Sanatana Stotra Collection
Shrenee
Sanaatana deva

Guhyauchchhisht'aganeshaguhyasahasranaamastotram 

stotra-af4dc902
Composer: Paaramparika Reads: 6
23px
गुह्यौच्छिष्टगणेशगुह्यसहस्रनामस्तोत्रम्  सनक उवाच देव देव महादेव विद्यानाथ गुरूत्तम । उपासनानि भिन्नानि बुद्धिभेदकृतानि तु ॥ १॥ कलौ हि धैर्यवैकल्यात् साधक भ्रमयन्ति हि । केनोपायेन लघुना लघुकालकृतेन च ॥ २॥ सधकाः सिद्धिजालानि प्राप्नुयुर्हि कलौ युगे । तमहं ज्ञातुमिच्छामि भवन्मुखरसाकुलः ॥ ३॥ यदि मे योग्यतास्तीति मन्यते भवता तदा । आचक्ष्व करुणासिन्धो कौतुकं मे प्रपूरयन् ॥ ४॥ दक्षिनामूर्तिरुवाच - वत्स वत्स किम्मेव हि ब्रूयते तु त्वयाधुना । तव चेद्योग्यता नास्ति कस्यान्यस्येह योग्यता ॥ ५॥ त्वादृशो यदि लोकेऽस्मिन् शिष्यो लभ्येत कर्हिचित् । तदैव तस्मै शिष्याय गुरुः सर्वं प्रकाशयेत् ॥ ६॥ भवान् हि त्रिषु लोकेषु ब्रह्मविद्याप्रचारणे । श्रीविद्यायास्तथा च्छन्दोविद्यायाश्च प्रचारणे ॥ ७॥ नियत्या हि नियुक्तोऽसि तन्त्रविद्याप्रचारणे । अतः सर्वं प्रकाश्यं ते योग्य एवाऽसि वत्सक ॥ ८॥ यद्यद्विषयविज्ञानं प्रतीच्छा तव जायते । तत्तद् विस्रब्धमेव त्वं मां पृच्छस्व निराकुलः ॥ ९॥ कलौ हि क्षिप्रसिद्‍ध्यर्थं समस्च्येक उपायराट् । उच्छिष्टगणनाथस्य राधनं क्षिप्रसिद्धिकृत् ॥ १०॥ उच्छिष्टस्य गणेशस्य पूजनं बहुधा श्रुतम् । तन्मन्त्रा अपि बहवः श्रूयन्ते तन्त्रवेदिभिः ॥ ११॥ हस्तिशब्दं समुच्चार्य पिशाचीति ततो वदेत् । लिखेपदं समुच्चार्य वह्निजायान्तमुद्धरेत् ॥ १२॥ नवाक्षरोऽयमाख्यात उच्छिष्टस्य गणेशितुः । ऋषिः कङ्कोलनामास्य विराट् छन्द उदाहृतम् ॥ १३॥ उच्छिष्टगणपो देवः सर्वसम्पत्प्रदायकः । द्वाभ्यां हृदयमाख्यातां त्रिभिः शिर उदाहृतम् ॥ १४॥ द्वाभ्यां शिखा समाख्याता वर्म द्वाभ्यां समीरितम् । समस्तेनाऽस्त्रमाख्यातं पञ्चाङ्गविधिरीरितः ॥ १५॥ उत्राङ्गकल्पनायां हि नेत्रत्रयं न विद्यते । वर्णलक्षं जपित्वा तु मन्त्रमेतं तु साधयेत् ॥ १६॥ आदौ षट्कोणमालिख्य ततो वसुदलद्वयम् । चतुरस्रत्रिवीथीभिः सार्धं यन्त्रं समुद्धरेत् ॥ १७॥ पूजयित्वा यन्त्रराजं विधिनेमं सुभक्तितः । सर्वसिद्धिसमृद्धश्रीः साधको भुवि जायते ॥ १८॥ मूलमन्त्राधिपं देवं मध्ये बिन्धौ प्रपूजयेत् । षट्कोणेषु षडङ्गानि पूजयेत्स्थिरमानसः ॥ १९॥ षडङ्गानि मनोरस्य ध्यातव्याश्चाङ्गदेवताः । तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः ॥ २०॥ वरदाभयधारिण्यः प्रधानतनवः स्त्रियः । पञ्चाङ्गकमनुर्यत्र तत्र पञ्चारमालिखेत् ॥ २१॥ पुजापि तत्र कर्तव्या पञ्चाङ्गैरेव मन्त्रकैः । आध्याष्टदलमूलेषु शक्तीरष्टौ क्रमाद्यजेत् ॥ २२॥ विद्याख्या विश्वधात्री च भोगदा विघ्ननाशिनी । निधिप्रदा च पापघ्नी तथा पुण्या शशिप्रभा ॥ २३॥ दलेषु च यजेत्तद्वदणिमाद्या हि देवताः । अणिमा महिमा चैव लघिमा गरिमा तथा ॥ २४॥ ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च । द्वितीयाष्टदलाब्जस्य दलेषु क्रमशोऽष्टसु ॥ २५॥ वक्रतुण्डादिका देवाः सम्पूज्या गणपेश्वराः । वक्रतुण्डैक दष्ट्रौ च महोदरगजाननौ ॥ २६॥ लम्बोदराख्य विकतौ विघ्नराट्धूम्रवर्णकौ । बहिरष्टदलाब्जस्य दलाग्रेष्वपि च क्रमात् ॥ २७॥ विघ्ना पूजनीया हि ब्रह्म्याद्यास्त्वष्टमातरः । ब्राह्मी महेश्वरीं चैव कौमारीं वैष्णवीं तथा ॥ २८॥ वाराहीं च तथेन्द्राणीं चामुण्डां तदनन्तरम् । महालक्षीं च क्रमशः पूर्वादिषु हि पूजयेत् ॥ २९॥ चतुरस्रस्याद्यवीथ्यां द्वितीयायां तथापि च । त्रितीयायामपि तथा लोकपालाष्टकस्य तु ॥ ३०॥ वाहनानि तथास्त्राणि दैवतानि प्रपूजयेत् । इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ ३१॥ सोम ईशानः पतयः पूर्वादीनां दिशां क्रमात् । वज्रशक्ती दन्डखड्गौ पशायुधं ततो ध्वजः ॥ ३२॥ शङ्खस्तथा त्रिशूलश्च शस्त्राण्येषां यथाक्रमम् । ऐरावतोऽजमहिषौ नरश्च मकरस्तथा ॥ ३३॥ रुरुरश्वश्च वृषभो वहनानि यथाक्रमम् । पञ्चावरणकं यन्त्रमुच्छिष्टस्य गणेशितुः ॥ ३४॥ पूजयित्वा विधानेन सर्वसिद्धीश्वरो भवेत् । पञ्चावरणपूजेयमुच्छिष्टस्य गणेशितुः ॥ ३५॥ नवानामपि मन्त्राणां साधारणतया स्मृतम् । तत्तन्मन्त्रस्य साध्यस्य बिन्दुचक्रे प्रपूजनम् ॥ ३६॥ साध्यस्य देवरूपस्य ध्याने त्वस्ति विशेषकः । अन्यक्त साधारणता पऽचावरण पूजने ॥ ३७॥ मन्त्रमन्यं श‍ृणोत्वद्या सावधानेन हि चेतसा । क्रीं क्रीं पदम् समुच्चार्य ह्रीं ह्रीं च पदमुच्चरेत् ॥ ३८॥ हुङ्कारं सम्यगुच्चार्य घे घे शब्द मथोच्चरेत् । षट्कारं स्वाहया युक्तं प्रणवाद्योऽयमी रितः ॥ ३९॥ एकादशाक्षरः सम्यङ् मूलमन्त्रो गणेशितुः । ऋष्यादिकं पुरा प्रोक्तं ध्यानपूजादिकं तथा ॥ ४०॥ अन्यं मन्त्रं गणेशस्योच्छिष्टस्यास्य ब्रवीमि ते । एकदंष्ट्रं चतुर्थ्यन्तं वदेद् हस्तिमुखं ततः ॥ ४१॥ लम्बोदरपदं ङेन्तं उच्छिष्टेति पदं ततः । आत्मनेऽङ्कुशबीजं च ग्लूङ्कारं भुवनेश्वरीम् ॥ ४२॥ हुं घे घे पदमुच्चार्य स्वाहाकारं समुच्चरेत् । सप्तविंशतिभिर्वर्णैः मन्त्रः प्रोक्तो गणेशितुः ॥ ४३॥ ऋष्यादिध्यानपूजान्तं यथापूर्वं समाचरेत् । मन्त्रान्तरं संश‍ृणुष्वोच्छिष्टपूर्वगणेशितुः ॥ ४४॥ ओङ्कारमुच्चरेदादौ नमो भगवते पदम् । एकदम्ष्ट्राय सम्भाष्य हस्त्यन्ते मुखशब्दतः ॥ ४५॥ लम्बोदरपदं ङेन्तं उच्छिष्टेति पदं ततः । महात्मने पदं प्रोक्ता वदेदम्कुशबीजकम् ॥ ४६॥ ग्लूङ्कारं मायया युक्तं हुं घे घे च समुच्चरेत् । स्वाहान्तो मनुराक्यातः सम्यक् षट्त्रिंशदक्षरः ॥ ४७॥ ऋष्यादिकं पुरा प्रोक्तं षड्बीजैरङ्गकल्पना । ध्यानपूजादिकं सर्वं मन्त्री पूर्ववदाचरेत् ॥ ४८॥ बलिमन्त्रं गणेशस्य श्ऱ्ऱुत्वा बुद्धौ हि धार्यताम् । ॐ गं हं क्लौं समुच्चार्य ग्लौं उच्छिष्टगणेपदम् ॥ ४९॥ ततः शाय महायक्षायायं बलिरिति स्मृतः । अनेन मनुना मांसं फलं वापि बलिं हरेत् ॥ ५०॥ एतत्पूर्वोक्तमन्त्रेषु यथा ध्येयो गणधिपः । ऋणोत्ववहितमना ध्यानश्लोकं तथाधुना ॥ ५१॥ रम्योद्भिन्नारुणतरमणिव्रातसंशोभिकान्ति सम्बिभ्राणं करकिसलयैः पाशामप्यम्कुशाह्वम् । साभीतीष्टं त्रिनयनयुतं रक्तमाल्यांशुकाढ्यं उच्छिष्टाख्यं गणपतिममुं संस्मरेत्पद्मसंस्थम् ॥ ५२॥ अस्मिन् बलिमन्त्रे तु ध्याने स्यात्किञ्चिदन्तरम् । चतुर्भुजं त्रिनेत्रं च रक्तवर्णं कराम्बुजैः ॥ ५३॥ पशाङ्कुशौ मोदकानां पात्रं दन्तं च बिभ्रतम् । कमलासन आसीनमुन्मत्तं गणनायकम् ॥ ५४॥ ध्यायेदत्र बलेर्मन्त्र उच्छिष्टस्य गणेशितुः । मनुमन्यं गणेशस्योच्छिष्टाख्यस्य महोप्रभोः ॥ ५५॥ तव ब्रवीमि वात्सल्याच्छ्रुणोत्विह कुमारक । प्रणवो भुवनेशी च स्मृतिबिन्दुसमन्विता ॥ ५६॥ ततो नवाक्षरश्चैव सम्प्रोक्तो द्वादशाक्षरः । आदित्रयद्विरावृत्या हृदयादिषडङ्गकम् ॥ ५७॥ ध्यानपूजाविधाने तु नवार्णकवदाचरेत् । श‍ृणु मन्त्रान्तरं वत्सोच्छिष्टाख्यस्य गणेशितुः ॥ ५८॥ तारं हृदुच्छिष्टपदं गणेशाय नवाक्षरः । एकोनविंशत्यर्णोऽयं मुन्याद्याः पूर्ववत्स्मृताः ॥ ५९॥ त्र्यगद्वित्रिद्विद्विभिश्च मन्त्रार्णैः स्यात्षडङ्गकम् । एतावत्सु हि मन्त्रेषु ब्रह्मचारितया स्थितः ॥ ६०॥ ध्यातव्यः साधकैर्देव उच्छिष्टाख्यो गणेशिता । इतः परतरं मन्त्रद्वितयं तस्य विद्यते ॥ ६१॥ सप्ताधिकत्रिंशदर्णो द्वात्रिंशदक्षरोऽपि च । अनयोर्हि द्वयोर्मन्वोरुच्छिष्टाख्यगणेशिता ॥ ६२॥ विवस्त्रपत्न्यां सुरते प्रवृत्तत्वेन चिन्त्यते । शुण्डाहस्तेन जायाया लालयंश्च कुचद्वयम् ॥ ६३॥ महात्रिपुरसुन्दर्या यदायुधचतुष्टयम् । तदेव धारयन्देवो ध्यातव्योऽत्र गणाधिपः ॥ ६४॥ प्रणवं हृद्भगवते एकदम्ष्ट्राय वै वदेत् । ततो हस्तिमुखं ङेन्तं तथा लम्बोदरं ततः ॥ ६५॥ वदेदुच्छिष्टशब्दान्ते महात्मानं च ङेन्तगम् । पशमङ्कुशमाये च विघ्नवीजं च घेद्वयम् ॥ ६६॥ वह्निजायावधिं सप्तत्रिंशदर्णो मनुर्मतः । गिरिपङ्क्तिशराद्र्यब्धियुगार्णैरङ्गकल्पना ॥ ६७॥ तारो हस्तिमुखं ङेन्तं लम्बोदरपदं ततः । तथोच्छिष्टमहात्मानं पशाङ्कुशत्रपास्ततः ॥ ६८॥ कामत्रपावर्म घेघे उच्छिष्टायाग्निवल्लभा । द्वात्रिंशदक्षरो मन्त्रो गणेशस्य महात्मनः ॥ ६९॥ रसेषुसप्ताष्टयुगनेत्रार्णैरङ्गकल्पना । सप्तत्रिंशदर्णमन्त्रद्वात्रिंशदर्णयोर्द्वयोः ॥ ७०॥ गणकःस्यादृषिश्छन्दो गयत्री देवता ततः । उच्छिष्टपदपूर्वश्च गणनाथः समीरितः ॥ ७१॥ द्वात्रिंशदर्णको मन्त्रः सर्वतन्त्रेषु गोपितः । जप्त्वा यं मन्त्रराजं तु सर्वसिद्धीश्वरो भवेत् ॥ ७२॥ गुह्यनामसहस्राख्यस्तवपाठेऽपि योग्यता । अस्यैव मन्त्रराजस्य राधनेन हि जायते ॥ ७३॥ अष्टाविंशतिवर्णात्ममनुराट्साधकैरपि । गुह्यनामसहस्रेऽस्मिन् सम्प्रवेष्टुं हि शक्यते ॥ ७४॥ यत एष मनुश्रेष्ठः सर्वमन्त्रप्रसाधकः । अष्टाविंशतिवर्णात्मा सर्वमन्त्रप्रवेशकः ॥ ७५॥ सङ्गुप्तनामसाहस्रस्यादावेष प्रशस्यते । सर्वेषामपि मन्त्राणामादावेष हि साध्यते ॥ ७६॥ एकवर्णं समारभ्य यो यो मन्त्र उदीरितः । तत्तस्मिन्हि निर्भीका मनुनानेन योग्यता ॥ ७७॥ एकवर्णं समारभ्य यो यो मन्त्र समीरितः । तत्तस्मिन्हि गणेशान एतत्स्तोत्रेण पूज्यते ॥ ७८॥ वत्साधुनातिगुप्तं हि गुह्यनामसहस्रकम् । वक्ष्यामि भवतेऽद्यैव श‍ृणु तत्परमानसः ॥ ७९॥ यं श्रुत्वा सर्वलोकेषु नान्यज्ज्ञातव्यमस्ति ते । यं श्रुत्वा सर्वलोकेषु नान्यच्छ्रोतव्यमस्ति ते ॥ ८०॥ यं लब्धा नापरं लाभं मन्यसे त्वं ततोऽधिकम् । द्वात्रिंशदर्णके मन्त्रे यद्दृष्यादि समीग्तिम् ॥ ८१॥ तदेवात्रानुसन्धेयं नामसाहस्रकेऽपि च । यस्मिन् यस्मिंस्तु रूपे हि गणेशान उपास्यते ॥ ८२॥ तत्तत्प्रसादलाभार्थं स्तुतिरेषा प्रयुज्यते । उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने ॥ ८३॥ सङ्गुप्तनामसहस्रपूर्वभागः समाप्यते ॥ ८४॥ फलश्रुतिः । इदं तु नामसहस्रमुच्छिष्टगणपस्य तु । सर्वनामहस्रेषु क्षिप्रसिद्धिविधायकम् ॥ १॥ गुप्तानामपि सङ्गुप्तं सर्वशक्तिसमर्पकम् । मासेनैकैन सर्वासां सिद्धीनां हि विधायकम् ॥ २॥ अनेन सदृशं स्तोत्रमन्यद्भवि न विद्यते । विना त्रिपुरसुन्दर्या गुप्तनामसहस्रकम् ॥ ३॥ यद्यत्फलं समुद्दिष्टम् गुप्तनामसहस्रके । तत्तत् सर्वमतिक्षिप्रं सिद्‍ध्यत्यत्र न संशयः ॥ ४॥ शरीरद्वयसम्बद्धसर्वरोगविनाशनम् । अनाद्यविद्याविध्वंसि ब्रह्मविद्याप्रकाशकम् ॥ ५॥ शरीरे वर्तमानेऽपि विकलेवरमुक्तिभाक् । साधको जायतेऽनेन गुह्यनामजपेन तु ॥ ६॥ सच्चिदानन्दरूपेन वर्तमानो हि साधकः । नामरूपस्य साकल्यमुच्छिष्टत्वेन पश्यति ॥ ७॥ सिद्धस्य धीरवर्यस्य करणत्रयचेष्टितम् । उपासनरूपमेव सम्विभाति न संशयः ॥ ८॥ जीवन्नेव हि मुक्तः स उच्छिष्टस्य गणेशितुः । विदधानः सपर्यां तु सर्वदैव हि दृश्यते ॥ ९॥ तावत्पूजां सधकोद्ध उच्छिष्टस्य महाप्रभोः । क्रियाकलापजटिलां जपहोमादिनिर्भराम् ॥ १०॥ पञ्चावरणचक्रीयां कुर्यात् संस्थिरमानसः । यावत्सर्वं निजं कर्म संशान्तकर्तृतादिकम् ॥ ११॥ मरीचिकाजलप्रायमुच्छिष्टपदमाप्नुपात् । नामरूपस्य साकल्यमुच्छिष्टपदमाप्नुयात् ॥ १२॥ नामरूपात्मिका निष्टा येषां तेषामियं स्तुतिः । कलौ हि पापबहुले सर्वपापप्रणाशिका ॥ १३॥ इदं हि स्तोत्रग्रन्थानां सर्वेषां नायकायते । वैदिकैस्तान्त्रिकैर्वापि जपयज्ञादिभिस्तदा ॥ १४॥ यद्यत्पुण्यं कृच्छ्रसाध्यमश्वमेधादिभिस्तथा । तत्तत्सर्वमतिक्षिप्रं लघूपायेन साध्यते ॥ १५॥ अश्वमेधस्य कोटीनां यत्पुण्यं श्रुतिसम्मतम् । तदत्र गुह्यसाहस्रपठनेन हि सिद्‍ध्यति ॥ १६॥ सङ्गुप्तनामसाहस्रपठनाद्या हि साध्यते । सा शक्तिरश्वमेधस्याष्टकोट्यापि न सिध्यति ॥ १७॥ इदं नाम सहस्रं तु सर्वविद्याप्रकाशकम् । अष्टावधानविद्यायां शतावधानकेऽपि च ॥ १८॥ साहस्रिकावधानेऽपि सर्वविद्यास्वयङ्ग्रहे । एतादृशं स्तोत्रमन्यन् नोपकारि न संशयः ॥ १९॥ प्रतिवादिमुखस्तम्भे गणेशस्य महाप्रभोः । उच्छिष्टस्य स्तोत्रमेतद्विस्मापकफलप्रदम् ॥ २०॥ मनुष्यतारूषिताद्धि प्रमादादिकलङ्कितात् । गुरोः सम्पाद्यते विद्या या सा विद्याधिदेवता ॥ २१॥ स्वयङ्ग्रहाश्लेषमार्गमनुरुन्धे हि साधके । अनुभवैकगम्यं तु गुह्यनामप्रसादनम् ॥ २२॥ इदं नामसहस्रम् तु सर्वसम्पत्प्रदायकम् । धनधान्यसुताद्यष्टलक्ष्मीवृन्दप्रवर्धकम् ॥ २३॥ सर्ववन्ध्यात्वदोषघ्रं सत्सन्तानप्रदायकम् । सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ २४॥ धर्ममर्थं काममोक्षौ इटितीदं प्रदास्यति । निष्कामो वा सकामो वा सर्व एतत्प्रसाधयेत् ॥ २५॥ द्वत्रिंशद्वर्णकं मन्त्रं सहस्रावृत्तिकं जपेत् । गुह्यनामसहस्राख्यमेतद् भक्त्या ततः पठेत् ॥ २६॥ एवं तु सधकश्रेष्ठो वर्षमात्रं प्रयत्नतः । निशीथिन्यां मुक्तकेशः प्रजपेत्स्थिरमानसः ॥ २७॥ अष्टसिद्धिमवाप्नोति खेचरीमेलको भवेत् । समस्तेष्वपि लोकेषु तस्यासाध्यं न विद्यते ॥ २८॥ द्वात्रिंशद्वर्णकं मन्त्रं मातृकापरिवेष्टितम् । मासमेकं प्रतिदिनमष्टोत्तरशतं जपेत् ॥ २९॥ ततस्तु नामासहस्रं प्रत्यहं भक्तितः पठेत् । सिद्धिसन्घाः समायान्ति सद्यः साधकतल्लजम् ॥ ३०॥ पुस्तके लिखितं मन्त्रं दृष्ट्वा जपति यो नरः । स साधकाधमभ्रष्टो योगिनीशापभाग्भवेत् ॥ ३१॥ आचार्योद्धात्सिद्धमन्त्रान्मनुं लब्ध्वा विधानतः । साधकोद्धः सद्य एव सिद्धमन्त्रो भविष्यति ॥ ३२॥ मन्त्राराधनकालेऽपि साहस्रपठेऽपि च । पत्नीयोन्यां न्यस्तलिङ्गो ध्यातव्योऽत्र गणाधिपः ॥ ३३॥ शुण्डाहस्तेन जायाया संलालितोरुजद्वयः । तारठद्वयगम्बीजैर्बीजशक्ती च कीलकम् ॥ ३४॥ ताम्बूलचर्वणायुक्तः पत्न्यालिङ्गतदेहकः । मुक्तकेशो विवस्त्रश्च कुर्याधाराधनं परम् ॥ ३५॥ जननाशौचयुक्तो वा मरणाशौचयुक् तथा । जपं कुर्वन्हि धीरोऽयं सद्यः सिद्धिं प्रश्यति ॥ ३६॥ रजस्वलायाः कन्यायाः समीपे जपतत्परः । योगिनीनां चतुःषष्टिकोटिं दासीकरोति हि ॥ ३७॥ पितृभूमौ निशीथिन्यां प्रत्यहं धैर्यसम्युतः । मातृकापुटितं मन्त्रमष्टोत्तरशतं जपेत् ॥ ३८॥ साधकतल्लजस्यास्य यावन्मासं समाप्यते । निश्चितं मन्त्रसिद्धिः स्यादित्युक्तं तन्त्रवेदिभिः ॥ ३९॥ गुरुं सन्तोषयेद् भक्त्या भूषणाच्छादनादिभिः । गुरोः सन्तोषमात्रेण मन्त्रसिद्धिर्भवेद् ध्रुमम् ॥ ४०॥ गुरुमूलमिदं सर्वमित्याहुस्तन्त्रवेदिनः । गुरुं विलङ्घ्य मन्त्रेऽस्मिन् नाधिकारः सुरेष्वपि ॥ ४१॥ एतस्य मन्त्रराजस्य प्रयोगः क्रियते यदि । गुरोर्नुज्ञां विना तस्य नाशः सद्यः प्रजायते ॥ ४२॥ शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । यस्य देवे च मन्त्रे च गुरौ च त्रिषु निश्चला ॥ ४३॥ न व्यवच्छिद्यते भक्तिः तस्य सिद्धिरदूरतः । गुरोस्तु पाहुकामन्त्रं स्मृत्वा शिरसि पङ्कजे ॥ ४४॥ महतीं पादुकामेवाथवा स्वशिरसि स्मरन् । सर्वमन्त्रेषु संसिद्धिमनायासेन गच्छति ॥ ४५॥ गुरुपादुस्मृतिं हित्वा संसिसाधयिषोरणुम् । कोट्यावृत्तिजपेनापि तस्य मन्त्रो न सिद्‍ध्यति ॥ ४६॥ यस्य कस्यापि मन्त्रस्यालन्ध्योयं हि विधिः स्मृतः । उच्छिष्टस्य गणेशस्य जागर्त्येष विशेषतः ॥ ४७॥ महती पादुकैषा हि सर्वविद्यौघविग्रहा । आदिनाथस्य तद्विद्या शब्दरूपं वपुर्मता ॥ ४८॥ तेनास्याः स्मरणात्सद्यः सर्वमन्त्रो हि सिद्‍ध्यति । ब्राह्मे मुहूर्त उत्थाय साधकः स्थिरमानसः ॥ ४९॥ प्रत्यहं दक्षिणामूर्तेर्महतीं पादुकां सुधीः । अष्टाविंशतिवारं तु स्मृत्वा यङ्कञ्च साधयेत् ॥ ५०॥ सद्यपि ब्राह्मणश्रेष्टः कुलद्रव्यपरायणः । तदानेन विधानेन कर्तव्यं वीरसाधनम् ॥ ५१॥ मद्यं मांसं च मत्स्यं च मुद्रां मैथुनमेव च । इति मपञ्चकं दच्वा राधयेच्च गणाधिपम् ॥ ५२॥ एतेशां नित्यता ज्ञेया ह्यच्छिष्टस्य प्रपूजने । प्रतिनिध्यर्पणां त्वत्र न हि देवप्रसादकम् ॥ ५३॥ तथापीह कलौ केचिद् ग्रह्णीयुर्लशुनादिकम् । सम्प्रदायानुरोघेनानुतिष्ठतु हि साधकः ॥ ५४॥ लक्षमानं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः । तर्पणानि दशांशेन कुर्यान्मार्जनभोजने ॥ ५५॥ कलौ हि सर्वमन्त्राणां चतुर्गुणजपो भवेत् । एवं संसिद्धमन्त्रस्तु प्रयोगानाचरेत्ततः ॥ ५६॥ धनं धान्यं सुतान् पौत्रान् सौभाग्यमतुलं यशः । प्राप्नोति साधकश्रेष्ठो गणेशस्य प्रसादतः ॥ ५७॥ ललितानामसाहस्रमुच्छिष्टगणपस्य च । स्तोत्रद्वयं साधकानां सर्ववाञ्छाप्रपूरणम् ॥ ५८॥ द्वयोरप्यनयोर्मध्ये नान्तरं किञ्चिदस्ति हि । स्तोत्रयोरनयोर्यस्तु भेदकृत् पापकृद्धि सः ॥ ५९॥ उच्छिष्टगणनाथस्य मन्त्रेष्वेषु न शोधनम् । सिद्धारिचक्रचिन्ता न प्राप्ताश्चेत्सिद्धिदा गुरोः ॥ ६०॥ मनवोऽमी सदा गोप्या न प्रकाश्या एतस्ततः । द्वात्रिंशदर्णके मन्त्रे विशिष्टोऽयं विधिः स्मृतः ॥ ६१॥ अयमेव विधिर्ग्राह्यो देवीषोडशवर्णके । राज्यं देयं शिरो देयं न प्रदेयमिदं द्वयम् ॥ ६२॥ महत्पदसमायुक्तपादुका भुवि दुर्लभा । इदं द्वयात्सुसङ्गुप्ता न देया यस्य कस्य तु ॥ ६३॥ प्रणवादिस्त्रितारीयुग् बालाबीजकशोभिता । वाणीभूबीजसंयुक्ता हंसत्रयसमन्विता ॥ ६४॥ खेचरीबीजसम्भिन्ना नवनाथसुशोभिनी । प्रसादश्रीसमायुक्ता नवनाथविलोमका ॥ ६५॥ पराप्रसादबीजाढ्या महागणेशमन्त्रका । बालाषडक्षरीयुक्ता योगबालाविजृम्भिता ॥ ६६॥ अन्नपूर्णासमायुक्ता वाजिवाहाविलासिनी । सौभाग्यपूर्वविद्यायुङ्महाषोडशिकान्विता ॥ ६७॥ उच्छिष्टपूर्वचाण्डालीसमायुक्तसुविग्रहा । त्रयोदशार्णवाग्देवीसमुल्लसितमूर्तिका ॥ ६८॥ नकुलीमतृसंयुक्ता महामतङ्गिनीयुता । लघुबार्तालिकायुक्ता स्वप्नवार्तालिकान्विता ॥ ६९॥ तिरस्करिणिकायुक्ता महावार्तालिकायुता । पराबीजसमायुक्ता लोपमुद्राविजृम्भिता ॥ ७०॥ त्रयोदशाक्षरीहादिज्ञप्तिविद्यासमन्विता । द्विजपङ्क्त्यर्णसंयुक्तोच्छिष्टगणपसंयुता ॥ ७१॥ महावाक्यमहामातृचतुष्टयविलासिनी । चतुर्विंशतिवर्णात्मदक्षिणामूर्तिशोभिनी ॥ ७२॥ पुनर्हंसत्रयारूढा रसावाणीसमापिता । श्रीविद्यानन्दनाथेति तत आत्मक उच्चरेत् ॥ ७३॥ श्रीचर्यानन्दनाथेति ततश्च श्रीमहापदम् । पदुकां तु समुच्चार्य पूजयामि पदं ततः ॥ ७४॥ नाम इति समुच्चार्य महतीं पदुकां स्मरेत् । महती पदुकेयं तु सर्वतन्त्रेषु गोपिताम् ॥ ७५॥ प्रातः सायं च सञ्चिन्त्या महासिद्धिप्रदायिनी । पादुकायाः परो मन्त्रोः त्रैलोक्येपि न विद्यते ॥ ७६॥ महतीं पादुकां स्मृत्वोच्छिष्टाख्यस्य गणेशितुः । मन्त्रराजस्य संसिद्‍ध्यै प्रयतेतेह साधकः ॥ ७७॥ उच्छिष्टस्य गणेशस्य संराधनावलम्बने । सधकैर्धैर्यवत्त्वेन वर्तितव्यं प्रत्यत्नतः ॥ ७८॥ तादृश्यां धैर्यसम्पत्तौ असाध्यं नहि विद्यते । प्रमाणं मेरुतन्त्रीयं विस्मृतव्यमिदं न तु ॥ ७९॥ रमादिषोडशीदीक्षा सम्पूर्णाख्या गुरुत्तमात् । लब्धा येन हि तस्यैवोच्छिष्टोपास्तौ हि योग्यता ॥ ८०॥ षोडशीसाधकादन्य उच्छिष्टाख्यं गणेश्वरम् । शास्त्रमेनमनादृत्य सिसाधयिषुरुद्यतः ॥ ८१॥ कुलस्य पशुपुत्राणामात्मनश्च धनस्य च । नाशमेव प्रपश्यन्हि गच्छेच्च रौरवादिकम् ॥ ८२॥ देशिकापसदान्मन्त्र उच्छिष्टस्य गणेशितुः । गुह्यमाणो हि चापल्याद् हन्ति शिष्यं गुरुं तथा ॥ ८३॥ नियमोल्लङ्घिनं शिष्यं योगिनीनां क्रुधा दहेत् । अयुक्तस्य हि शिष्यस्योपदेष्टारं दहेत्तथा ॥ ८४॥ उच्छिष्टसाधनात्पूर्वमष्टाविंशतिवर्णकम् । महागणाधिनाथस्य मन्त्रराजमनुत्तमम् ॥ ८५॥ साधयेत्साधको धृत्या ह्यन्यथाऽनर्थमाचरेत् । अनन्तरं हि बालाया मन्त्रं संसाध्य साधकः ॥ ८६॥ सौभाग्यपूर्वविद्यायां सिद्धिं गच्छेद्धि यत्नतः । द्वितीयमभिषेकं च ततो लब्ध्वा गुरुत्तमात् ॥ ८७॥ पूर्णाभिषेकनामानं संसाधयेच्च षोडशीम् । तारादिषोडशीभेदाः सन्ति यद्यपि वत्सक ॥ ८८॥ श्रीबीजेन समारब्धा षोडशीह तु गुह्यते । त्रिपुरां षोडशीं नाम साधयित्वा ह्युपासकः ॥ ८९॥ उच्छिष्टाख्यं गणेशानं ततो धृत्या हि साधयेत् । द्वात्रिंशदर्णके मन्त्रेऽथ सप्ताधिकवर्णके ॥ ९०॥ सधकस्येह संसिद्धिरनायासेन दृश्यते । अत इमं स्तोत्रराजं सङ्गोपाय प्रयत्नतः ॥ ९१॥ अष्टोत्तरं सहस्रं तु स्तोत्रस्यास्य हि सेवनम् । चतुर्दशकसंयुक्तचतुर्युक्तचतुश्शती ॥ ९२॥ साहस्री मनुराजस्य सञ्जप्तिरपि साधकम् । सर्वज्ञत्वादिसिद्‍ध्यौघं सिद्धिश्चाणिमादिकाः । सङ्गमयेद्धि तत्रैव जगद्धिस्मयकारिणीः ॥ ९३॥ दक्षिणाभिमुखेशस्य सकाशाद्धि कुमारकः । स्तोत्रस्यैतस्य संश्रुत्या सद्योऽजायत निर्वृतः ॥ ९४॥ उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने । गुह्यनामकसाहस्रे फलभागः समाप्यते ॥ ९५॥ उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने । गुह्यनामसहस्राख्यस्त्रिंशोऽध्यायः समाप्यते ॥ ९६॥ इति गुह्यौच्छिष्टगणेशगुह्यसहस्रनामस्तोत्रस्य पूर्वपीठिकासहित फलश्रुतिः समाप्ता । ॥ इति सर्वं शिवम् ॥
Chant Count: 0/108