सनातन स्तोत्र संग्रह
Upanishadah
सनातन देव

॥ हेरम्बोपनिषत् ॥

stotra-afd1dfed
रचयिता: पारंपरिक पाठ संख्या: 1
23px
॥ हेरम्बोपनिषत् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ अथातो हेरंबोपनिषदं व्याख्यास्यामः । गौरी सा सर्वमङ्गला सर्वज्ञं परिसमेत्योवाच । अधीहि भगवन्नात्मविद्यां प्रशस्तां यया जन्तुर्मुच्यते मायया च । यतो दुःखाद्विमुक्तो याति लोकं परं शुभ्रं केवलं सात्त्विकं च ॥ १ ॥ तां वै स होवाच महानुकम्पासिन्धुर्बन्धुभुवनस्य गोप्ता । श्रद्धस्वैतद्गौरी सर्वात्मना त्वं मा ते भूयः संशयोऽस्मिन् कदाचित् ॥ २ ॥ हेरंबतत्त्वे परमात्मसारे नो वै योगान्नैव तपोबलेन । नैवायुधप्रभावतो महेशि दग्धं पुरा त्रिपुरं दैवयोगात् ॥ ३ ॥ तस्यापि हेरंबगुरोः प्रसादाद्यथा विरिञ्चिर्गरुडो मुकुन्दः । देवस्य यस्यैव बलेन भूयः स्वं स्वं हितं प्राप्य सुखेन सर्वम् ॥ ४ ॥ मोदन्ते स्वे स्वे पदे पुण्यलब्धे सवैर्देवैः पूजनीयो गणेशः । प्रभुः प्रभूणामपि विघ्नराजः सिन्दूरवर्णः पुरुषः पुराणः ॥ ५ ॥ लक्ष्मीसहायोऽद्वयकुञ्जराकृतिश्चतुर्भुजश्चन्द्रकलाकलापः । मायाशरीरो मधुरस्वभावस्तस्य ध्यानात् पूजनात्तत्स्वभावाः ॥ ६ ॥ संसारपारं मुनयोऽपि यान्ति स वा ब्रह्मा स प्रजेशो हरिः सः । इन्द्रः स चन्द्रः परमः परात्मा स एव सर्वो भुवनस्य साक्षी ॥ ७ ॥ स सर्वलोकस्य शुभाशुभस्य तं वै ज्ञात्वा मृत्युमत्येति जन्तुः । नान्यः पन्था दुःखविमुक्तिहेतुः सर्वेषु भूतेषु गणेशमेकम् ॥ ८ ॥ विज्ञाय तं मृत्युमुखात् प्रमुच्यते स एवमास्थाय शरीरमेकम् । मायामयं मोहयतीव सर्वं स प्रत्यहं कुरुते कर्मकाले ॥ ९ ॥ स एव कर्माणि करोति देवो ह्येको गणेशो बहुधा निविष्टः । स पूजितः सन् सुमुखोऽभिभूत्वा दन्तीमुखोऽभीष्टमनन्तशक्तिः ॥ १० ॥ स वै बलं बलिनामग्रगण्यः पुण्यः शरण्यः सकलस्य जन्तोः । तमेकदन्तं गजवक्त्रमीशं विज्ञाय दुःखान्तमुपैति सद्यः ॥ ११ ॥ लंबोदरोऽहं पुरुषोत्तमोऽहं विघ्नान्तकोऽहं विजयात्मकोऽहम् । नागाननोऽहं नमतां सुसिद्धः स्कन्दाग्रगण्यो निखिलोऽहमस्मि ॥ १२ ॥ न मेऽन्तरायो न च कर्मलोपो न पुण्यपापे मम तन्मयस्य । एवं विदित्वा गणनाथतत्त्वं निरन्तरायं निजबोधबीजम् ॥ १३ ॥ क्षेमङ्करं सन्ततसौख्यहेतुं प्रयान्ति शुद्धं गणनाथतत्त्वम् । विद्यामिमां प्राप्य गौरी महेशादभीष्टसिद्धिं समवाप सद्यः । पूज्या परा सा च जजाप मन्त्रं शंभुं पतिं प्राप्य मुदं ह्यवाप ॥ १४ ॥ य इमां हेरंबोपनिषदमधीते स सर्वान् कामान् लभते । स सर्वपापैर्मुक्तो भवति । स सर्वैर्वेदैर्ज्ञातो भवति । स सर्वैर्देवैः पूजितो भवति । स सर्ववेदपारायणफलं लभते । स गणेशसायुज्यमवाप्नोति य एवं वेद । इत्युपनिषत् । ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
पाठ जप: 0/108