वविमर्शिनीयुतः । चतुर्विंशतिवर्णात्मदक्षिणामूर्तिशोभितः ॥ २३५॥ रदनाक्षरसंशोभिगणपोच्छिष्टमन्त्रकः । गिरिव्याहृतिवर्णात्मगणपोच्छिष्टराजकः ॥ २३६॥ हंसत्रयसमारुढो रसावाणीसमर्पितः । श्रीविद्यानन्दनाथाढ्य आत्मकपदसंयुतः ॥ २३७॥ श्रीचर्यानन्दनाथाढ्यः श्रीमहापादुकाश्रितः । पूजयामिपदप्रीतो नमःपदसमापितः ॥ २३८॥ गुरुमुखैकसंवेद्यो गुरुमण्डलपूजितः । दीक्षागुरुसमारब्धशिवान्तगुरुसेवितः ॥ २३९॥ समाराध्यपदद्वन्द्वो गुरुभिः कुलरूपिभिः । विद्यावतारगुरुभिः सम्पूजितपदद्वयः ॥ २४०॥ परौघीयगुरुप्रीतो दिव्यौघगुरुपूजितः । सिद्धौघदेशिकाराध्यो मानवौघनिषेवितः ॥ २४१॥ गुरुत्रयसमाराध्यो गुरुषट्कप्रपूजितः । शाम्भवीक्रमसम्पूज्योऽशीत्युत्तरशतार्चितः ॥ २४२॥ क्षित्यादिरश्मिसन्निष्ठो लङ्घिताखिलरश्मिकः । षडन्वयक्रमाराध्यो देशिकान्वयरक्षितः ॥ २४३॥ सर्वश्रुतिशिरोनिष्ठपादुकाद्वयवैभवः । पराकामकलारूपः शिवोहम्भावनात्मकः ॥ २४४॥ चिच्छक्त्याख्यपराहंयुक् सर्वज्ञानिस्वरूपकः । संविद्बिन्दुसमाख्यातोऽपराकामकलामयः ॥ २४५॥ मायाविशिष्टसर्वेशो महाबिन्दुस्वरूपकः । अणिमादिगुणोपेतः सर्जनादिक्रियान्वितः ॥ २४६॥ मायाविशिष्टचैतन्योऽगण्यरूपविलासकः । मिश्रकामकलारूपोऽग्नीषोमीयस्वरूपकः ॥ २४७॥ मिश्रबिन्दुसमाख्याको जीववृन्दसमाश्रितः । कामकलात्रयाविष्टो बिन्दुत्रयविलासितः ॥ २४८॥ कामकलात्रयध्यानसर्वबन्धविमोचकः । बिन्दुत्रयैकताध्यानविकलेवरमुक्तिदः ॥ २४९॥ महायजनसम्प्रीतो वीरचर्याधरप्रियः । अन्तर्यागक्रमाराध्यो बहिर्यागपुरस्कृतः ॥ २५०॥ आत्मयागसमाराध्यः सर्वविश्वनियामकः । मातृकादशकन्यासदेवताभावसिद्धिदः ॥ २५१॥ प्रपञ्चयागन्यासेन सर्वेश्वरत्वदायकः । लघुषोढामहाषोढान्यासद्वयसमर्चितः ॥ २५२॥ श्रीचक्रत्रिविधन्यासमहासिद्धिविधायकः । रश्मिमालामहान्यासवज्रवर्मस्वरूपकः ॥ २५३॥ हंसपरमहंसाख्यन्यासद्वयविभावितः । महापदावनीन्यासकलाशताधिकाष्टकः ॥ २५४॥ त्रिपुरापूजनप्रीतः त्रिपुरापूजकप्रियः । नवावृतिमहायज्ञसंरक्षणधुरन्धरः ॥ २५५॥ लम्बोदरमहारूपो भैरवीभैरवात्मकः । उत्कृष्टशिष्टसद्वस्तु परसंवित्तिरूपकः ॥ २५६॥ शुभाशुभकरं कर्म जीवयात्राविधायकः । सच्चित्सुखं नाम रूपमधिष्ठानात्मकः परः ॥ २५७॥ आरोपितजगज्जातं मिथ्याज्ञानममङ्गलम् । अकारादिक्षकारान्तः शब्दसृष्टिस्वरूपकः ॥ २५८॥ परावाग् विमर्शरूपी पश्यन्ती स्फोटरूपधृक् । मध्यमा चिन्तनारूपो वैखरी स्थूलवाचकः ॥ २५९॥ ध्वनिरूपो वर्णरूपी सर्वभाषात्मकोऽपरः । मूलाधारगतः सुप्तः स्वाधिष्ठाने प्रपूजितः ॥ २६०॥ मणिपूरकमध्यस्थोऽनाहताम्बुजमध्यगः । विशुद्धिपङ्कजोल्लास आज्ञाचक्राब्जवासकः ॥ २६१॥ सहस्राराम्बुजारूढः शिवशक्त्यैक्यरूपकः । मूलकुण्डलिनीरूपो महाकुण्डलिनीमयः ॥ २६२॥ षोडशान्तमहास्थानोऽस्पर्शाभिधमहास्थितिः । इदं नामसहस्रं तु सर्वसम्पत्प्रदायकम् । धनधान्यसुताद्यष्टलक्ष्मीवृन्दप्रवर्धकम् ॥ २६३॥ सर्ववन्ध्यात्वदोषघ्नं सत्सन्तानप्रदायकम् । सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ २६४॥ धर्ममर्थं काममोक्षौ झटितीदं प्रदास्यति । निष्कामो वा सकामो वा सर्व एतत्प्रसाधयेत् ॥ २६५॥ इति उड्डामरेश्वरतन्त्रे क्षिप्रप्रसादनपटले गुह्यनाम उच्छिष्टगणेशसहस्रनामस्तोत्रम् ।
జప గణన: 0/108