॥ सुन्दरबाहुस्तवः ॥
श्री श्रीवत्सचिह्नमिश्रैः विरचितायां पञ्चस्तव्यां सुन्दरबाहुस्तवः
॥ श्रीमते रामानुजाय नमः ॥
श्रीवत्सचिह्नमिश्रेभ्यो नमौक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥
श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १॥
सुन्दरायतभुजं भजामहे वृक्षषण्डमयमद्रिमास्थितम् । यत्र सुप्रथितनूपुरापगातीर्थमर्थितफलप्रदं विदुः ॥ २॥
क्वचित्त्वरितगामिनी क्वचन मन्दमन्दलसा क्वचित्स्खलितविह्वला क्वचन फेनिला सारवा । पतन्त्यपि किल क्वचिद्व्रजति नूपुराह्वा नदी सुसुन्दरभुजाह्वयं मधु निपीय मत्ता यथा ॥ ३॥
उदधिगमन्दराद्रिमथिमन्थनलब्धप- योमधुररसेन्दिराह्वसुधसुन्दरदोःपरिघम् । अशरणमादृशात्मशरणं शरणार्थिजन- प्रवणधियं भजेम तरुषण्डमयाद्रिपतिम् ॥ ४॥
शशधररिङ्खणाढ्यशिखमुच्छिखरप्रकरं- तिमिरनिभप्रभूततरुषण्डमयं भ्रमदम् । वनगिरिमावसन्तमुपयामि हरिं शरणं- भिदुरितसप्तलोकसुविशृङ्खलशङ्खरवम् ॥ ५॥
यत्तुङ्गशृङ्गविनिषङ्गिसुराङ्गनानां- न्यस्तोर्ध्वपुण्ड्रमुखमण्डनमण्डितानाम् । दर्पण्यभूद्धृतमपाङ्कशशाङ्कपृष्ठं- तद्धाम सुन्दरभुजस्य महान् वनाद्रिः ॥ ६॥
यदीयशिखरागतां शशिकलां तु शाखामृगा- निरीक्ष्य हरशेखरीभवनमामृशन्तस्ततः । स्पृशन्ति न हि देवतान्तरसमाश्रितेति स्फुटं- स एष सुमहातरुव्रजगिरिर्गृहं श्रीपतेः ॥ ७॥
सुन्दरदोर्दिव्याज्ञालम्भनकातरवशानुयायिनि करिणि । प्रणयजकलहसमाधिर्यत्र वनाद्रिस्स एष सुन्दरदोष्णः ॥ ८॥
स एष सौन्दर्यनिधेर्धृतश्रियो वनाचलो नाम सुधाम यत्र हि । भुजङ्गराजस्य कुलस्य गौरवान्न खण्डिताः कुण्डलिनश्शिखण्डिभिः ॥ ९॥
वृषगिरिरयमच्युतस्य यस्मिन् स्वमतमलङ्घयितुं परस्परेभ्यः । खगतिचरणौ खगाश्शपन्ते भुजगपतेर्भुजगाश्च सर्व एव ॥ १०॥
हरिकुलमखिलं हनूमदङ्घ्रिं स्वकुलपजाम्बवतस्तथैव भल्लाः । निजकुलपजटायुषश्च गृध्राः स्वकुलपतेश्च गजा गजेन्द्रनाम्नः ॥ ११॥
वकुलधरसरस्वतीविषक्तस्वररसभावयुतासु किन्नरीषु । द्रवति दृषदपि प्रसक्तगानास्विह वनशैलतटीषु सुन्दरस्य ॥ १२॥
भृङ्गी गायति हंसतालनिभृतं तत्पुष्णती कोकिला- ऽप्युद्गायत्यथ वल्लितल्लजमुखादास्रं मधु स्यन्दते । निष्पन्दस्तिमिताः कुरङ्गततयश्शीतं शिलासैकतं सायाह्ने किल यत्र सुन्दरभुजस्तस्मिन्वनक्ष्माधरे ॥ १३॥
पीताम्बरं वरदशीतलदृष्टिपात- माजानुलम्बिभुजमायतकर्णपाशम् । श्रीमन्महावनगिरीन्द्रनिवासदीक्षं लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ १४॥
जनिजीवनाप्ययविमुक्तयो यतो जगतामिति श्रुतिशिरस्सु गीयते । तदिदं समस्तदुरितैकभेषजं वनशैलसम्भवमहं भजे महः ॥ १५॥
सद्ब्रह्मात्मपदैस्त्रयीशिरसि यो नारायणोक्त्या तथा व्याख्यातो गतिसाम्यलब्धविषयानन्यत्वबोधोज्ज्वलैः । निस्तुल्याधिकमद्वितीयममृतं तं पुण्डरीकेक्षणं प्रारूढश्रियमाश्रये वनगिरेः कुञ्जोदितं सुन्दरम् ॥ १६॥
पतिं विश्वस्यात्मेश्वरमिति परं ब्रह्म पुरुषः परं ज्योतिस्तत्वं परमिति च नारायण इति । श्रुतिर्ब्रह्मेशादींस्तदुदितविभूतींस्तु गृणती यमाहारूढश्रीस्स वनगिरिधामा विजयते ॥ १७॥
पृथिव्याद्यात्मान्तं नियमयति यस्तत्त्वनिकरं तदन्तर्यामी तद्वपुरविदितस्तेन भगवान् । स एष स्वैश्वर्यं नविजहदशेषं वनगिरिं समध्यासीनो नो विशतु हृदयं सुन्दरभुजः ॥ १८॥
प्रत्यगात्मनि कदाऽप्यसम्भवद्भूमभूमिमभिवक्ति यं श्रतिः । तं वनाद्रिनिलयं सुसुन्दरं सुन्दरायतभुजं भजामहे ॥ १९॥
वन्देय सुन्दरभुजं भुजगेन्द्रभोग- सक्तं महावनगिरिप्रणयप्रवीणम् । यं तं विदुर्दहरमष्टगुणोपजुष्टं आकाशमौपनिषदीषु सरस्वतीषु ॥ २०॥
यत्स्वायत्तस्वरूपस्थितिकृतिकनिजेच्छानियाम्यस्वशेषा- नन्ताशेषप्रपञ्चस्तत इह चिदिवाचिद्वपुर्वाचिशब्दैः । विश्वैश्शब्दैः प्रवाच्यो हतवृजिनतया नित्यमेवानवद्य- स्तं वन्दे सुन्दराह्वं वनगिरिनिलयं पुण्डरीकायताक्षम् ॥ २१॥
गुणजं गुणिनो हि मङ्गलत्वं प्रमितं प्रत्युत यत्स्वरूपमेत्य । तमनन्तसुखावबोधरूपं विमलं सुन्दरबाहुमाश्रयामः ॥ २२॥
अतिपतितावधिस्वमहिमानुभवप्रभवत्सुख- कृतनिस्तरङ्गजलधीयितनित्यदशम् । प्रतिभटमेव हेयनिकरस्य सदाऽप्रतिमं हरिमिह सुन्दराह्वमुपयामि वनाद्रितटे ॥ २३॥
सदा षाड्गुण्याख्यैः पृथुलबलविज्ञानशकन- प्रभावीर्यैश्वर्यैरवधिविधुरैरेधितदशम् । द्रुमस्तोमक्ष्माभृत्परिसरमहोद्यानमुदितं प्रपद्येऽध्यारूढश्रियमिममहं सुन्दरभुजम् ॥ २४॥
सौशील्याश्रितवत्सलत्वमृदुतासौहार्दसाम्यार्जवैः- धैर्यस्थैर्यसुवीर्यशौर्यकृतितागाम्भीर्यचातुर्यकैः । सौन्दर्यान्वितसौकुमार्यसमतालावण्यमुख्यैर्गुणै- र्देवः श्रीतरुषण्डशैलनिलयो नित्यं स्थितस्सुन्दरः ॥ २५॥
येष्वेकस्य गुणस्य विप्रुडपि वै लोकोत्तरं स्वाश्रयं कुर्यात्तादृशवैभवैरगणितैर्निस्सीमभूमान्वितैः । नित्यैर्दिव्यगुणैस्ततोऽधिकशुभत्वैकास्पदात्माश्रयै- रिद्धं सुन्दरबाहुमस्मि शरणं यातो वनाद्रीश्वरम् ॥ २६॥
सदा समस्तं जगदीक्षते हि यः प्रत्यक्षदृष्ट्या युगपद्भुवा स्वतः । स ईदृज्ञाननिधिर्निधिस्तुर्नास्सहाद्रिकुञ्जेषु चकास्ति सुन्दरः ॥ २७॥
ऐश्वर्यतेजोबलवीर्यशक्तयः कीदृग्विधास्सुन्दरबाहुसंश्रयाः । योऽसौ जगज्जन्मलयस्थितिक्रियास्सङ्कल्पतोऽल्पादुपकल्पयत्यजः ॥ २८॥
यत्कल्पायुतभोगतोऽपि कृशतां यायान्न तावत्फलं येष्वेकस्य तथाविधैस्सततजैरंहोभिरुत्सीमभिः । अस्तादाविह संसृतावुपचितैश्छन्नं सुसन्नं जनं सन्नत्या क्षमते क्षणाद्वनगिरिप्रस्थप्रियस्सुन्दरः ॥ २९॥
यज्जातीयो यादृशो यत्स्वभावः पादच्छायां संश्रितो योऽपि कोऽपि । तज्जातीयस्तादृशस्तत्स्वभावः श्लिष्यत्येनं सुन्दरो वत्सलत्वात् ॥ ३०॥
निहीनो जात्या वा भृशमकृशलैर्वा स्वचरितैः पुमान्वै यः कश्चिद्बहुतृणमपि स्यादगुणतः । भजन्तं तं पश्येद्भुजगपतिना तुल्यमपि यो वनाद्रिप्रस्थस्थस्स मम शरणं सुन्दरभुजः ॥ ३१॥
एकैकमङ्लगुणानुभवाभिनन्द- मीदृक्त्वियानिति च सुन्दरदोष्णि कृष्णे । ते ये शतं त्विति नियन्तुमनाश्श्रुतिर्है नैवैष वाङ्मनसगोचर इत्युदाह ॥ ३२॥
अब्जपादमरविन्दलोचनं पद्मपाणितलमञ्जनप्रभम् । सुन्दरोरुभुजमिन्दिरापतिं वन्दिषीय वरदं वनाद्रिगम् ॥ ३३॥
कनकमरतकाञ्जनद्रवाणां मथनसमुत्थितसारमेलनोत्थम् । जयति किमपि रूपमस्य तेजो वनगिरिनन्दनसुन्दरोरुबाहोः ॥ ३४॥
किन्नु स्वयं स्वात्मविभूषणं भवन्नसावलङ्कार इतीरितो जनैः । वर्धिष्णुबालद्रुमषण्डमण्डितं वनाचलं वा परितः प्रसाधयन् ॥ ३५॥
सुखस्पर्शैर्नित्यैः कुसुमसुकुमाराङ्गसुखदैः सुसौगन्ध्यैर्दिव्याभरणगणदिव्यायुधगणैः । अलङ्कार्यैस्सर्वैर्निगदितमलङ्गार इति य- स्समाख्यानं धत्ते स वनगिरिनाथोऽस्तु शरणम् ॥
मकुटमकुटमालोत्तंसचूडाललाम- स्वलकतिलकमालाकुण्डलैस्सोर्ध्वपुण्ड्रैः । मणिवरवनमालाहारकेयूरकण्ठ्यै- स्तुलसिकटककाञ्चीनूपराद्यैश्च भूषैः ॥ ३७॥
असिजलजरथाङ्गैश्शार्ङ्गकौमोदकीभ्या- मगणितगुणजालैरायुधैरप्यथान्यैः । सततविततशोभं पद्मनाभं वनाद्रे- रुपवनसुखलीलं सुन्दरं वन्दिषीय ॥ ३८॥
आजानजस्वगतबन्धुरगन्धलुब्ध- भ्राम्यद्विदग्धमधुपालिसदेशकेशम् । विश्वाधिराज्यपरिबर्हकिरीटराजं है सुन्दरस्य बत ! सुन्दरमुत्तमाङ्गम् ॥ ३९॥
अन्धं तमस्तिमिरनिर्मितमेव यत्स्या- त्तत्सारसाधितसुतनत्वतिवृत्तवार्तम् । ईशस्य (केसरिगिरे) केशवहरेरलकालिजालं तत्तुल्यकुल्यमधुपाढ्यमहावनस्य ॥ ४०॥
जुष्टाष्टमीकज्वलदिन्दुसन्निभं धृतोर्ध्वपुण्ड्रं विलसद्विशेषकम् । भूम्ना ललाटं विमलं विराजते वनाद्रिनाथस्य समुच्छ्रितश्रियः ॥ ४१॥
सुचारुचापद्वयविभ्रमं भ्रूवोयुगं सुनेत्राह्वसहस्रपत्रयोः । उपान्तगं वा मधुपावलीयुगं विराजते सुन्दरबाहुसंश्रयम् ॥ ४२॥
अदीर्घमप्रेमदुघं क्षणोज्ज्वलं नचोरमन्तःकरणस्य पश्यताम् । अनुब्जमब्जं नु कथं निदर्शनं वनाद्रिनाथस्य विशालयोर्दृशोः ॥ ४३॥
प्रश्च्योतत्प्रेमसारामृतरसचुलकप्रक्रमप्रक्रियाभ्यां विक्षिप्तालोकितोर्मिप्रसरणमुषितस्वान्तकान्ताजनाभ्याम् । विश्वोत्पत्तिप्रवृत्तिस्थितिलयकरणैकान्तशान्तक्रियाभ्यां देवोऽलङ्कारनामा वनगिरिनिलयो वीक्षतामीक्षणाभ्याम् ॥ ४४॥
प्रेमामृतौघपरिवाहिमहाक्षिसिन्धु- मध्ये प्रबद्धसमुदञ्चितसेतुकल्पा । ऋज्वी सुसुन्दरभुजस्य विभाति नासा कल्पद्रुमाङ्कुरनिभा वनशैलभर्तुः ॥ ४५॥
व्याभाषिताभ्यधिकनन्दनभन्दनर्द्धिमन्दस्मितामृतपरिस्रवसंस्तवाढ्यम् । आभाति विद्रुमसमाधरमास्यमस्य देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः ॥ ४६॥
यशोदाङ्गुल्यग्रोन्नमितचुबुकाघ्राणमुदितौ कपोलावद्यापि ह्यनुपरततद्धर्षगमकौ । विराजेते विश्वग्विततसहकारासवरस- प्रमाद्यद्भृङ्गाढ्यद्रुमवनगिरेस्सुन्दरहरेः ॥ ४७॥
व्यालम्बिकुण्डलमुदग्रसुवर्णपुष्प- निष्पन्नकल्पलतिकायमलानुकारम् । यत्कर्णपाशयुगलं निगलं धियां न- स्सोऽयं सुसुन्दरभुजो वनशैलभूषा ॥ ४८॥
सदंससंसञ्जितकुन्तलान्तिकावतीर्णकर्णाभरणाढ्यकन्धरः । सुबन्धुरस्कन्धनिबन्धनो युवा सुसुन्दरस्सुन्दरदोर्विजृम्भते ॥ ४९॥
व्यूढगूढभुजजत्रुमुल्लसत्कम्बुकन्धरधरं धराधरम् । वृक्षषण्डमयभूभृतस्तटे सुन्दरायतभुजं भजामहे ॥ ५०॥
मन्दरभ्रमणविभ्रमोद्भटास्सुन्दरस्य विलसन्ति बाहवः । इन्दिरासमभिनन्दभन्दनाश्चन्दनागरुविलेपभूषिताः ॥ ५१॥
ज्याकिणाङ्कपरिकर्मधर्मिणो भान्ति सुन्दरभुजस्य बाहवः । पारिजातविटपायितर्द्धयः प्रार्थितार्थपरिदानदीक्षिताः ॥ ५२॥
सागराम्बरतमालकाननश्यामलर्द्धय उदारपीवराः । शेषभोगपरिभोगभागिनस्तन्निभा वनगिरीशितुर्भुजाः ॥ ५३॥
अहमहमिकाभाजो गोवर्धनोद्धृतिनर्मणि प्रमथनविधावब्धेर्लब्धप्रबन्धसमक्रियाः । अभिमतबहूभावाः कान्ताभिरम्भणसम्भ्रमे वनगिरिपतेर्बाहाश्शुम्भन्ति सुन्दरदोर्हरेः ॥ ५४॥
श्रीमद्वनाद्रिपतिपाणितलाब्जयुग्ममारूढयोर्विमलशङ्खरथाङ्गयोस्तु । एकोऽब्जमाश्रित इवोत्तमराजहंसः पद्मप्रियोऽर्क इव तत्समितो द्वितीयः ॥ ५५॥
लक्ष्म्याः पदं कौस्तुभसंस्कृतं च श्रीवत्सभूमिर्विमलं विशालम् । विभाति वक्षो वनमालयाऽऽढ्यं वनाद्रिनाथस्य सुसुन्दरस्य ॥ ५६॥
सौन्दर्यामृतसारपूरपरिवाहावर्तगर्तायितं यातः किञ्च विरिञ्चसम्भवनभूम्यम्भोजसम्भूतिभूः । नाभिश्शुम्भति कुम्भिकुम्भनिभनिर्भातस्तनस्वर्वधू- सम्भुक्तद्रुमषण्डशैलवसतेरारूढलक्ष्म्या हरेः ॥
सुन्दरस्य किल सुन्दरबाहोः श्रीमहातरुवनाचलभर्तुः । हन्त ! यत्र निवसन्ति जगन्ति प्रापितक्रंशिम तत्तनु मध्यम् ॥ ५८॥
पिष्टदुष्टमधुकैटभकीटौ हस्तिहस्तयुगलाभसुवृत्तौ । राजतः क्रमकृशौ च सदूरू सुन्दरस्य वनभूधरभर्तुः ॥ ५९॥
यौवनवृषककुदोद्भेदनिभं नितरां भाति विभोरुभयं जानु शुभाकृतिकम् । सुन्दरभुजनाम्नो मन्दरमथिताब्धेश्चन्दनवनविलसत्कन्दरवृषभपतेः ॥ ६०॥
अधोमुखं न्यस्तपदारविन्दयोरुदञ्चितोदात्तसुनालसन्निभे । विलङ्घ्य जङ्घे क्व नु रंहतो दृशौ वनाद्रिनाथस्य सुसुन्दरस्य मे ॥ ६१॥
सुसुन्दरस्यास्य पदारविन्दे पदारविन्दाधिकसौकुमार्ये । अतोऽन्यथा ते बिभृयात्कथं नु तदासनं नाम सहस्रपत्रम् ॥ ६२॥
सौन्दर्यमार्दवसुगन्धरसप्रवाहै- रेते हि सुन्दरभुजस्य पदारविन्दे । अम्भोजडम्भपरिरम्भणमभ्यजैष्टां तद्वै पराजितमिमे शिरसा बिभर्ति ॥ ६३॥
एते ते बत ! सुन्दराह्वयजुषः पादारविन्दे शुभ यन्निर्णेजसमुत्थितत्रिपथगास्रोतस्सु किञ्चित्किल । धत्तेऽसौ शिरसा ध्रुवस्तदपरं स्रोतो भवानीपति- र्यस्यास्यालकनन्दिकेति निजगुर्नामैवमन्वर्थकम् ॥ ६४॥
आम्नायकल्पलतिकोत्थसुगन्धिपुष्पं योगीन्द्रहार्दसरसीरुहराजहंसम् । उत्पक्वधर्मसहकारफलप्रकाण्डं वन्देय सुन्दरभुजस्य पदारविन्दम् ॥ ६५॥
सुसुन्दरस्यास्य तु वामनाकृतेः क्रमत्रयप्रार्थिनि मानसे किल । इमे पदे तावदिहासहिष्णुनी विचक्रमाते त्रिजगत्पदद्वये ॥ ६६॥
सौन्द्रर्यसारामृतसिन्धुवीचिश्रेणीषु पादाङ्गुलिनामिकासु । न्यक्कृत्य चन्द्रश्रियमात्मकान्त्या नखावली शुम्भति सुन्दरस्य ॥ ६७॥
यो जातक्रशिमा मली च शिरसा सम्भावितश्शम्भुना सोऽयं यच्चरणाश्रयी शशधरो नूनं नखव्याजतः । पूर्णत्वं विमलत्वमुज्ज्वलतया सार्धं बहुत्वं तथा यातस्तं तरुषण्डशैलनिलयं वन्दामहे सुन्दरम् ॥ ६८॥
यस्याः कटाक्षणमनुक्षणमीश्वराणामैश्वर्यहेतुरिति सर्वजनीनमेतत् । श्रीस्सेति सुन्दरनिषेवणतो निराहुस्त्वां हि श्रियश्श्रियमुदाहुरुदारवाचः ॥ ६९॥
दिव्याचिन्त्यमहाद्भुतोत्तमगुणैस्तारुण्यलावण्यक- प्रायैरद्भुतभावगर्भसततापूर्वप्रियैर्विभ्रमैः । रूपाकारविभूतिभिश्च सदृशीं नित्यानपेतां श्रियं नीला भूमिमपीदृशीं रमयिता नित्यं वनाद्रीश्वरः ॥
अन्योन्यचेष्टितनिरीक्षणहार्दभावप्रेमानुभावमधुरप्रणयप्रभावः । आजस्रनव्यतरदिव्यरसानुभूतिस्त्वां प्रेयसीं रमयिता वनशैलनाथः ॥ ७१॥
सुन्दरस्य वनशैलवासिनो भोगमेव निजभोगमाभजन् । शेष एष इति शेषताकृतेः प्रीतिमानहिपतिस्स्वनामनि ॥ ७२॥
वाहनासनवितानचामराद्याकृतिः खगपतिस्त्रयीमयः । नित्यदास्यरतिरेव यस्य वै ह्येष सुन्दरभुजो वनाद्रिगः ॥ ७३॥
वनाद्रिनाथस्य सुसुन्दरस्य वै प्रभुक्तशिष्टाश्यथ सैन्यसत्पतिः । समस्तलोकैकधुरन्धरस्सदा कटाक्षवीक्ष्योऽस्य च सर्वकर्मसु ॥ ७४॥
छत्रचामरमुखाः परिच्छदास्सूरयः परिजनाश्च नैत्यगाः । सुन्दरोरुभुजमिन्घते सदा ज्ञानशक्तिमुखनित्यसद्गुणाः ॥ ७५॥
द्वारनाथगणनाथतल्लजाः पारिषद्यपदभागिनस्तथा । मामकाश्च गुरवः पुरातनास्सुन्दरं वनमहीध्रगं श्रिताः ॥ ७६॥
ईदृशैः परिजनैः परिच्छदैर्नित्यसिद्धनिजभोगभूमिगः । सुन्दरो वनगिरेस्तटीषु वै रज्यते सकलदृष्टिगोचरः ॥ ७७॥
अक्रीडभूमिषु सुगन्धिषु पौष्पिकीषु वैकुण्ठधामनि समृद्धसुवापिकासु । श्रीमल्लतागृहवतीषु यथा तथैव लक्ष्मीधरस्सजति सिंहगिरेस्तटीषु ॥ ७८॥
आनन्दमन्दिरमहामणिमण्डपान्तर्लक्ष्म्या भुवाऽप्यहिपतौ सह नीलया च । निस्सङ्ख्यनित्यनिजदिव्यजनैकसेव्यो नित्यं वसन् सजति सुन्दरदोर्वनाद्रौ ॥ ७९॥
प्रत्यर्थिनि त्रिगुणकप्रकृतेरसीम्नि वैकुण्ठधामनि पराम्बरनाम्नि नित्ये । नित्यं वसन्परमसत्वमयेऽप्यतीत- योगीन्द्रवाङ्मनस एष हरिर्वनाद्रौ ॥ ८०॥
लोकांश्चतुर्दश दधत् किल सुन्दरस्य पङक्तीगुणोत्तरितसप्तवृतीदमण्डम् । अन्यानि चास्य सुसन्दृशि परश्शतानि क्रीडाविधेरिह परिच्छदतामगच्छन् ॥ ८१॥
सुरनरतिर्यगादिबहुभेदकभिन्नमिदं जगदथ चाण्डमण्डवरणानि च सप्त तथा । गुणपुरुषौ च मुक्तपुरुषाश्च वनाद्रिपते- रुपकरणानि नर्मविधयेऽपि भवन्ति विभोः ॥ ८२॥
ज्ञानिनस्सततयोगिनस्तु ये सुन्दराङ्घ्रिपरभक्तिभागिनः । मुक्तिमाप्य परमां परे पदे नित्यकिङ्करपदं भजन्ति ते ॥ ८३॥
देवस्य सुन्दरभुजस्य वनाद्रिभर्तु- र्है शीलवत्त्वमथवाऽऽश्रितवत्सलत्वम् । ऐशस्वभावमजहद्भिरिहावतारै- र्योऽलञ्चकार जगदाश्रिततुल्यधर्मा ॥ ८४॥
सिंहाद्रिनाथ! तव वाङ्मनसातिवृत्तं रूपं त्वतीन्द्रियमुदाह रहस्यवाणी । एवं च न त्वमिह चेत्समवातरिष्य- स्त्वज्ज्ञानभक्तिविधयोऽद्य मुधाऽभविष्यन् ॥ ८५॥
ये भक्ता भवदेकभोगमनसोऽनन्यात्मसञ्जीवना तत्संश्लोषणतद्विरोधिनिधनाद्यर्थं वनाद्रीश्वर! । मध्येऽण्डं यदवातरस्सुरनराद्याकारदिव्याकृति- स्तेनैव त्रिदशैर्नरैश्च सुकरं स्वप्रार्थितप्रार्थनम् ॥
श्रीमन्महावनगिरीशविधीशयोस्ते मध्ये तु विष्णुरिति यः प्रथमावतारः । तेनैव चेत्तव महिम्नि जनाः किलान्धा- स्त्वन्मत्स्यभावमवगम्य कथं भवेयुः ॥ ८७॥
हे देव! सुन्दरभुज! त्वमिहाण्डमध्ये सौलभ्यतो विसदृशं चरितं महिम्नः । अङ्गीकरोषि यदि तत्र सुरैरमीभि- स्साम्यान्निकर्षपरिपालनमेव साधु ॥ ८८॥
इहावतीर्णस्य वनाद्रिनाथ! ते निगूहतः स्वं महिमानमैश्वरम् । उमापतेः किं विजयः प्रियङ्करः प्रियङ्करा वेन्द्रजिदस्त्रबन्धना ॥ ८९॥
पुच्छोत्पुच्छनमूर्च्छनोद्धतिधुतव्यावर्तितावर्तवत्- संवर्तार्णवनीरपूरविलुठत्पाठीनदिव्याकृतेः । सिंहाद्रीश न वैभवं तव कथं स्वालक्ष्यमालक्ष्यते पद्माक्षस्य जुघुक्षतोऽपि विभवं लक्ष्मी-धराधोक्षज! ॥ ९०॥
साचलावटतटाकदीर्घिकाजाह्नवीजलविवर्धितः क्षये । शृङ्गसङ्गमितनौर्मनोरभूरग्रतोऽण्डजवपुर्हि सुन्दर! ॥ ९१॥
प्रलयजनीरपूरपरिपूरितस्वनिलयावसन्नवदनभ्रमद- शरण्यभूतशरणार्थिनाकिशरणं भवन् स्वकृपया । चलदुदधीरिताम्बुकलुषीक्रियाढ्यगमनस्वपृष्ठविधृता- चलकुल एष मीनतनुरत्र सुन्दरभुजो वनाद्रिनिलयः ॥ ९२॥
स्वपृष्ठे प्रष्ठाद्रिभ्रमणकरणैः किञ्च फणिनः विकृष्टिव्याकृष्टिव्यतिविधुतदुग्धाब्धिचलितैः । अविस्पन्दो नन्दन् विकसदरविन्देक्षणरुचिः पुराऽभूस्सिंहाद्रेः प्रियतम ! हरे ! कच्छवपुः ॥ ९३॥
जगत्प्रलीनं पुनरुद्दिधीर्षतस्सिंहक्षितिक्षिन्निलयस्थ ! सुन्दर ! । पुरा वराहस्य तवेयमुर्वरा दंष्ट्राह्वयेन्दोः किल लक्ष्य लक्षिता ॥ ९४॥
न वायुः पस्पन्दे ययतुरथवाऽस्तं शशिरवी दिशोऽनश्यन् विश्वाऽप्यचलदचला साचलकुला । नभश्च प्रश्च्योति क्वथितमपि पाथो नरहरौ त्वयि स्तम्भे शुम्भद्वपुषि सति हे सुन्दरभुज ! ॥
अरालं पातालं त्रिदशनिलयः प्रापितलयो धरित्री निर्धूता ययुरपि दिशः कामपि दिशम् । अजृम्भिष्टाम्भोधिर्घुमुघुमिति घूर्णन् सुररिपोः विभिन्दाने वक्षस्त्वयि नरहरौ सुन्दरभुज ! ॥
नखक्रकचकप्रथिक्रथितदैत्यवक्षःस्थली- समुत्थरुधिरच्छटाच्छुरितबिम्बितं स्वं वपुः । विलोक्य रुषितः पुनः प्रतिमृगेन्द्रशङ्काव- शाद्य एष नरकेसरी स इह दृश्यते सुन्दरः ॥ ९७॥
क्षितिरियं जनिसंहृतिपालनैः निगिरणोद्गिरणोद्धरणैरपि । वनगिरीश ! तवैव सती कथं वरद ! वामन ! भिक्षणमर्हति ॥ ९८॥
भार्गवः किल भवन् भवान्पुरा कुन्दसुन्दरवनाचलेश्वर ! । अर्जुनस्य बलदर्पितस्य तु च्छेत्स्यति स्मरति बाहुकाननम् ॥ ९९॥
आज्ञा तवात्रभवती विदिता त्रयी सा धर्मं तदुक्तमखिलेन वनाद्रिनाथ! । अन्यूनमाचरितुमास्तिकशिक्षणार्थ- मत्रावतीर्य किल सुन्दर ! राघवोऽभूः ॥ १००॥
वनगिरिपतिरीशितेति देवैः त्रिपुरहरत्रिपुरघ्नचापभङ्गात् । व्यगणि परशुरामदर्शितस्य स्वकधनुषः परिमर्शदर्शनाञ्च ॥ १०१॥
अनवाप्तमत्र किल लिप्स्यते जनैर्न च लब्धमेतदिह भोक्तुमिष्यते । अनवाप्तमत्र किल नास्ति राम ! तज्जगती त्वया तृणमवैक्षि सुन्दर! ॥ १०२॥
शिखरिषु विपिनेष्वप्यापगास्वच्छतोया- स्वनुभवसि रसज्ञो दण्डकारण्यवासान् । तदिह तदनुभूतौ साभिलाषोऽद्य राम ! श्रयसि वनगिरीन्द्रं सुन्दरीभूय भूयः ॥ १०३॥
उपवनतरुषण्डैर्मण्डिते गण्डशैल- प्रणयिभवदुदन्तोद्गायिगन्धर्वसिद्धे । वनगिरितटभूमिप्रस्तरे सुन्दर ! त्वं भजसि नु मृगयानानुद्रवश्रान्तिशान्तिम् ॥ १०४॥
कूलेऽब्धेः किल दक्षिणस्य निवसन्दूरोत्तराम्भोधिगान् दैत्यानेकपतत्रिणाऽच्छिन इतीयं किं वदन्ती श्रुता । तत्रैवेश्वरमम्भसां व्यजयथास्तस्माद्वनाद्रीश्वर ! श्रीमन् ! सुन्दर ! सेतुबन्धनमुखाः क्रीडास्तवाडम्बरम् ॥ १०५॥
रघुकुलतिलक ! त्वं जातुचिद्यातुधान- च्छलमृगमृगयायां संप्रसक्तः पुराऽभूः । तदुपजनितखेदच्छेदनायाद्य गायन्- मधुकरतरुषण्डं रज्यसे किं वनाद्रिम् ॥ १०६॥
हे सुन्दरैकतरजन्मनि कृष्णभावे द्वे मातरौ च पितरौ च कुले अपि द्वे । एकक्षणादनुगृहीतवतः फलं ते नीला कुलेन सदृशी किल रुक्मिणी च ॥ १०७॥
त्वं हि सुन्दर ! यदा स्तनन्धयः पूतनास्तनमधास्तदा नु किम् । जीर्णमेव जठरे पयोविषं दुर्जरं वद तदात्मना सह ॥ १०८॥
आश्रितेषु सुलभो भवन् भवान् मर्त्यतां यदि जगाम सुन्दर! । अस्तु नाम तदुलूखले कियद्दामबद्ध इति किं तदाऽरुदः ॥ १०९॥
सुन्दरोरुभुज ! नन्दनन्दनस्त्वं भवन् भ्रमरविभ्रमालकः । मन्दिरेषु नवनीततल्लजं वल्लवीधियमुत व्यचूचुरः ॥ ११०॥
कालियस्य फणतां शिरस्तु मे सत्कदम्बशिखरत्वमेव वा । वष्टि जुष्टवनशैल ! सुन्दर ! त्वत्पदाब्जयुगमर्पितं ययोः ॥ १११॥
गूहितस्वमहिमाऽपि सुन्दर ! त्वं व्रजे किमिति शक्रमाक्रमीः । सप्तरात्रमदधाश्च किं गिरिं पृच्छतश्च सुहृदः किमक्रुधः ॥ ११२॥
हे नन्दनन्दन ! सुसुन्दर ! सुन्दराह्व वृन्दावने विहरतस्तव वल्लवीभिः । वेणुध्वनिश्रवणतस्तरुभिस्तदा व सग्रावभिर्जतुविलायमहो ! विलिल्ये ॥ ११३॥
गायङ्गायं वनगिरिपते ! त्वं हि वृन्दावनान्त- र्गोपीसङ्घैर्विहरसि यदा सुन्दर ! व्यूढबाहो ! । रासारम्भोत्सवबहुविधप्रेमसीमन्तिनीना चेतश्चेतस्तव च तु तदा कां दशामन्वभूताम् ॥
इङ्गितं निमिषितं च तावकं रम्यमद्भुतमतिप्रियङ्करम् । तेन कंसमुखकीटशासनं सुन्दराल्पकमपि प्रशस्यते ॥ ११५॥
वाराणसीदहनपौण्ड्रकभौमभङ्ग- कल्पद्रुमाहरणशङ्करजृम्भणाद्याः । अन्याश्च भारतबलक्रथनादयस्ते क्रीडास्सुसुन्दरभुज ! श्रवणामृतानि ॥ ११६॥
त्वं हि सुन्दर ! वनाद्रिनाथ ! हे वेङ्कटाह्वयनगेन्द्रमूर्धनि । देवसेवितपदाम्बुजद्वयः संश्रितेभ्य इह तिष्ठसे सदा ॥ ११७॥
हस्तिशैलनिलयो भवन् भवान् साम्प्रतं वरदराजसाह्वयः । इष्टमर्थमनुकम्पया ददद्विश्वमेव दयते हि सुन्दर ! ॥ ११८॥
मध्येक्षीरपयोधि शेषशयने शेषे सदा सुन्दर ! त्वं तद्वैभवमात्मनो भुवि भवद्भक्तेषु वात्सल्यतः । विश्राण्याखिलनेत्रपात्रमिह सन् सह्योद्भवायास्तटे श्रीरङ्गे निजधाम्नि शेषशयने शेषे वनाद्रीश्वर! ॥ ११९ । कल्कीभविष्यन् कलिकल्कदूषितान्- दुष्टानशेषान् भगवन् ! हनिष्यसि । स एष तस्यावसरस्सुसुन्दर ! प्रशाधि लक्ष्मीश ! समक्षमेव नः ॥ १२०॥
ईदृशास्त्वदवतारसत्तमास्सर्व एव भवदाश्रितान् जनान् । त्रातुमेव न कदाचिदन्यथा तेन सुन्दर ! भवन्तमाश्रये ॥ १२१॥
त्वामामनन्ति कवयः करुणामृताब्धि त्वामेव संश्रितजनिघ्नमुपघ्नमेषाम् । येषां व्रजन्निह हि लोचनगोचरत्वं है सुन्दराह्व ! परिचस्करिषे वनाद्रिम् ॥ १२२॥
अशक्यं नो किञ्चित्तव न च न जानासि निखिलं दयालुः क्षन्ता चास्यहमपि न चागांसि तरितुम् । क्षमोऽतस्त्वच्छेषो ह्यगतिरिति च क्षुद्र इति च क्षमस्वैतावन्नोऽबलमिह हरे ! सुन्दरभुज ! ॥ १२३॥
लङ्कायुद्धहतान् हरीन् द्विजसुतं शम्बूकदोषान्मृतं सान्दीपन्यभिजं मृतं द्विजसुतान् बालांश्च वैकुण्ठगान् । गर्भं चार्जुनिसम्भवं व्युदधरस्स्वैनैव रूपेण यः स्वाभीष्टं मम मद्गुरोश्च ददसे नो किं वनाद्रीश्वर! ॥ १२४॥
आयोध्यकान् सपशुकीटतृणांश्च जन्तून् किङ्कर्मणो नु बत ! कीदृशवेदनाढ्यान् । सायुज्यलभ्यविभवान्निजनित्यलोकान् सान्तानिकानगमयो वनशैलनाथ! ॥ १२५॥
हरितवारणभृत्यसमाह्वयं करिगिरौ वरदस्त्वमपूर्विकाम् । दृशमलम्भय एव हि सुन्दर ! स्फुटमदाश्च वरान् शतमीदृशान् ॥ १२६॥
इह च देव ! ददासि वरान् परान् वरद ! सुन्दर ! सुन्दरदोर्धर ! । वनगिरेरभितस्तटमावसन्नखिललोचनगोचरवैभवः ॥ १२७॥
इदमिमे शृणुमो मलयध्वजं नृपमिह स्वयमेव हि सुन्दर ॥ चरणसात्कृतवानिति तद्वयं वनगिरीश्वर ! जातमनोरथाः ॥ १२८॥
विज्ञापनां वनगिरीश्वर! सत्यरूपामङ्गीकुरुष्व करुणार्णव ! मामकीनाम् । श्रीरङ्गधामनि यथापुरमेकतोऽहं रामानुजार्यवशगः परिवर्तिषीय ॥ १२९॥
किञ्चेदञ्च विरिञ्चभावन ! वनाद्रीश ! प्रभो ! सुन्दर ! प्रत्याख्यानपराङ्मुखो वरदतां पश्यन्नवश्यं शृणु । श्रीरङ्गश्रियमन्वहं प्रगुणयंस्त्वद्भक्तभोग्यां कुरु प्रत्यक्षं सुनिरस्तमेव विदध- त्प्रत्यर्थिनां प्रार्थनम् ॥ १३०॥
कारुण्यामृतवारिधे ! वृषपते ! हे सत्यसङ्कल्पन ! श्रीमन् ! सुन्दर ! योग्यताविरहिता- नुत्सार्य सद्वत्सल ! । क्षाम्यन् साधुजनैः कृतांस्तु निखिलानेवापचारान् क्षणात् तद्भोग्यामनिशं कुरुष्व भगवन् ! श्रीरङ्गधामश्रियम् ॥ १३१॥
इदं भूयोभूयः पुनरपि च भूयः पुनरपि स्फुटं विज्ञीप्सामीत्यगतिरबुधोऽनन्यशरणः । कृतागा दुष्टात्मा कलुषमतिरस्मीत्यनवधेः दयायाम्ते पात्रं वनगिरिपते ! सुन्दरभुज ! ॥ १३२॥
॥ इति पञ्चस्तव्यां तृतीयः सुन्दरबाहुस्तवः सम्माप्तः ॥