సనాతన స్తోత్ర నిధి
దత్తాత్రేయ స్తోత్రమ్
సనాతన దేవ

అథ దత్తాత్రేయద్వాదశనామస్తోత్రం

अथ दत्तात्रेयद्वादशनामस्तोत्रम्
రచయిత: పారంపరిక వీక్షణలు: 11
లిపిని ఎంచుకోండి: देवनागरी (संस्कृत)
14px

अथ दत्तात्रेयद्वादशनामस्तोत्रम्

।।श्री गणेशाय नम:।।

अस्य श्रीदत्तात्रेय द्वादशनाम स्तोत्र मंत्रस्य। परमहंस ऋषि:। श्री दत्तात्रेय परमात्मा देवता। अनुष्टुप् छंद:। सकल कामना सिद्ध्यर्थे जपे विनियोग:।

प्रथमस्तु महायोगी द्वितीय प्रभुरीश्वर: तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागर:।

पंचमो ज्ञानविज्ञानम् षष्ठस्यात् सर्वमंगलम्। सप्तमो पुंडरीकाक्षरष्टमो देववल्लभ:।

नवमो नंददेवेशो दशमो नंददायक:। एकादशो महारुद्र: द्वादशो करुणाकर:।

एतानि द्वादश नामानि दत्तात्रेय महात्मन: मंत्रराजेति विख्यातं दत्तात्रेय हर: परा:।

क्षयोपस्मार कुष्ठादि तापज्वर निवारणम् राजद्वारेपथे अघोरे संग्रामेषु जलांतरे।

गिरे गृहांतरे अरण्ये व्याघ्र चोर भयादिषु। आवर्तने सहस्रेषु लभन्ते वांछितं फलम्।

त्रिकालं य: पठेन्नित्यं मोक्षसिद्धिमवाप्नुयात्। दत्तात्रेय सदा रक्षेत् यश: सत्यं न संशय:।

विद्यार्थी लभते विद्यां रोगी रोगात् प्रमुच्यते। अपुत्रो लभते पुत्रं दरिद्रि लभते धनम्।

अभार्यो लभते भार्याम् सुखार्थी लभते सुखम्। मुच्यते सर्व पापेभ्यो सर्वत्र विजयी भवेत्।।

इति श्री दत्तात्रेयद्वादशनामस्तोत्रम् संपूर्णम्।। श्री दत्तात्रेयार्पणमस्तु।।

జప గణన: 0/108