सनातन स्तोत्र संग्रह
Navagraha Stotram
सनातन देव

॥ राहुपञ्चविंशतिनामस्तोत्रम् ॥

stotra-b19df595
रचयिता: पारंपरिक पाठ संख्या: 7
23px

राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः। अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः॥१॥

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः। ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः॥२॥

कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः। विधुन्तुदः सैंहिकेयो घोररूपो महाबलः॥३॥

ग्रहपीडाकरो दंष्ट्री रक्तनेत्रो महोदरः। पञ्चविंशतिनामानि स्मृत्वा राहुं सदा नरः॥४॥

यः पठेन्महती पीडा तस्य नश्यति केवलम्। आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा॥५॥

ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम्। सततं पठते यस्तु जीवेद्वर्षशतं नरः॥६॥

॥ इति श्रीस्कान्दपुराणे श्री राहुपञ्चविंशतिनामस्तोत्रं सम्पूर्णम् ॥

पाठ जप: 0/108