सनातन स्तोत्र संग्रह
Sri Ganesha Stotram
सनातन देव

॥ सङ्कटनाशनगणेशस्तोत्रम् ॥

stotra-b1d315b1
रचयिता: पारंपरिक पाठ संख्या: 7
23px
॥  सङ्कटनाशनगणेशस्तोत्रम् ॥  प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेनित्यमायुकामार्थसिद्धये ॥ १ ॥   प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्र चतुर्थकम् ॥ २ ॥   लम्बोदरं पञ्चमै च षष्ठं विकटमेव च । सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥ ३ ॥  नवमं फालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपति द्वादशं तु गजाननम् ॥ ४ ॥  द्वादशेतानि नामानि त्रिसन्ध्यं य: पठेन्नरः। नव विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥  विद्यार्थी लभते विद्यां धनार्थी लमते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥  जपेद्गणपतिस्तोत्रं षभिर्मासै: फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ॥ ७ अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ॥ ८ इति श्रीनारदपुराणे सङ्कटनाशननामगणेशस्तोत्रम्  ॥  सम्पूर्णम् ॥ 
पाठ जप: 0/108